संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| अङ्गुली लक्षणविधि पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - अङ्गुली लक्षणविधि पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः अङ्गुली लक्षणविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि अङ्गुलीनान्तु लक्षणम् ।मानाङ्गुलन्तु प्रथमं मात्राङ्गुलं द्वितीयकम् ॥१॥देहलब्ध प्रमाणन्तु तृतीयमङ्गुलं स्मृतम् ।यस्मात् परमणुर्नास्ति परमाणुस्तदुच्यते ॥२॥परमाणुरधश्चैवापि च केशाग्र एव च ।रीक्षायूकाय वास्तत्र क्रमशोऽष्टगुणैर्मतम् ॥३॥मानाङ्गुलमिति प्रोक्तं ततो मात्राङ्गुलं शृणु ।आचार्य दक्षिणे हस्ते मध्यमाङ्गुलिमध्यमे ॥४॥पर्वमात्राङ्गुलं ज्ञेयं देहलब्धाङ्गुलं शृणु ।प्रतिमायास्तथोत्सेधे कालगण्येन भाजिते ॥५॥तेष्वेकं भागवन्मानं देहलब्धाङ्गुलं स्मृतम् ।प्रासादमण्डपांश्चैव प्राकारान् गोपुरानपि ॥६॥ग्रामाध्वक्षेत्र गण्येषु मानाङ्गुलविधानतः ।आचार्यदक्षाङ्गुलिभिर्मितेर्व्यासमिधादिकैः ॥७॥कूर्चे पवित्रके चैव सृवे सृक्भिरथान्यकैः ।यागे प्रयोजितानीह मात्राङ्गुलिविधिश्चरेत् ॥८॥अथमानाङ्गुलैर्वापि कारयेद्यागकर्मणि ।देहलब्धाङ्गुले नैव प्रतिमाङ्कारयेत् बुधः ॥९॥एकाङ्गुलस्य संज्ञा स्यात् बैन्दुमोक्षोक्तमात्रकम् ।कलाकोलक पद्माक्षि चाश्विनीद्व्यङ्गुलस्य तु ॥१०॥रुद्राक्षाग्निगुणाश्चैव शूलविद्या त्रियङ्गुलम् ।युगभागञ्च वेदञ्च तुरीयं चतुरङ्गुलम् ॥११॥रुद्राननेन्द्रियं भूत बाणं पञ्चाङ्गुलस्य तु ।कर्माङ्गमयनञ्चैव रसश्चैव षडङ्गुलम् ॥१२॥पातालमुनिधातूंश्च चाब्धिं सप्ताङ्गुलस्य तु ।वसुलोकेशमूर्तिश्च ततोऽष्टाङ्गुलसंज्ञकाः ॥१३॥द्वारं सूत्रं ग्रहं शक्तिर्नवाङ्गुलमिति स्मृतम् ।दिशानाड्यायुधञ्चैव प्रादुर्भावं दशाङ्गुलम् ॥१४॥प्. १३९) त्रिषु विष्कूश्च विंशश्च गतित्रिंशतिरुच्यते ।त्रिजगत् चत्वारिंशत् पञ्चाशच्छक्वरीति च ॥१५॥अतिशक्वरिश्च षष्टिस्तु यष्टिसप्ततिरुच्यते ।अत्यष्ट्यशीतिकं विद्धि नवती धृतिरेव च ॥१६॥अतिधृतिः शताङ्गुल्यमिति संज्ञा प्रकीर्तिताः ।एकं दशं शतञ्चैव सहस्रमयुतं पुनः ॥१७॥नियुतं प्रयुतञ्चैव कोटिञ्चैव यथार्बुदम् ।बृन्दं खर्वं निखर्वञ्च शंखं पद्ममतः परम् ॥१८॥समुद्रमध्यन्ताराख्यं पराख्यमपरं तथा ।परार्धमेवमाख्यातं दशवृत्त्युत्तरोत्तरम् ॥१९॥एवमेतानि चोक्तानि सङ्ख्या स्थानानिविंशतिः ।कालं यमं त्रिभागञ्च षट्कलाश्च वितस्तिकम् ॥२०॥षट्कोलकं मुखञ्चैव द्वादशाङ्गुलसंज्ञकम् ।अङ्गुष्ठ तर्जनीयुक्तं प्रादेशमिति कीर्तितम् ॥२१॥मध्यमाङ्गुष्ठ संयुक्तं तालमानमिति स्मृतम् ।अङ्गुष्ठानामिकायुक्तं वितस्तिरिति चोच्यते ॥२२॥कनिष्ठाङ्गुष्ठयोर्युक्तं गोकर्णमिति संज्ञिकम् ।प्रादेशश्च वितस्तिश्च गोकर्णश्च इमे त्रयः ॥२३॥यज्ञादिके प्रयोक्तव्याः प्रासादादौ नमापयेत् ।रत्निः संवृतमुष्टिः स्यादरत्निः प्रसृताङ्गुलिः ॥२४॥किष्कुश्च प्राजापत्यश्च धनुर्मुष्टिधनु ग्रहौ ।अङ्गुलेस्तु चतुर्विंशत् किष्कुरित्युच्यते बुधैः ॥२५॥पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम् ।षड्विंशतिधनुर्मुष्टिः सप्तविंशद्धनुग्रहः ॥२६॥किष्कुस्तादि चत्वारिमानाङ्गुलवशात्तम ।एभिर्हस्त प्रमाणैस्तु प्रासादादीनि कारयेत् ॥२७॥शयनञ्चासनञ्चैव किष्कुमानवशात् कुरु ।लिङ्गञ्च पिण्डिकाञ्चैव प्रासादं गोपुरं तथा ॥२८॥प्राकारमण्डपञ्चैव प्राजापत्यकरेण तु ।धनुग्रहश्चतुष्कं यद्दण्डमानं प्रकीर्तितम् ॥२९॥सहस्रदण्डमानेन क्रोशमात्रं विधीयते ।गव्यूतिर्द्विगुणं ज्ञेयं तद्विगुणन्तु घातकम् ॥३०॥घातकस्य चतुष्कन्तु योजनापरिकीर्तिता ।प्रतिमायास्तदुत्सेधं तालदण्डेन भाजयेत् ॥३१॥चतुर्विंशच्छतञ्चैव उत्तमं दशतालकम् ।विंशच्छतञ्च मध्यन्तु कन्यसं षोडशाधिकम् ॥३२॥द्वादशाधिकमेवं यत् नवतालोत्तमं भवेत् ।अष्टौशतञ्चतुःशतं मध्यमं कन्यसं तथा ॥३३॥शतं षण्णवतिश्चैव नवत्युत्तरकरद्वयम् ।अष्टतालमिदं प्रोक्तं त्रिविधं पूर्वपद्धति ॥३४॥इत्येवं भागहीनं स्यादेक तालान्तमेव हि ।तयोदशार्द्धं मुखज्येष्ठन्तयोदशन्तु मध्यमम् ॥३५॥तत्द्वादशार्धमधममुत्तमं दशतालके ।नवतालोत्तमे चैव मुखं वै द्वादशाङ्गुलम् ॥३६॥अर्धार्धाङ्गुल हीनेन मध्यमाधममुच्यते ।त्रिविधादशतालेन त्रिमूर्तीनान्तु कीर्तिता ॥३७॥त्रिविधं नवतालेन देवानां योषितामपि ।अष्टतालेन मर्त्यानां सप्ततालेन रक्षसाम् ॥३८॥षट्तालेन तु गन्धर्वान् पञ्चतालो गणाधिपः ।वामनस्य तथैवस्याच्चतुस्तालास्तु भूतकाः ॥३९॥त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् ।अणुजानान्तथैकं स्यात् पिशाचानान्तु विंशतिः ॥४०॥अङ्गुल्यः सम्यगाख्याताः प्रासादलक्षण शृणु ।इति अङ्गुलीलक्षणविधिपटलस्त्रिंशत्तमः ॥३०॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP