संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| अथ मुद्रालक्षण पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - अथ मुद्रालक्षण पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः अथ मुद्रालक्षण पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि मुद्रायालक्षणं परम् ।अर्चनादिक्रियाकाले संयोज्या सा सलक्षणा ॥१॥अस्त्रीवक्त्री महामुद्रा शोधनी च संहारिणी ।पञ्चमुखी च सुरभि द्रव्या च मुकुली तथा ॥२॥पद्मा च शशकर्णी च शक्तिबीजा तथा भवेत् ।आवाहनी च शान्ता च मनोरमध्वजा तथा ॥३॥निष्ठुरा लिङ्गमुद्रा च गायत्री कालकण्ठका ।शूलमुद्रा नमस्कारात्रयोविंशति कीर्तिताः ॥४॥द्वौ मुष्टी संहति कृत्वा शीघ्रं हस्तौ प्रसारयेत् ।अस्त्रमुद्रेति विख्याता सर्वेषाञ्च भयंकरी ॥५॥वामहस्तो परिस्थाप्य अङ्गुल्यो दक्षिणस्य तु ।आकुञ्चयेत् ततः सर्वा नङ्गुष्ठेन तु बन्धयेत् ॥६॥वामाङ्गुष्ठेषु संपीड्य अङ्गुल्योङ्गुष्ठकं दृढम् ।इयं वक्त्राख्यमुद्रा तु स्नानार्थं देशिकस्य तु ॥७॥हस्ताभ्यां संस्पृशेत् पादौ द्वौहस्तौ मस्तके न्यसेत् ।एषामुद्रा महामुद्रा करसंस्कारपश्चिमे ॥८॥पाणिमूले तु संलग्नौ हृद्देशे तु परस्परम् ।कृत्वैवं ताडयेत् पाणिमुद्रेयं शोधनी भवेत् ॥९॥प्रसार्य दक्षिणाङ्गुल्यस्त्वङ्गुष्ठं मूर्ध्निसंस्थितम् ।मुष्टिवत् सततं कृत्वा ह्येषा संहारिणी स्मृताः ॥१०॥कृत्वान्योन्य गताङ्गुल्याः पृष्ठतो हस्तयोर्द्वयोः ।तिर्यक् त्वेकं न्यसेत् तत्र अङ्गुष्ठाभ्यां समाक्रमेत् ॥११॥तर्जिन्या मध्यमादूर्ध्वे नामिके चोच्छ्रिते शुभे ।कृत्वा पञ्चमुखी ख्याता मुद्रेयं शङ्करस्य तु ॥१२॥वेणी बन्धं करौ कृत्वा ह्यङ्गुष्ठौ युग्मसंस्थितौ ।तर्जनीमध्यमे लीनौ कनिष्ठानामिके युते ॥१३॥एवञ्चत्वारि युग्मन्तु दिव्यामृतसुवर्षिणि ।इयं सुरभिमुद्रा च द्रव्यशुद्ध्यर्थमुच्यते ॥१४॥कृत्वाञ्जलिं कराभ्यान्तु अङ्गुष्ठानामिकान्वितम् ।प्रसारयेत् ततः शेषां मुद्रेयं द्रव्यरूपिणी ॥१५॥द्वौहस्तावेकतः कृत्वा मध्ये तु सुषिरन्तयोः ।सरोजमुकुलाकारां मुकुलिन्तु प्रदर्शयेत् ॥१६॥पूर्वोक्तामुकुली या तु हृद्देशान्निः सृताङ्गुली ।व्याको च कमलाकारां पद्ममुद्रान्तु दर्शयेत् ॥१७॥तर्जन्यौ कुञ्चिते चैव तयोरग्रे निधापयेत् ।द्वयोरंगुष्ठशिरसि तेषां मध्यघनः समाः ॥१८॥कृत्वा तु मणिबन्धे तु वामे सव्यन्तथा न्यसेत् ।मुद्रेयं शशकर्णी तु विज्ञेया योगकर्मणि ॥१९॥तर्जनीं कुञ्चयेदेकामङ्गुष्ठे तु तथा पुनः ।शक्तिमुद्रेति विख्याता शक्तीनाञ्च प्रकल्पयेत् ॥२०॥उत्तानौ तु करौ कृत्वा वेणीबन्धन्तु कारयेत् ।अङ्गुष्ठौ प्रक्षिपेन्मध्ये हस्तसंपुट गोपितौ ॥२१॥कनिष्ठकौ तथा चैव मुहुः कृत्वा प्रसारितौ ।अग्रे गुरुसमायुक्तां बीजमुद्रां प्रदर्शयेत् ॥२२॥तर्जन्यङ्गुष्ठलग्नाग्रा शान्तेयं संप्रकीर्तिता ।हस्ता वुत्तान्नकौ कृत्वा कन्न्यसौङ्गुष्ठकौ न्यसेत् ॥२३॥मूलपर्वे समौ कृत्वा मुद्रेषावारिधि स्मृता ।बलितं हस्तयोः कार्यमुत्ताने तु कनिष्ठकौ ॥२४॥तयोर्वामावलि ज्ञेया वलीते मध्यमेऽपि च ।कुञ्चिते नामिका या च स्वपाणितल योजिते ॥२५॥देशिन्यौ प्रसृतौ कृत्वा तयोरग्रे नियोजयेत् ।अङ्गुष्ठौ मूलपर्वस्थौ तयोरेव हि कुञ्चितौ ॥२६॥मनोरमेति विख्याता शिव सा युज्यदायिका ।वामे प्रदेशिन्यग्रन्तु वेष्टयेत् सव्यपाणिना ॥२७॥कृत्वोर्ध्वे तु ततोऽङ्गुष्ठं हृदये सन्नियोजयेत् ।वामाङ्गुष्ठञ्च वामाभिस्ति सृभिर्वेष्टयेत् क्रमात् ॥२८॥ध्वजमुद्रासमाख्याता संयोज्या योगकर्मणि ।अङ्गुष्ठौ मध्यतः कृत्वामुष्टिभ्यां पीडयेदुभौ ॥२९॥हस्तौ वाप्युभयौ कृत्वा निष्ठुरां सन्नियोजयेत् ।कृत्वामुष्टि भवेद्धस्तौ व्युद्धमङ्गुष्ठसंस्थितौ ॥३०॥मुद्रैषा लिङ्गसंज्ञा तु कृत्वा देशिकदर्शने ।अन्योन्यान्तरगाः सर्वाः करपृष्ठाग्रयोजिताः ॥३०॥अङ्गुष्ठाङ्गुलयः कुर्यादक्षरञ्च नरान्तने ।पूजाकर्मणि गायत्रीं गायत्र्यान्तु प्रयोजयेत् ॥३१॥कृत्वामुष्टिं ततो स्थाने तदानङ्गुलियोजिते ।अङ्गुष्ठाग्रौ च संलग्नौ कालकण्ठीन्तु दर्शयेत् ॥३२॥अन्योन्यान्तरितं कृत्वा पाणि पृष्ठेन योजयेत् ।मध्यमे चोच्छ्रिते कृत्वा शूलमुद्रे कीर्तिताः ॥३३॥सतताङ्गुलि संलग्नौ हस्तौ हृद्देशमाश्रितौ ।सर्वेषां बन्धनं कार्यं वमाङ्गुष्ठनिपीडनम् ॥३४॥नमस्कारेति विज्ञेया सर्वकर्मणिकारयेत् ।विधिप्रपूरणार्थन्तु कृत्वा मुद्रान्तु देशिकाः ॥३५॥मुद्रायालक्षणं प्रोक्तं हविष्यलक्षणं शृणु ।इति मुद्रालक्षण पटलो नवमः ॥९॥ N/A References : N/A Last Updated : January 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP