संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| अथ हविष्यविधि पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - अथ हविष्यविधि पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः अथ हविष्यविधि पटलः Translation - भाषांतर अथतः संप्रवक्ष्यामि हविष्यविधिमुत्तमम् ।नीवारञ्चैव गोधूमं यवं वेणुसमुद्भवम् ॥१॥प्रधानतण्डुलं प्रोक्तन्नैवेद्यस्य शिवस्य तु ।अलाभे चोक्तबीजानामथवा शालितण्डुलैः ॥२॥श्वेतशाली महाशाली रक्तशाली तथैव च ।कृष्णशाली हेमशाली शालायश्च तथान्यकाः ॥३॥शालयोर्व्रीहहयोर्वाथ तण्डुलार्थं प्रगृह्य च ।वर्णगन्धरसैरुष्टास्त्वयोग्यास्तण्डुलास्तथा ॥४॥चातुर्वर्णोत्भवानारी पतिपुत्रवतीमता ।तेषामेक तमे जाता अन्या वा कृतमङ्गला ॥५॥सा तण्डुलक्रियायास्तु युक्ताभक्तिसमन्विता ।आदित्यरश्मि सन्तप्ता धान्यं प्रक्षिप्युलूखले ॥६॥प्राङ्मुखोदुङ्मुखो वापि कुट्टने मुसलेन तु ।तुषान् व्यपोह्य शूर्पेण कंबुकाञ्च कणान्त्यजेत् ॥७॥अखण्डान् तण्डुलान् ग्राह्य श्वेतवर्णांस्तु निर्मलान् ।द्विगुञ्जं माषकं विद्याद्धरणं माषविंशतिः ॥८॥धरणाष्टौ पलञ्चैव पलंमुष्टिरिहोच्यते ।चतुर्मुष्टिस्तथा पादं प्रस्थं पादचतुष्ककम् ॥९॥आढकन्तच्चतुष्कं स्याद् द्रोणन्तस्य चतुष्ककम् ।तवधामार्गमुद्दिश्य नैवेद्यन् तत् प्रकल्पयेत् ॥१०॥प्रातः साये तथा भ्यर्च्य मध्याह्ने च निवेदनम् ।प्रस्थद्वयन्तु तत् काले पाचयित्वा निवेदयेत् ॥११॥एकदीपं द्विकाले च रात्रौ दीपद्वयन्त्विह ।एवमुक्तप्रमाणेन क्षुद्रमध्याधमाधमम् ॥१२॥प्रातः काले च मध्याह्ने द्विप्रस्थन्तण्डुलं हविः ।साये संख्यान्तमभ्यर्च्य दीपं प्राग्द्विगुणं भवेत् ॥१३॥प्रस्थद्वयं त्रिकालेषु प्रत्येकञ्च निवेदयेत् ।दीपञ्चैव चतुःप्रोक्तासा ये तु द्विगुणं तथा ॥१४॥अधमन्त्रयकञ्चैव वाद्यध्वनिसमन्वितम् ।स्नाने भोजनके याने प्रच्छन्नपटमार्जने ॥१५॥बलिदानेप्युषः काले वाद्यघोषन्तु कारयेत् ।मध्यमस्याधमे प्रोक्तं मध्याह्ने त्वाढकं हविः ॥१६॥प्रस्थद्वयं द्विकाले च दीपं विंशतिकं भवेत् ।मध्यत्रये तु मतिमान् वाद्यध्वनि समायुतम् ॥१७॥त्रिकालं बलिलिङ्गे च बलिदानन्नयेत् ततः ।मध्यमामध्यमं विद्यात् त्रिकाले ष्वाढकं हविः ॥१८॥अर्धयामे तदर्द्धञ्च चतुर्विंशति दीपकम् ।अर्द्धरात्रे तु या पूजार्धयाममिहोच्यते ॥१९॥स्नानानि तु निवेद्यान्तं बलिहोमविवर्जितम् ।वामान्तं वाथ कुर्वीत स्नात्वा वर्जितपूजितम् ॥२०॥सायङ्कालस्य यामान्ते पूजायामान्तमुच्यते ।त्रिकालं च बलिः प्रोक्तं पुष्पार्घ्यन्तु क्रमेण तु ॥२१॥वाद्यध्वनिसमायुक्तं शंखकाहलसंयुतम् ।मध्याह्ने नित्यहोमञ्च शिवमन्त्रसमन्वितं ॥२२॥मध्यमस्योत्तमे चैव त्रिकालेस्वाढकत्रयम् ।आढकश्चार्धयामेतु दीपसप्ततिसंयुतम् ॥२३॥त्रिकालं बलिरन्नं स्यात् द्विकालं होममाचरेत् ।सर्ववाद्यसमायुक्तं षट्काले च सुघोषयेत् ॥२४॥षड्विधं यत्र कुर्वीत कालसङ्ख्या न विद्यते ।उत्तमस्याधमं ज्ञेयं द्रोणेनैव त्रिसन्धिषु ॥२५॥द्रोणार्धमर्धयामे तु दीपमष्टशतं भवेत् ।त्रिकाले बलिरुक्तं स्यात् त्रिकालं होमसंयुतम् ॥२६॥वादकानाञ्चतुर्विंशत् सर्ववाद्यसमन्वितम् ।गणिकाश्च चतुस्त्रिंशत् चतुर्विंशति वार्धकम् ॥२७॥रूपयौवनयुक्ताभि स्त्रिकालं नृत्तमाचरेत् ।पञ्चाचार्यसमायुक्तं कालं यामसमन्वितम् ॥२८॥उत्तमं मध्यमे तस्मिन् चतुर्वर्णं हविस्त्रिषु ।पायसादीन्विधाने तु प्रत्येकं द्रोणतण्डुलैः ॥२९॥द्रोणे तु चोदनं कुर्यात् पाचयित्वा पृथक् पृथक् ।द्रोणान्न्यधार्धयामे तु दीपञ्चैव शतद्वयम् ॥३०॥त्रिकालं बलिहोमञ्च शीतारिधूपमुच्यते ।वाद्यकानां चतुस्त्रिंशत् पञ्चाशत् गणिकान्वितम् ॥३१॥कालं यामन्तु तस्योक्तं नृत्तं कुर्यात् त्रिसन्धिषु ।घटिकाद्वेभवेत् स्नानं घटिकैकार्चनं भवेत् ॥३२॥निवेद्यार्त्थं त्रिपादं स्याद्यात्रार्थन्तु त्रिपादकम् ।अतः परं त्रिघटिका शंखवाद्यादिशोभनैः ॥३३॥शेषकाले महाहव्यं भक्ष्यादीनां निवेदनम् ।परिवेषं विनोदञ्च गेयमुक्तादिभिश्चरेत् ॥३४॥अत्रार्धयामपूजान्ते कुर्यात् कवाटबन्धनम् ।अन्यकालेन कर्तव्यं कवाटस्य तु बन्धनम् ॥३५॥उत्तमान्मध्यमं प्रोक्तं उत्तमोत्तममध्यमे ।उत्तमोत्तममुद्दिश्य हविष्यक्रममुच्यते ॥३६॥पायसादीनिपक्वानि पञ्चद्रोणेन वै पृथक् ।तदर्द्धमर्द्धयामे तु दीपं पञ्चशतं भवेत् ॥३७॥त्रिकालं बलिहोमञ्च पञ्चाशद्वाद्यसंयुतम् ।तण्डुलात् त्रिगुणं क्षीरं कदलीफलसंयुतम् ॥३८॥मुद्गभिन्नञ्चतुर्थाशं यथा शत्यागुलान्वितम् ।पायसान्नमिदं प्रोक्तं कृसरान्नन्ततः शृणु ॥३९॥तण्डुलस्य चतुर्थांशं प्रक्षिप्यतिलचूर्णकम् ।तच्चतुर्थांश शमाज्यन्तु पाचयित्वा यथा विधि ॥४०॥कृसरान्नमिदं प्रोक्तं गुलान्नमधुनोच्यते ।तण्डुलात् द्विगुणं क्षीरं तदर्धांशंगुलं क्षिपेत् ॥४१॥गुलार्धं प्रक्षिपेदाज्यं गुलान्नमिदमुच्यते ।तण्डुलस्य चतुर्धांशं मुद्गजन्तत्र बुद्धिमान् ॥४२॥नालिकेरफलैः सूक्ष्मैर्मुद्गस्यार्धं सुनिक्षिपेत् ।महाहविरथो वक्ष्ये वसुद्रोणाधमाधमम् ॥४३॥द्विगुणं मध्यमं प्रोक्तं त्रिगुणञ्चोत्तमोत्तमम् ।चतुःपञ्चषट्गुणितं मध्यमत्रितयं तथा ॥४४॥सप्ताष्ट नवगुणितमेतदुत्तमकन्त्रयम् ।उपदंशं ततो वक्ष्ये शृणु तत्त्वङ्गजानन ॥४५॥द्वात्रिंशदंशमेव स्यात् सर्पिस्तत्र परिग्रहेत् ।षोडशांशन्तु गुल्माषं दद्ध्यष्टांशन्तु संग्रहेत् ॥४६॥कदलीपनसाम्राञ्च परिपक्वान् समर्चयेत् ।तरुणाश्चोपदं शास्युः शृणु वक्ष्योपदंशकान् ॥४७॥कदली चैव कुश्माण्डोर्वारुकञ्च पटोलिका ।कोशातकी चरूपुष्पं वेत्राग्रंलिकुचं तथा ॥४८॥प्रस्थस्य त्रिफलञ्चैव स्तुषित्वा देशिकोत्तमः ।वल्लीशूलं तथान्त्रान्तं सर्वान्य न्यासमं तथा ॥४९॥अलाबुन्नालिकेरञ्च सूरणंकारवल्लिका ।अन्ये रसयुताः शुद्धाः कन्दमूलफलास्तथा ॥५०॥कटुकाश्च तथा म्लाश्चतिक्ताश्च मधुरास्तथा ।तथा लाभो पदंशाञ्च पचेल्लवणसंयुतम् ॥५१॥प्रक्षालनं ततः कृत्वा सत्कृत्वोद्भिस्तु तण्डुलान् ।बीजमुख्येन मन्त्रेणशोधयित्वा विशेषतः ॥५२॥अर्धाधिकयुतन्तोयं तण्डुलस्य प्रमाणतः ।चुल्लिमध्ये न्यसेदग्निं स्वबीजेन तु चार्चयेत् ॥५३॥तस्योपरि तथा पात्रं काष्ठैरग्निं प्रदीपयेत् ।क्रिमिजुष्टैस्तथा काष्ठैर्विस्फुलिङ्गयुतेन च ॥५४॥गन्धपुष्पादिनाभ्यर्च्य वस्त्रेणा वेष्टयेत् ततः ।पिपीलिकाश्रितैश्चैव काष्ठैरग्निन्नदीपयेत् ॥५५॥अपक्वमतिपक्वञ्च परिम्लानञ्च वर्जयेत् ।पात्राणि च शरावाञ्च बाह्यशुद्धिं विशेषतः ॥५६॥सर्वपात्रेषु तद्भाह्ये त्रिपुण्ड्रन्तु विचक्षणः ।हुङ्कारेण तु मन्त्रेण सर्वमुत्थापयेत् क्रमात् ॥५७॥मुखं वस्त्रेण वाच्छाद्य पाचकस्तान् समुद्धरेत् ।अभ्युक्ष्यपरितोमार्गं छत्रपिञ्छसमायुतम् ॥५८॥शङ्खध्वनिसमायुक्तमालयन्तु प्रवेशयेत् ।मण्डपस्योत्तरे भागे दक्षिणे वा निधाय च ॥५९॥हविष्ये चोपदंशे च आज्ये नैवाभि हारयेत् ।सौवर्णं रजतन्ताम्रमधवा कदलीदलम् ॥६०॥शुद्धकांस्येन वा कार्यं पात्रं शतपलेन तु ।स्थलकापादरहिता त्रिपादीकार्यमस्थिता ॥६१॥पीठोत्सौधा महाभद्राः शुद्धकांस्यमयाः समाः ।दर्वीं हस्ते समादाय सप्रमाणां सलक्षणाम् ॥६२॥तदाज्ये नाभिचर्यादौ पात्रमन्नेन पूरयेत् ।हविष्यस्य चतुर्भागं निवेद्यं स्यात् शिवस्य तु ॥६३॥पूर्णचन्द्रमिवाकारं गुल्माषेन गुलेन च ।फलेनाज्येनदध्ना वा उपदंशैः समावृतम् ॥६४॥निवेदयेच्छिवायैवं हविष्यं सर्वसिद्धिदम् ।हृदयेन तु मन्त्रेण निवेद्य विधिपूर्वकम् ॥६५॥चतुर्भागैकभागेन परिवारे बलिन्ददेत् ।चतुर्भागैकभागेन होमकर्मसमाचरेत् ॥६६॥शेषांस्तु देशिकायैव दातव्यं भोजनं हितम् ।आचमनं हृदादत्वा चण्डेशाय निवेदयेत् ॥६७॥तांबूलं दापयेत् पश्चात् पत्रस्यैकफलं तथा ।फलाच्चतुर्गुणं प्रत्रं तैलमिश्रं सचूर्णकम् ॥६८॥तत्वान्यान्युपचाराणि हृदयेन तु दापयेत् ।सदाशिवस्य निर्माल्यं मनुष्याणां न भोजनम् ॥६९॥पशूनाञ्च गजादीनां वा जले वाथ निक्षिपेत् ।अथवा वह्निनादाह्य भूमौ वा खनयेत् बुधः ॥७०॥सकलानान्तु नैवेद्यं परिचारकभोजनम् ।तदप्यं यजनैश्चैव भोजने त्वथदोषकृत् ॥७१॥हविष्यलक्षणं प्रोक्तमग्निकार्य विधिं शृणु ।इति हविष्यविधि पटलोदशमः ॥१०॥ N/A References : N/A Last Updated : January 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP