संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
प्रश्नविधिपटलः ।

अथ क्रियापादः - प्रश्नविधिपटलः ।

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


कैलाशशिखरासीनं मुनिसङ्घैः समावृतम् ।
देवैर्यक्षैः सगन्धर्वैः सिद्धविद्याधरैरपि ॥१॥

ब्रह्मामृगाङ्कसूर्यैश्च लोकेशैरिहसंवृतम् ।
दृष्ट्वा प्रणम्य देवेशं विघ्नेशोवाक्यमब्रवित् ॥२॥

भगवन् देवदेवेश लोकनाथजगत्पते ।
अनन्यमानसो भूत्वा शिवज्ञानं परं वद ॥३॥

यदवाप्यनराः सर्वे मुक्तिमायान्ति केवलाम् ।
ज्ञानयोगक्रियाचर्याः पुराप्रोक्ताः सविस्तराः ॥४॥

पुंसामनुग्रहार्थाय संक्षेपाद् वकुमर्हसि ।
तन्त्राणामुद्भवं किञ्चित् मन्त्राणामुद्भवं कथम् ॥५॥

किं शौचा चमनं देव स्नानं भस्मविधिः कथम् ।
अर्चनाङ्गञ्च पूजा च मुद्राणां लक्षणं कथम् ॥६॥

नैवेद्यं चाग्निकार्यश्च अग्निकुण्डबलिः कथम् ।
उत्सवस्यविधिः कोवा स्नपनस्य विधिः कथम् ॥७॥

शीतकुम्भं कथं देव नवनैवेद्य लक्षणम् ।
कार्तिक्याङ्कृत्तिकादीपमाषाढे पूरकर्मकम् ॥८॥

फलपाक विधानञ्च आचार्यस्य च लक्षणम् ।
लक्षणं करणानाञ्च ग्रामादीनां कथं प्रभो ॥९॥

विभव निश्चयं किं वा कर्षणस्य विधिः कथम् ।
बालालयविधिः कोवा धामवास्तु विधि कथम् ॥१०॥

आद्येष्टकाविधानं किं गर्भन्यासविधिः कथम् ।
अङ्गुलीनां विधानं किं कथं प्रासादलक्षणम् ॥११॥

मूर्ध्नेऽष्टकाविधानं किं कथं वा लिङ्गलक्षणम् ।
प्रतिमालक्षणं किं वा अङ्कुरार्पणलक्षणम् ॥१२॥

लिङ्गसंस्थापनं किञ्च सकलस्थापनं कथम् ।
शक्तिनां स्थापनं किं वा परिवारस्य लक्षणम् ॥१३॥

अथाष्ट परिवाराणां स्थापनञ्च पृथक् पृथक् ।
इन्द्रादीनां प्रतिष्ठा च आदित्यस्थापनं कथम् ॥१४॥

क्षेत्रपालप्रतिष्ठा च शूलस्य स्थापनं कथम् ।
अस्त्रराजप्रतिष्ठा च शास्तुश्च स्थापनं कथम् ॥१५॥

जीर्णोद्धारविधिः किं वा प्रायश्चित्तविधिः कथम् ।
तन्त्राणां सङ्करोपेतं क्रियापादे कथं प्रभो ॥१६॥

चर्या पादे च शैवानामुद्भवञ्च कथं प्रभो ।
जातिभेदविधानं किं मण्डलस्य कथं प्रभो ॥१७॥

दीक्षामार्गं कथन्तेषां चर्यापादे व्यवस्थितम् ।
आदिशैवानुशैवानां कथं वा शोडश क्रियाः ॥१८॥

व्रताचाराः कथन्तेषां पवित्रारोहणं कथम् ।
दीक्षितानां नृपाणाञ्च स्वर्णगर्भ तुलाकथम् ॥१९॥

हिरण्यगर्भ तुलाभारं दहनस्य विधिः कथम् ।
पितृयज्ञविधानं किं स पिण्डीकरणञ्च किम् ॥२०॥

अष्टकायाविधानञ्च प्रायश्चित्तविधिः कथम् ।
नाडीचक्रं कथं योगे कालचक्रं तु कीदृशम् ॥२१॥

आधाराधेयकं सर्वं योगपादे तु कीर्तितम् ।
ज्ञानपादे महादेव शिवसृष्टिक्रमं कथम् ॥२२॥

पशुसृष्टिश्चका देव षडध्वालक्षणं कथम् ।
मया तु तानिप्रश्नानि प्रश्नान्यन्यान्यशेषतः ॥२३॥

वक्तुमर्हसि मे देव अनुग्रह्योह्यहं प्रभो ।

श्रीभगवानुवाच

साधु साधु महाप्राज्ञ यत् त्वयापरिचोदितम् ॥२४॥

शुद्धशैवमिदं तन्त्रं न देयं न प्रकाशितम् ।
दीक्षितस्य सुधीरस्य शिवभक्तिपरस्य च ॥२५॥

श्रवणीयं न चान्यत्र कथनं हि प्रशस्यते ।
चतुष्पादयुतं तन्त्रं भुक्तिमुक्त्यर्थकारणम् ॥२६॥

सारात् सारमिदं तन्त्रं सुप्रभेदं विनायक ।
तवस्ते? हादहं वक्ष्ये तत्सर्वं श्रूयतां क्रमात् ॥२७॥

शैवं पाशुपतं सोमं लाकुलञ्च चतुर्विधम् ।
तेषु शैवं परं सौम्यं रौद्रं पाशुपतादिकम् ॥२८॥

शैवं पुनश्चतुर्भेदं वामदक्षिणमेव च ।
मिश्रञ्चैव तु सिद्धान्तं तेषु सिद्धान्तमुत्तमम् ॥२९॥

अष्टाविंशति भेदेन सिद्धान्तं शृणु तत्वतम् ।

इति प्रश्नविधिपटलः प्रथमः ॥१॥

N/A

References : N/A
Last Updated : January 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP