संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| करणाधिकारलक्षण पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - करणाधिकारलक्षण पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः करणाधिकारलक्षण पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि करणानां तु लक्षणम् ।यागोपकरणं यस्मात् तस्मात् तत् करणं विदुः ॥१॥दर्भाणां लक्षणञ्चैव पवित्राणां विशेषतः ।कूर्चानां दर्भमालाया विष्टराणाञ्च लक्षणम् ॥२॥आज्यस्थाल्याश्चरुस्थाल्याः कलशानान्तु लक्षणम् ।हविः पात्रपिधानञ्च जलद्रोण्याश्च लक्षणम् ॥३॥धूपघण्टाविकल्पञ्च स्थालिकायाश्च लक्षणम् ।प्रमाणं दीपदण्डानां यंत्रिकायाश्च लक्षणम् ॥४॥बलिपात्र त्रिपादीनां दर्वीणां लक्षणं तथा ।वितान ध्वजवस्त्राणां पृच्छं न पटलक्षणम् ॥५॥तथोष्णीषोत्तरीयाणां खट्गायाश्च सनस्य च ।रथस्य लक्षणञ्चैव शिबिकापर्यङ्कयोस्तथा ॥६॥सिंहासनोपयानानां स्तंभाच्छादनरङ्गयोः ।पादुकादर्शनानान्तु व्यजनञ्चामरस्य च ॥७॥सितात पत्र पत्राणां पिञ्छानाञ्चैव लक्षणम् ।मङ्गलानामधात्राणां तोरणद्वयलक्षणम् ॥८॥सुवर्णपट्टपुष्पाणां गोलकायाश्च लक्षणम् ।मकुटानाङ्कुण्डलानां हारकेयूरयोश्च वै ॥९॥कटकङ्कटिसूत्राणां नूपुरस्य च लक्षणम् ।जठरोपरिबन्धानां स्त्रीणां भूषणलक्षणम् ॥१०॥क्षुराणां कर्तरीणान्तु मार्जनस्य प्रमाणकम् ।एतेषां लक्षणं वक्ष्ये ह्यानुपूर्वात् गजानन ॥११॥अशुष्कञ्छिन्नभिन्ना ग्राह्यदर्भा खण्डितास्तथा ।कोमला श्यामला स्निग्धा जीर्णाः शुभ्राः शुभावहाः ॥१२॥मृदुश्यामाश्च स्त्रीलिङ्गाः पुल्लिङ्गाः कोमला स्थिराः ।अकोमला स्थिराश्चैव अनुग्राह्या नपुंसकाः ॥१३॥दर्भाणां लक्षणं प्रोक्तं पवित्राणां ततः शृणु ।कुशादर्भाश्च गोवालाः पवित्रङ्कनकास्तथा ॥१४॥सप्तपञ्च त्रियुक्तो वा ह्यग्रन्तु द्व्यङ्गुलं भवेत् ।द्व्यङ्गुलं तस्य नालन्तु ग्रन्धिरेकाङ्गुलं भवेत् ॥१५॥दक्षिणावर्तग्रधितं पवित्रमिहशोभनम् ।अनाम्यङ्गुलविस्तारं ताराष्टैकाम्शहीनकम् ॥१६॥तप्तचामीकरेणैव पवित्रं कनकाख्यकम् ।दशपञ्चाधिकैर्दर्भैर्दशैकादशकैस्तु वा ॥१७॥दशभिर्न बभिर्वापि सप्तभिः पञ्चभिस्तु वा ।दर्भसङ्ख्याङ्गुलायामादर्भाणां नवकोर्ध्वके ॥१८॥नवाङ्गुलन्तु तद्दैर्घ्यं दर्भाणां सप्तपञ्चके ।दक्षिणावर्त ग्रथितं ग्रन्धिरेकाङ्गुलं भवेत् ॥१९॥कूर्चाग्रञ्चतुरङ्गुल्यं कूर्चमेवं विधीयते ।दशपञ्चाधिकं यत् तु शिवकुम्भस्य विन्यसेत् ॥२०॥द्वादशैश्चैव विन्यस्य शेषैः शेषेषु विन्यसेत् ।ऊर्ध्वग्रन्ध्या ह्यतोग्रन्तु पूर्वाग्रन्तु यथा न्यसेत् ॥२१॥कूर्चानां लक्षणं प्रोक्तं दर्भमालां ततः शृणु ।द्विवृतादक्षिणावर्ता द्वित्रिकैः पञ्चभिस्तु वा ॥२२॥दर्भान्तरं वै द्व्यङ्गुल्यं हस्तमानेन लंबयेत् ।कनिष्ठाङ्गुलिनाहेन रज्जुङ्कुर्यान् मनोरमम् ॥२३॥लम्बमानास्तु दर्भाणां शस्तास्ता इति संस्मृताः ।जपहोमार्चनं तस्य मध्ये वीध्यत्वमागताः ॥२४॥प्रासादयज्ञशालायां परिवेष्ट्य च यत्नतः ।विष्टरं पञ्चदर्भैस्तु ग्रन्थिरेकाङ्गुलं भवेत् ॥२५॥मुलाग्रौ च दशाङ्गुल्यौ विष्टरं तु विधीयते ।सप्तविंशति दर्भैर्वा ह्येकविंशतिरेव वा ॥२६॥दशपञ्चभिरेवाथ कूर्चं कुर्वीत बुद्धिमान् ।ग्रन्थिस्त द्व्यङ्गुलं प्रोक्तं अग्रं तु द्विगुणं भवेत् ॥२७॥नालमेकोनविंशत् तु दर्भेण व्रतबन्धनम् ।एषा वै प्रोक्षणी प्रोक्ता परिस्तरणकं शृणु ॥२८॥एकविंशति दर्भाभिः कला ग्रन्थिस्तु बन्धयेत् ।मेखला मध्यमायाममूलाग्रोदयमिष्यते ॥२९॥परिस्तरणकं प्रोक्तं ततः परिधयः शृणु ।यैर्मानैः समिथं प्रोक्तं तैरेवपरिधिर्भवेत् ॥३०॥आयामं हस्तमानेन कनिष्ठाङ्गुलिनाहकम् ।तिस्रः परिधयः प्रोक्ताः पश्चिमे दक्षिणोत्तरे ॥३१॥परिधेर्लक्षणं प्रोक्तं समिधालक्षणं शृणु ।न स्फोटिकान सुषिरा ऋजवोग्रन्थि वर्जिताः ॥३२॥द्वादशाङ्गुलिकायामा कनिष्ठाङ्गुलिनाहकाः ।समिधालक्षणं प्रोक्तं मेक्षणं तत् प्रमाणतः ॥३३॥ततः सृक्लक्षणं वक्ष्ये शृणु मुग्धविनायक ।खदिरश्च शमीविल्वपलाशाः प्लक्षचन्दनौ ॥३४॥तथा च यज्ञ वृक्षेषु यथा सम्भवतः कुरु ।त्रिंशदङ्गुलमायाममष्टाङ्गुल सुविस्तृतः ॥३५॥तदर्धन्तु घनं प्रोक्तं सूत्रेण समितं ततः ।षडङ्गुलं भवेदाभ्यं सप्ताङ्गुलन्तु विस्तृतम् ॥३६॥तदग्रन्तु त्रिधा कृत्वा तस्मात् कुर्यात् त्रिकोणवत् ।गजोष्ठ सदृशाकारन्निम्नं स्याद्यवमानकम् ॥३७॥तद्बहिः पट्टकाङ्कुर्याद्यवाद्यवसुविस्तृतम् ।अष्टाङ्गुलसुविस्तारा वेदिकाष्टाङ्गुलायता ॥३९॥तन्मध्ये कारयेत् गर्तन्तच्चक्र्यङ्गुलविस्तृतम् ।खातं स्यात् तत् प्रमाणेन तद्बहिर्यवमानका ॥४०॥पट्टिका तु प्रकर्तव्या तद्बहिर्यवनिम्नगा ।बिलबाह्ये तु परितः पट्टिकार्द्धाङ्गुलेन तु ॥४१॥श्वभ्रस्य परितः कार्यं पद्ममष्टदलंशुभम् ।श्वभ्रारभ्यमुखान्तं यत् कनिष्ठाङ्गुलमानतः ॥४२॥खातं स्यात् कृत धारार्थं निम्नोन्नतविवर्जितम् ।दण्डोर्ध्वे वेदिकाधस्तात् त्र्यङ्गुलेन त्रिखण्डिका ॥४३॥अर्धाङ्गुलविवृध्या तु वृत्ता वा चतुरश्रका ।दण्डं नवाङ्गुलायामन्तस्य नाभं षडङ्गुलम् ॥४४॥दण्डाधोमुकलङ्कार्यं तदायामन्तु द्व्यङ्गुलम् ।नाभमष्टाङ्गुलं प्रोक्तं मानमेवं विधीयते ॥४५॥वेदिका परभागब्जे पृष्ठाकारन्तुलाञ्चयेत् ।तन्मध्ये कर्णिकाकारं पादतारञ्च त्र्यङ्गुलम् ॥४६॥अङ्गुलन्तु तदुत्सेधं स्रवमेवं प्रकल्पयेत् ।अरत्निमात्रमायामं तदग्रे बिलसंयुतम् ॥४७॥मूलं षडङ्गुलन्नाहं तदर्धं कण्ठनाहकम् ।पुष्करं मूलनाहन्तु द्विपुटं नासिकासमम् ॥४८॥माषमग्नन्तु निम्नं स्यात् बिलद्वयसमन्वितम् ।गोपुच्छसदृशं दण्डं प्रोक्तं तत् स्रवलक्षणम् ॥४९॥सौवर्णं रजतन्ताम्रं मृन्मयं वाथकारयेत् ।अष्टाङ्गुल सुविस्तीर्णन्निम्नं प्रस्थेन पूरितम् ॥५०॥घनमानाङ्गुलं प्रोक्तं द्रव्यपात्रं विधीयते ।होमकाले तु द्रव्याणां प्रमाणं लक्ष्यते धुना ॥५१॥घृतेषु गव्यं तच्छेषु स्रवं पूर्णप्रमाणतः ।सक्तुमुष्टिमिदं वासमधु वै घृतवत् भवेत् ॥५२॥करपूर्णन्तु लाजस्य चाक्षमात्रङ्गुलस्य तु ।समिदौषधकं दानां फलानां स्वप्रमाणतः ॥५३॥अन्नमक्षप्रमाणं स्यात् पूर्णाहुत्यास्तु सृङ्मति ।तिलसर्षपयोश्चैव शुक्तिमात्रं विधीयते ॥५४॥दध्नाक्षीरस्यमानन्तु घृतवत् परिकीर्तितम् ।यववेणु कुलुत्थानां शुक्तिमात्रेण होमयेत् ॥५५॥अपूपस्य चतुर्निष्कन्धान्यानां मुष्टिमात्रकम् ।एवं प्रमाणं द्रव्याणामाज्यस्थालीन्ततः शृणु ॥५६॥आज्यस्थाल्या प्रणीतायाः प्रमाणं द्रव्यपात्रवत् ।आस्यं षडङ्गुलन्तार मोष्ठमेकाकाङ्गुलं भवेत् ॥५७॥कर्णमेकाङ्गुलं प्रोक्तं जठरं द्वादशाङ्गुलम् ।विस्तारेण समाख्यातं शेषं बुद्ध्या प्रकल्पयेत् ॥५८॥चरुस्थालिन्तथैवापि कलशानां विधिं शृणु ।द्वादशाङ्गुलविस्तारमुदरं समुदाहृतम् ॥५९॥वर्तितं त्रिगुणन्तेन नाहन्तस्य विधीयते ।कर्णं द्वियङ्गुलोत् सेधं विस्तारञ्चतुरङ्गुलम् ॥६०॥ओष्ठन्तु द्व्यङ्गुलोत्सेधं द्व्यङ्गुलन्निर्गमं स्मृतम् ।एवमेव हि वृद्ध्या तु कर्तव्यौ मध्यमाधमौ ॥६१॥अनुसारं यथा बुध्या कल्पयेत् कल्पवित्तमः ।आच्छादनं शरावाणां मुखमानेन विस्तरम् ॥६२॥त्र्यङ्गुलन्तु तदुत्सेधं मध्ये निम्नं द्वयाङ्गुलम् ।एवं प्रमाणमुद्दिष्टं शृणुष्व घटलक्षणम् ॥६३॥यद्वद्वैकलशाकरं तद्वदेव * * स्मृतम् ।चतुर्गुणविवृध्या तु घटमेवं विधीयते ॥६४॥चरुस्थाली यथा रूपं हविः पात्रन्तथैव च ।यावत् तण्डुलसंपत्तिस्तावत् ब्रह्मणमुच्यते ॥६५॥आस्यतुल्यं पिधानन्तु मध्ये तु वलयं तथा ।मिश्रतम्रेण ताम्रेण हविः पात्रं प्रकीर्तितम् ॥६६॥सौवर्णं रजतं वापि ताम्रजाम्रन्मया तु वा ।जलद्रोणी प्रकर्तव्या वृत्ता वा चतुरश्रका ॥६७॥दशद्रोणैरथाद्भिस्तु पूर्णितं ग्रीववर्जितम् ।अष्टद्रोणेन पूर्णं वा षट्भिर्वाद्रोणपञ्चकैः ॥६८॥चतुर्भिर्वा त्रिभिः कार्यं वर्धनीञ्च ततः शृणु ।तस्यास्यञ्चतुरङ्गुल्यमोष्ठद्वयसमायुतम् ॥६९॥तत् पार्श्वं सुषिरान्तस्थं नालीस्याच्चतुरङ्गुलम् ।बृहोदरं तनुग्रीवं समयुक्तिमथाचरेत् ॥७०॥कमण्डलुश्च तद्वत् स्यान्मुखमध्योर्ध्वनालके ।ओष्ठञ्च सुषिरं कृत्वा प्रष्ठे पादं प्रलंबितम् ॥७१॥अङ्गुलन्तु च तन्मानं सुषिरं पार्श्वतस्तथा ।ऊर्ध्वे पिप्पलमानं स्यादक्षिरं मुखनालकम् ॥७२॥एवं कमण्डुलुङ्कुर्यात् सर्वलक्षणसंयुतम् ।कलुषं कृमिशैवालमशुचिस्थानसंश्रितम् ॥७३॥गन्धवर्णरसैर्जुष्ठं सूर्यरश्मिविवर्जितम् ।पङ्काश्मदूषितञ्चैव क्षारोदं पल्वलोदकम् ॥७४॥अग्राह्यमुदकङ्ग्राह्य मेभिर्दोषैर्विवर्जितम् ।अष्टद्रोणैरथाद्भिस्तु स्नानं कन्यसमुच्यते ॥७५॥अभिषेकमथाद्भिस्तु द्विगुणैर्मध्यमं स्मृतम् ।उत्तमं त्रिगुणैरद्भिः पुष्पपात्रमथ शृणु ॥७६॥विंशत्यङ्गुलविस्तारं त्रिगुणन्नाहमुच्यते ।तदन्तर्नाहमेवन्तु पुष्पपात्रं विधीयते ॥७७॥तदर्धमर्घ्यपात्रन्तु तन्नालेन विहीनकम् ।शरा वा कृतिरग्रे तु द्विपात्रं तदविस्थितम् ॥७८॥शराव पृष्ठनालन्तु अष्टाङ्गुलसुदैर्घ्यकम् ।तिर्यक् कृत्वा यथा भोगं तदन्ते चैकपायुवत् ॥७९॥पिधानं मुकुलाकारमनेकसुषिरैर्युतम् ।धूपपात्रं समाख्यातमुरुघण्टामथ शृणु ॥८०॥द्वादशाङ्गुलमुत्सेधं त्रिगुणन्नालमेव च ।जिह्वा च द्वादशाङ्गुल्यं तदर्धं शिखरं भवेत् ॥८१॥तन्मध्ये वै तु सुषिरं वलयेन समन्वितम् ।तद्घनं त्रिगुणेनैव तदास्योष्ठघनं स्मृतम् ॥८२॥कण्ठन्तु त्र्यङ्गुलोत्सेधमधमस्य तु लक्षणम् ।द्विगुणं त्रिगुणं प्रोक्तं धूपघण्टामथ शृणु ॥८३॥घण्टां कुर्वीत कांस्येन चतुरङ्गुलमुच्यते ।विस्तारन्तत् प्रमाणन्तु शिखरन्तु तदर्धकम् ॥८४॥अष्टाङ्गुलेन घण्टा स्यात् जिह्वा च चतुरङ्गुला ।तत् घनं त्रिगुणे नैव तदास्योष्ठ घनं भवेत् ॥८५॥अधमन्त्वेतदुद्दिष्टं पञ्चाङ्गुलन्तु मध्यमम् ।ज्येष्ठं षडङ्गुलं प्रोक्तमन्यत्सर्वं समंविदुः ॥८६॥तत् समन्नालमूर्ध्वन्तु शूलन्तच्छिरविन्यसेत् ।पात्रं वा शंखचक्रं वा वृषं वा मूर्ध्नि विन्यसेत् ॥८७॥धूपकाले प्रयोक्तव्यं घण्टानादसमन्वितम् ।घण्टायास्तु ध्वनिं श्रुत्वा सर्वपापैः प्रमुच्यते ॥८८॥स्थलिकापाद रहितं रक्तिमात्रं सुविस्तृतम् ।सौवर्णं रजतन्ताम्रं कांस्ये नैवाथ कारयेत् ॥८९॥ओष्ठमेकाङ्गुलोन्नत्या तद्घनं द्विगुणेन तु ।अर्धाधिकञ्च द्विगुणं प्रोक्तं वै मध्यमोत्तमे ॥९०॥स्थलिकालक्षणं प्रोक्तं दीपदण्डं ततः शृणु ।एकहस्तं समारभ्य नवहस्तान्तमेव च ॥९१॥उत्सेधादष्टभागैक दण्डनाहं प्रकीर्तितम् ।तदुच्चैः पञ्चभागे तु द्विभागं पादविस्तरम् ॥९२॥पदान्ताद्धस्तमानेन तद्वदूर्ध्वे तु विस्तरम् ।नानागणिकया युक्तं नानाकुंभैः समन्वितम् ॥९३॥तदूर्ध्वे मुकुलाकारं नालं ग्रन्धिसमायुतम् ।दीपदण्डं तव प्रोक्तं दीपमालां ततः शृणु ॥९४॥ताम्रेण वायसेनाथ दारुभिर्वाथ कारयेत् ।द्वारे तु द्वारवत् कृत्वा प्रभाकारन्तु पृष्ठके ॥९५॥शूलवच्छूल देवांश्च चक्रञ्च चक्रदीपवत् ।धुर्तूरपुष्पवन् मूर्ध्नि एकधारक दीपिका ॥९६॥दीपदेहा इमे प्रोक्ता यंत्रिकांश्च ततः शृणु ।आयसेन प्रकर्तव्यं नालं वै मध्यमाङ्गुलम् ॥९७॥कवाटार्गल संबन्धं यथा युक्तं भवेदिह ।द्विवक्त्रञ्च ततः कृत्वा पूर्वपश्चिमसंयुतम् ॥९८॥मूले वलयसंयुक्तं सुस्निग्धञ्च भवेदिह ।यंत्रिका च तथा प्रोक्ता बलिपात्रमतः शृणु ॥९९॥आयसेन प्रहैमेन अथवा ताम्रकेण वा ।चतुस्त्रिद्वयतालं वा विस्तारं समुदाहृतम् ॥१००॥दलाष्टकसमायुक्तं कर्णिकामध्यमे न्यसेत् ।भक्तिद्वयङ्गुलोत्सेधं त्रिभागैकेन कर्णिकाः ॥१०१॥चतुर्विधा त्रिपादी स्याच्छंख पादीत्रिपादिका ।यवनी पादमेवं स्यात् स्थलिका पादमेव च ॥१०२॥षडङ्गुलन्तदुत्सेधं तदर्धं मुखविस्तरम् ।कनिष्ठाङ्गुल नाहन्तु शङ्खपादं प्रकीर्तितः ॥१०३॥द्विगुणञ्च त्रिपादी च पादं वक्त्रेणसंयुतम् ।शरावा कृतिमूले तु शेषं बूध्याप्रकल्पयेत् ॥१०४॥त्रिपाद त्रिगुणं वत्सयवन्याः पादमुच्यते ।पीठोत्सेधसमं विद्यात् स्थलिका पादमेव च ॥१०५॥त्रिपादलक्षणं प्रोक्तं दर्व्यालक्षणकं शृणु ।रत्निमात्रं तदायामं भुजङ्गस्य फणोपमम् ॥१०६॥अष्टाङ्गुलसुविस्तीर्णं तदर्धं पादमेव च ।तदर्धं मध्यमस्योक्तमुक्तं दर्व्यास्तु लक्षणम् ॥१०७॥पञ्चहस्त प्रमाणेन विस्तारायामतः समम् ।वस्त्रयुग्मसमायुक्तं सुश्लक्ष्णं सुदृढं सितम् ॥१०८॥नानावर्ण विचित्राङ्गं तथा सर्वन्तु कारयेत् ।एवं वितानमुक्तन्तु ध्वजलक्षणमुच्यते ॥१०९॥क्षौमपट्टदुकूलैर्वा कार्पास सममेव वा ।हस्तमात्र सुविस्तारमायामं द्विगुणं भवेत् ॥११०॥चतुस्त्रिद्वयपुच्छं वा ध्वजार्धशिरपुच्छकम् ।पताकायाः प्रमाणन्तु प्रागुक्तद्विगुणायतम् ॥१११॥अन्यत् समानमत्रैव जललक्षणमुच्यते ।पट्टदेवाङ्गनेत्रैर्वा कार्पासैः शुक्लवाससा ॥११२॥पीठोत्सेधस्य चार्धार्धं वस्त्रविस्तारमुच्यते ।विस्ताराष्टगुणायामं सदशन्तु सलक्षणम् ॥११३॥आखुदष्टाग्नि दग्धञ्च जीर्णञ्चापि विसर्जयेत् ।वस्त्रमेवं समाख्यातं पृच्छन्न पटमुच्यते ॥११४॥द्वारादध्यर्ध विस्तारमायामं द्विगुणं भवेत् ।पापक्रूर परिभ्रष्टैर्नास्तिकैः श्रुतिदूरकैः ॥११५॥गोरसक्रयकैश्चैव पतितैश्च द्विजन्मभिः ।वेदविक्रयकैश्चापि शास्त्रविक्रयकैरपि ॥११६॥अदृष्टार्थं प्रकर्तव्यं दृष्टे पूजा तु निष्फला ।विसर्जने तु निर्माल्ये पुष्पालङ्कारकर्मणि ॥११७॥निवेद्यकाले सन्दिग्धे पृच्छन्न पटमुच्यते ।उष्णीषञ्चोत्तरीयञ्च श्वेतसूक्ष्म सुवाससा ॥११८॥उष्णीषञ्चोत्तरीयञ्च नवहस्तप्रमाणतः ।खट्गपादसमुत्सेध रत्निद्वयसमायुतम् ॥११९॥अथवा हस्तमात्रं स्यात् पादद्विगुणविस्तरम् ।विस्तारद्विगुणायामं कक्ष्याभिर्बन्धयेत् ततः ॥१२०॥खट्गायालक्षणं प्रोक्तमासनं शृणु सुव्रत ।चतुःसिह्मसमायुक्तं हस्तमात्रोच्छ्रयं भवेत् ॥१२१॥द्विरत्निविस्तृतं कार्यं वृत्तं च चतुरश्रकम् ।आच्छाद्यतरुभिच्छोर्ध्वन्निघृणं सुदृढं क्रमात् ॥१२२॥हंसा कारेण वा पादं भूतपादमथापि वा ।गजाकारं वृषाकारं पादङ्कुर्याद् विशेषतः ॥१२३॥कपोतनासिका युक्तं नानारत्नैर्विभूषितम् ।हाटकं रजतं वापि यथा दारुमयन्तु वा ॥१२४॥आसनं त्विदमाख्यातं ततः पद्मासनं शृणु ।ऊर्ध्वाधोदलसंयुक्तं वृत्तमब्जासनं स्मृतम् ॥१२५॥खट्गाकारैर्युतं पीठं समं वा चतुरायतम् ।फलकापादहिनञ्च ततो रथमिहोच्यते ॥१२६॥चतुश्चक्रसमायुक्तञ्चक्र पोततरुद्वयम् ।तदूर्ध्वे वेदिकायुक्तमुत्तरन्तु निवेशयेत् ॥१२७॥तदूर्ध्वे पद्मपट्टञ्च क्षूद्रपट्टं ततो न्यसेत् ।कापोत नासिकायुक्तं फलकोपरि विन्यसेत् ॥१२८॥द्वादशक्षुद्र पादाः स्युरष्टौ वा षोडशापि वा ।विंशतिर्वा समाख्याता नासिकास्तद्वदेव हि ॥१२९॥प्रत्यग्रे मुकुलं कार्यं तस्य नालं त्रिवक्रकम् ।वृषभौ पार्श्वयोर्न्यस्त्वा तयोर्मध्ये पितामहः ॥१३०॥यष्टिरज्जु समायुक्तस्त्वग्रभागे प्रतिष्ठितः ।प्रासादवत्तदुपरि मण्टपन्तोरणं हि वा ॥१३१॥रथं समासतः प्रोक्तं रङ्गञ्चैव ततः शृणु ।रथाधिष्ठानवत् कृत्वा ब्रह्माणं मुकुलन् त्यजेत् ॥१३२॥रङ्गमण्टपवत् कृत्वा ह्यधप्रासादवत् कृतम् ।दारुणा द्वितलङ्कृत्वा तदूर्ध्वे तु रगंमयः ॥१३३॥चतुर्वापि गजोमध्ये वृषसिंहद्रुमोथवा ।तलोर्ध्वेयं त्रिडोलांश्च अन्यदुक्तन्तु कारयेत् ॥१३४॥एवं तु रङ्गमाख्यातं शिबिकाञ्च तत शृणु ।शिबिका चैव मौण्डी च शेखरी च त्रिधा भवेत् ॥१३५॥उत्तमं सप्ततालन्तु पञ्चतालन्तु मध्यमम् ।अधमन्तु चतुस्तालं विस्तारं त्रिविधं स्मृतम् ॥१३६॥विस्तार द्विगुणायामं पादो न द्विगुणं तु वा ।दन्तैर्वा दारुसारैर्वा काञ्चनाद्यैरलङ्कृतम् ॥१३७॥पद्मपट्टिकया युक्तं फलकादि दृढान्तरम् ।पद्मपत्रं षडङ्गुल्यं फलकाङ्गुलि हीनकम् ॥१३८॥षोडशाङ्गुलमुत्सेधं भित्तेरुच्छ्रयमुत्तमम् ।एकैकाङ्गुलिहीनास्युर्मध्यमस्याधमस्य तु ॥१३९॥पट्टिका विस्तरं शस्तमथाष्टाङ्गुलमुत्तमम् ।अङ्गुलाङ्गुलिहीनन्तु मध्यकन्य सयोस्तथा ॥१४०॥मध्ये पट्टिकया युक्तं फलकाञ्जालकान्वितम् ।भित्तिपादाश्रितं कीलमायसेन तु कारयेत् ॥१४१॥नानारूपसमायुक्तं नानानटसमायुतम् ।मध्यपट्टसमं प्रोक्तमग्रभित्तेः समुन्नतम् ॥१४२॥भित्यग्रे सिम्हकौतिर्यक् मकरेतच्छिरोपरि ।पालिका सदृशाः पादाः सप्तवाष्टाङ्गुलोन्नताः ॥१४३॥एवं वै शिबिकाप्रोक्ता मौण्डी शेखरयोः शृणु ।विस्तारस्य समं प्रोक्तं भित्ते रुच्छ्रयमेव तु ॥१४४॥शलाकृति यथा रूपं मौण्ड्याकारं विधीयते ।शेखरे शिखरैर्युक्तं कापोतैः पादसंयुतम् ॥१४५॥एवन्तु शिबिका प्रोक्ता ह्यण्डजादीं ततः शृणु ।अण्डजं मुण्डजञ्चैव रोमजञ्चर्मजं तथा ॥१४६॥वामजं शयनं पञ्च कल्पास्त्वेते विशेषतः ।अण्डजञ्चात्र बोधव्यं पक्षिपिञ्छसमुद्भवम् ॥१४७॥कार्पासेन कृतं यत्तु मुण्डजं च प्रकीर्तितम् ।आविकादि मृगाणान्तु रोमजं रोमजं स्मृतम् ॥१४८॥चर्मजं व्याघ्र सिंहयोः कौशेयं वामजं स्मृतम् ।पट्टं वापि प्रकर्तव्यं स देशेनसमन्वितम् ॥१४९॥अण्डजं श्वेतरूपं स्यान्मुण्डजं पीतवर्णकम् ।रोमजं कृष्णवर्णन्तु रक्तवर्णन्तु चर्मजम् ॥१५०॥वामजं सितवर्णन्तु शुक्लरूपन्तु पट्टकम् ।यथार्हकं तथा कृत्वा ह्युपधानं तथा भवेत् ॥१५१॥नवद्वादशकैर्वापि दशपञ्चाधिकैस्तु वा ।नानावर्णैः सवर्णैश्च नानारूपसमायुतैः ॥१५२॥एतैर्वस्त्रैस्तु संप्रोक्तं तरङ्गमिहशोभनम् ।स्तम्भायाम समायुक्तं स्तंभवेष्ट न मुच्यते ॥१५३॥शुद्धकांस्येन कर्तव्यं विस्तारं रत्निमात्रकम् ।षोडशाङ्गुलविस्तारमथवा द्वादशाङ्गुलम् ॥१५४॥तारार्धं वा तु तुङ्गं स्यात् कुर्याद् देवस्य दर्पणम् ।तत्र तु द्वादशाङ्गुल्यं पादुकं स्वप्रमाणतः ॥१५५॥आयामार्धन्तु विस्तारं विस्तारार्धं समुच्छृतम् ।लोहे नैव तु कर्तव्यं पादुकाद्वयमुत्तमम् ॥१५६॥चामरव्यजनादीनां लक्षणं वक्ष्यते धुना ।मायूरव्यजनं कुर्याच्चमर्या चामरं तथा ॥१५७॥हेमरत्नमयं दण्डं रौप्यन्ताम्रमयं तु वा ।दन्तैर्वा दारुसारैर्वा दण्डं कुर्याद् विशेषतः ॥१५८॥श्वेतच्छत्रस्य पिञ्छस्य वक्ष्येहं लक्षणं शृणु ।सप्त षट्तालतारं वा ह्यधवा पञ्चतालकम् ॥१५९॥वस्त्रैरावेष्ट्य सर्वत्र मौक्तिकैश्च विभूषयेत् ।मयूरपिञ्छकैः पिञ्छमथोद्युगन्तु कल्पयेत् ॥१६०॥सौवर्णं रजतं वापि ताम्रं वा मकुटं भवेत् ।नवाष्ट सप्तषड्डस्तैः पञ्चहस्तैश्चतुष्ककैः ॥१६१॥त्रिहस्तैर्वा यथा लाभन्तेषां दण्डस्य दैर्घ्यकम् ।तालञ्छत्रन्तु कर्तव्यं तत् प्रमाणन्तु बुद्धिमान् ॥१६२॥छत्रं पिञ्छं तथा प्रोक्तमष्टमङ्गलमुच्यते ।दर्पणं पूर्णकुंभञ्च वृषभं युग्मचामरम् ॥१६३॥श्रिवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ।स्त्रीणां शिरोपरिन्यस्त्वा मङ्गलानि विशेषतः ॥१६४॥रत्निमात्रं समुत्सेधं मन्वङ्गुल सुविस्तृतम् ।दर्पणादिनी रूपाणि कृत्वा वै शिरसि न्यसेत् ॥१६५॥सर्वधा शुक्लवर्णाः स्युः सर्वाभरणसंयुतान् ।यन्मानं दिव्यनारीणां तन्माने नैव कारयेत् ॥१६६॥हृदयें जलिसंयुक्ताः पद्मपीठोपरि स्थिताः ।लोकैर्वा दारुभिर्वापि कारयेद् देशिकोत्तमः ॥१६७॥स्वनाम्नैव च संपूज्य सर्वमङ्गलकर्मसु ।अथवाष्टाङ्गुलन्तारमायामं षोडशाङ्गुलम् ॥१६८॥अधस्तात् पद्मपीठन्तु तच्चतुर्थां शमानतः ।पद्मोर्ध्वे दर्पणादीनि कारयेद् अथ लेखयेत् ॥१६९॥देवाष्टमङ्गलं प्रोक्तमस्त्राणां लक्षणं शृणु ।शूलं परशु वज्रञ्च खट्गंपाशं तथाङ्कुशम् ॥१७०॥घण्टानागञ्च वह्निञ्च क्षुरिका च दशायुधम् ।एकतालप्रमाणन्तु भूतानामुपरि स्थितम् ॥१७१॥विंशत्यङ्गुलमायामं भूतानान्तु प्रकीर्तितम् ।भूतवत् भूतमानेन कारयेत् सर्वमानकैः ॥१७२॥यद्वर्णमायुधस्योक्तं तद्वर्णं नामतद्भवेत् ।भागेन कारयेच्छूलं गण्डिकाभागमेव च ॥१७३॥शूलस्य लक्षणं प्रोक्तं परशोर्ल्लक्षणं शृणु ।गण्डिकाशूलपादाभ्यां कालमानेन वै बुधः ॥१७४॥भागन्नालं तथा ग्रन्धि चतुरास्य समायुतम् ।एवं वै परशु प्रोक्तं वज्रलक्षणमुच्यते ॥१७५॥तालमात्रं तथा यामं विस्तारोऽष्टाङ्गुलं मतम् ।तन्मध्ये गण्डिकां कुर्यात् चतुरङ्गुलमानतः ॥१७६॥शेषैरष्टाङ्गुलैरेव अधश्चोर्ध्वं त्रिशूलवत् ।पार्श्व पत्रद्वयञ्चक्रं मध्यमत्र ऋजुस्थितम् ॥१७७॥एवं वज्रं समाख्यातं खट्गलक्षणमुच्यते ।एकाङ्गुलन्तु विस्तारमधस्तात् कञ्चुकं भवेत् ॥१७८॥चतुरङ्गुलविस्तारा फलका चतुरश्रका ।त्रियङ्गुलं भवेत् कर्णं तस्य नाहं द्वयाङ्गुलम् ॥१७९॥कर्णोर्ध्वे पालिकां कुर्यात् फलकोक्तार्धमानतः ।तदूर्ध्वोङ्गुलविस्तारमर्धाङ्गुलमथायतम् ॥१८०॥ऋजुङ्कृत्वा कृतिर्वक्त्रमेवं खड्गस्यलक्षणम् ।फणद्वयसमायुक्तः पाशः प्रोक्तोभुजङ्गमः ॥१८१॥पूर्वोक्तविधिना कार्या घण्टा लक्षणसंयुताः ।नागं हीनाङ्गवत् कृत्वा फणयुक्तं सजिह्वकम् ॥१८२॥अग्निज्वालासमायुक्तो नालमर्धमिदं भवेत् ।क्षुरिकान्तालमात्रोच्चान्तस्य मूलन्तु खट्गवत् ॥१८३॥ऋजुतीष्णास्य संयुक्तां सूक्ष्माग्रेण समायुताम् ।एवं दशायुधं प्रोक्तं सदाशिवकरेधृतम् ॥१८४॥सर्वमङ्गलकार्येषु उत्सवे यागकर्मणि ।पूजयेत् सुविशेषेण लोकपालायुधांच्छृणु ॥१८५॥वज्रं शक्तिञ्च दण्डञ्च खट्गंपाशांकुशौ गदाम् ।त्रिशूलं चक्रं पद्मञ्च दशायुधमिति स्मृतम् ॥१८६॥प्राक् दशास्त्रोक्तमानेन लोकशास्त्राणि कारयेत् ।पूर्ववद् वज्रमुक्तन्तु शक्तिलक्षणमुच्यते ॥१८७॥मूले गण्डिकयायुक्तं भवेदेकैकमङ्गुलम् ।एकैकाङ्गुल वृध्या तु विस्तरं गण्डिकात्रयम् ॥१८८॥चतुरङ्गुलन्तु तन्मूलं नाहन्तस्य षडङ्गुलम् ।तदूर्ध्वे गण्डिकायुक्तं कुम्भञ्चैव तदूर्ध्वतः ॥१८९॥दण्डमेवं समाख्यातं खट्गंपाशन्तु पूर्ववत् ।दण्डाग्रे गण्डिकायुक्ता जिह्वा श्वेत्बालचन्द्रवत् ॥१९०॥अङ्कुशं त्वितिविख्यातं गदालक्षणमुच्यते ।गदायास्तु प्रकर्तव्यं कुम्भाधस्तात् तु पूर्ववत् ॥१९१॥कुम्भधारा समायुक्त गदा वै दण्डवत् स्मृतौ ।प्रागुक्ता वयवोपेतं शूलं पूर्वव देव हि ॥१९२॥चक्रस्य शूलवन्मानं द्वादशारसमन्वितम् ।मध्ये नाभि समायुक्तं परितः पत्रसंयुतम् ॥१९३॥एवञ्चक्रं समाख्यातं पद्मलक्षणमुच्यते ।अष्टाङ्गुलन्तु मुकुलं दलाष्टकसमन्वितम् ॥१९४॥चतुरङ्गुलनालन्तु कुर्यात् पद्मं स लक्षणम् ।सौवर्णं रजतं वापि ताम्रा यासन्तु दारुवत् ॥१९५॥तेषां रत्निसमुत्सेधं कृत्वा पुरुषमानतः ।किञ्चिदत्र विशेषोस्ति शक्तिस्त्रीरुपया भवेत् ॥१९६॥शेषाश्च पुरुषाकारा सर्वाभरणभूषिताः ।अस्त्राणि शिरसाधार्या नमस्कृत्वा कृताञ्जलिः ॥१९७॥अस्त्रवर्णास्तु पूर्वाः स्युर्नामतन्नाम एव तु ।अस्त्राणां लक्षणं प्रोक्तं तोरणानां शृणु क्रमात् ॥१९८॥पलाशखदिराश्वत्थैः शमीबिल्वशिरीषकैः ।कारयेत् तोरणान् सम्यक् यथा वा याज्ञिकैः पुनः ॥१९९॥सप्तषट्पञ्चहस्तोच्चं विस्तारं स्यात् तदर्धकम् ।एकहस्तप्रमाणेन मध्ये शूलसमायुतम् ॥२००॥तोरणानां विधिः प्रोक्ता भद्रं तोरणमुच्यते ।द्वारेषु गोपुराणाञ्च विन्यसेच्छुभ कर्मणि ॥२०१॥द्वारात् पादाधिकं दैर्घ्यं विस्तारं द्वारतः समम् ।कुम्भगण्डियुतं स्तंभं विष्कंभं रत्निविस्तृतम् ॥२०२॥अश्वत्थ पत्रवलयैरष्टमङ्गलकैर्युतम् ।त्रिशूलमुपरि न्यस्त्वा हस्तमात्रप्रमाणकम् ॥२०३॥भद्रतोरणमेवोक्तं सुवर्णकुसुमं शृणु ।द्वादशाङ्गुलविस्तारं वसुभागार्धमेव वा ॥२०४॥मध्यमे कर्णिकायुक्ते दलाष्टकसमन्वितम् ।पुष्पमेवं समाख्यातं पट्टञ्च गोलकां शृणु ॥२०५॥पट्टञ्च भागविस्तारं लिङ्गनाहञ्च दैर्घ्यकम् ।गोलका किञ्चिदाविधं लिङ्गमानेन कारयेत् ॥२०६॥जटामकुटमीशस्य शक्तिनान्तु किरीटकम् ।मकुटं कुण्डलञ्चैव हारकेयूरकं तथा ॥२०७॥कटकं कटिसूत्रञ्च पादनूपुरकं तथा ।कुर्यादुदर बन्धञ्च स्त्रीणां वै रत्नभूषणम् ॥२०८॥यथा हि प्रतिमानान्तु तथा तत्रैव बुद्धिमान् ।एवमाभरणं प्रोक्तं क्षुरकर्तरिकां शृणु ॥२०९॥अष्टाङ्गुलमयि वामं तदर्द्धं विस्तृतं तथा ।आयसेन तु कर्तव्यं तन्नालञ्चतुरङ्गुलम् ॥२१०॥द्वादशाङ्गुलमानेन विवक्रमरसंयुतम् ।क्षुरकर्तरिकौ प्रोक्तौ दीक्षाकर्मणि योजयेत् ॥२११॥द्वादशाङ्गुलमानेन ऊर्मिजालेनमार्जनम् ।नालिकेरस्य पत्राणां सारान् बहुलसंयुतान् ॥२१२॥अरत्निमात्रमायामन्तं मूले रज्जुबन्धनम् ।द्विविधामार्जनी प्रोक्ताह्ययं मार्जनकर्मणि ॥२१३॥मृत्पात्राणीह सर्वाणि मासादूर्ध्वं परित्यजेत् ।लोहदार्वादिकरणं तल्लयान्तं परिग्रहेत् ॥२१४॥एवं समासतः प्रोक्तं ग्रमादीनां ततः शृणु ।इति करणाधिकारलक्षणपटल द्वाविंशतितमः ॥२२॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP