संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| शूलस्थापनविधिपटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - शूलस्थापनविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः शूलस्थापनविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि शूलस्थापनकं परम् ।सदाशिवस्य देवस्य चेतनांशूलमुच्यते ॥१॥सर्वदेवमयं शूलं लक्षणं शृणु सांप्रतम् ।प्रासाद तुङ्गकं वापि त्वथवास्तंभमानकम् ॥२॥पादात् पादाधिकं वापि पादार्धं पादमेव वा ।अधिकं व्योममित्युक्तं तद्विहीनं विशेषतः ॥३॥तदुत्सेधदशांशैकं पत्रविस्तारमुच्यते ।तदर्धं नालविस्तारं तच्चतुर्थं घनं स्मृतम् ॥४॥पार्श्वपत्रेद्वयोरग्रे चूतपत्राग्रवत् कृतम् ।पत्रतारं त्रिभागेन पत्राणान्तु घनं स्मृतम् ॥५॥घनस्यार्द्धांशमेवोक्तं पत्राणान्तु घनं भवेत् ।तदूर्ध्वन्तारद्विगुणं फलका चतुरश्रकम् ॥६॥तदष्टांशं घनं प्रोक्तं तस्याधः कुंभमिष्यते ।फलकाकार नाहार्धं कुंभ तुङ्गन्तदर्धकम् ॥७॥कुंभाधश्चोर्ध्वतश्चापि कर्णनाहं नवांशकम् ।कुंभनाहाष्टभागेन कर्णनाहमिति स्मृतम् ॥८॥कुंभार्धं तदधस्ताच्च तदर्धोदण्डपञ्जरम् ।दारुजञ्चेत् तु कर्तव्यं लोहजञ्चेत् परं विना ॥९॥फलकातारपञ्चांशं त्रिभागं दण्डनाहकम् ।मूलाधस्तासिकान्तं यत्तन्मानं पीठ तुङ्गकम् ॥१०॥तदुत्सेधस्य पञ्चांशं त्रियंशंपीठविस्तरम् ।अब्जाकारञ्चतुरश्रं पीठाकारं तथा स्मृतम् ॥११॥अष्टांशं वीभजी कृत्वा त्वैकांशेन तु कर्णिका ।चतुरंशं दलोत्तुङ्गं दलाग्रञ्चैकभागतः ॥१२॥पञ्चभागञ्चतुरश्रं भागादिपाद्य तुङ्गता ।पीठस्य घनमाख्यातं फलकायाघनार्धकम् ॥१३॥ततो दारुमयैर्दण्डैः पीठोर्ध्वे दण्डपञ्जरम् ।दारुदण्डस्य मध्ये तु योगपट्टेन तां दृढम् ॥१४॥शूलाग्रमुखसंज्ञाथ मध्यपत्रेब्जमालिखेत् ।एवं शूलास्त्रमापाद्य ततस्थापनमारभेत् ॥१५॥जलाधिवासनं स्नानं कृत्वा मण्डपसंस्कृतिम् ।वस्त्रैराच्छाद्य शूलन्तु स्थण्डिले शयनो परि ॥१६॥न्यस्त्वा शूलाधिपां देवानर्चयित्वा यथाक्रमम् ।कलशां विन्यसेत् तत्र शूलास्त्राधिपसंयुतान् ॥१७॥सकूर्चानस्त्रसंयुक्तान् तदा युधांश्च बैजिकान् ।तत्तदग्नौ हुतं हुत्वा तत्तन्मन्त्रैस्तु बुद्धिमान् ॥१८॥सुमुहूर्ते सुलग्ने तु तत्तन्मन्त्राणि संस्मरन् ।मध्यपत्राधिपो रुद्रो दक्षिणे तु पितामहः ॥१९॥वामपत्रे तथा विष्णु स्त्रिपत्राणां तु देवताः ।वामा ज्येष्ठा च रौद्री च शूलमूले तु देवताः ॥२०॥फलका स्कन्ददैवत्यं कुंभे तु वरुण स्थिताः ।तदर्धञ्चाग्नि दैवत्यं दण्डैश्चैव सरस्वती ॥२१॥पीठे चैवमुमादेवी भूमिभागे वसुन्धरा ।स्थापयेत् क्रमशोविद्वान् गन्धपुष्पाक्षतान्वितम् ॥२२॥स्वनामाद्येन बीजेन कलशैरभिषेचयेत् ।अभ्यर्च्य हृदये नैव हविष्यन्तु निवेदयेत् ॥२३॥शूलसंस्थापनं प्रोक्तमस्त्रराजविधिं शृणु ।इति शूलस्थापनविधिपटल एकपञ्चाशत्तमः ॥५१॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP