संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| मूर्धेऽष्टकाविधि पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - मूर्धेऽष्टकाविधि पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः मूर्धेऽष्टकाविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि मूर्धेऽष्टकाविधिं शृणु ।प्रासादस्योत्तरे वाग्रे प्रपां कृत्वा स लक्षणम् ॥१॥स्थण्डिलं तत्र कुर्वीत तिलतण्डुलशालिभिः ।न्यस्त्वा तन्मध्यमे पश्चादिष्टकाः पञ्चकाः क्रमात् ॥२॥शालिपिष्टमयेनाथ लेखयेदक्षराणि तु ।यकारं पूर्वभागे तु रकारं दक्षिणे तथा ॥३॥लकारं पश्चिमे चैव पकारञ्चोत्तरे तथा ।हकारं मध्यमे न्यस्त्वा पृथग्वस्त्रेण वेष्टयेत् ॥४॥अभितः कलशानष्टौ त्रिसूत्रपरिवेष्टितान् ।पिधान कूर्चवस्त्राड्यान् गन्धांबु परिपूरितान् ॥५॥हेमरत्न विनिक्षिप्त लोकपालाधि देवतान् ।संस्थाप्या भ्यर्च्यगन्धाद्यै स्वस्वमन्त्रेण देशिकः ॥६॥लोहजं दारुजं वापि स्त्रिभिस्तंभं विशेषतः ।शिखरं सदृशं दीर्घं तारमष्ट षडङ्गुलम् ॥७॥अग्रमङ्गुलविस्तारमानुपूर्वात् कृशं तथा ।चतुरश्रं भवेन्मूलं मध्यमष्टाश्रकं तथा ॥८॥तदूर्ध्वं वृत्तमेवं स्याच्छिखि पादमिव स्थितम् ।गव्यैः प्रक्षालयित्वा तु स्थण्डिलोपरिविन्यसेत् ॥९॥आच्छाद्याहत वस्त्रैश्च दर्भैः संस्तीर्य यत्नतः ।वास्तु होमन्ततः कृत्वा पर्यग्निं तेन वह्निना ॥१०॥कुर्यादस्त्रं महाशासु कुण्डानि विधिवत् ततः ।तुर्याश्राण्यथ वृत्तन्तु शङ्करेपि तथैव हि ॥११॥अथवा वालुकैर्वापि स्थण्डिलं कारयेत् क्रमात् ।अग्न्याधानादिकं सर्वं पूर्वोक्तेन विधानतः ॥१२॥पार्थिवादीनि तत्वानि पञ्चेऽष्टकाधि देवताः ।समिदाज्य चरूलाजान्य वैःसद्यादिभिः क्रमात् ॥१३॥उदुंबर वटाश्वत्थ प्लक्षपालाशकाः क्रमात् ।प्रागादि समिधः प्रोक्ता स्थण्डिले वा विशेषतः ॥१४॥प्रत्येकं शतमर्धं वा हुत्वा पूर्णाहुतिं ततः ।पञ्चभूतात्मकं स्मृत्वा होममेकमथैशके ॥१५॥प्रभाते विमलेधीमां नक्षत्रे करणान्विते ।सुमुहूर्तेसुलग्ने च स्थापक स्थपती तथा ॥१६॥शुक्लवस्त्रपरिच्छन्नौ शुक्लमाल्यानुलेपनौ ।अनन्यमनसा वेतौ स्थापयेदिष्टकाः क्रमात् ॥१७॥सद्यादि ब्रह्ममन्त्राणि स्मरन् पूर्वादिविन्यसेत् ।भूमादि पञ्चत्वत्वानि न्यस्त्वा पूर्वादितः क्रमात् ॥१८॥मध्यमे नवरत्नानि न्यस्त्वापूर्वोक्तमार्गतः ।ईशानेन तु मन्त्रेण स्थूपिं तत्रैव विन्यसेत् ॥१९॥स्थपतिः शेषकर्माणि कारयेत् तु यथा दृढम् ।स्थापको मन्त्रयोग्यस्तु स्थपतिः कर्मयोग्यकः ॥२०॥शिखरोर्ध्वे तु संस्थाप्य पञ्चभागत्रिभागिकम् ।अर्धभागन्तु वा दृश्यं स्थूप्याः शेषन्तु बन्धयेत् ॥२१॥विमानाङ्गानि सर्वाणि कुर्यच्छास्त्रोक्तमार्गतः ।शैलेन निर्मितेधाम्नि वर्णिते वाप्य वर्णिते ॥२२॥इष्टकाभिः सुनिर्वृत्ते सुधाद्यैर्वर्णिते क्रमात् ।विमान स्थापनं धीमान् कुर्यादस्मिन् विशेषतः ॥२३॥व्यपोह्य संकरान् भाण्डान् कृत्वा शिल्पिविसर्जनम् ।ततो क्षिमोचनं कुर्याद्धोम वेदान्विशेषतः ॥२४॥संपूज्यस्थापकं पश्चात् स्थपतिं पूजयेत् ततः ।वस्त्रहेमाङ्गुलीयाद्यैर्गो भूमिधनधान्यकैः ॥२५॥प्रागुक्तविधिना सम्यक् कर्तव्यञ्चाङ्कुरार्पणम् ।प्रतिष्ठादिवसात् पूर्वे दिवसे विप्रनिर्णिते ॥२६॥प्रासादस्य चतुर्दिक्षु प्रपाः पञ्चकरैः क्रमात् ।प्रासादमध्यमे वेदीं तत् त्रिभागैकमानतः ॥२७॥विस्तारार्ध समुत्सेधं मुष्टिमानमथापि वा ।चतुर्दिग्वेदिकायास्तु प्राग्याम्य वरुणेन्दुषु ॥२८॥होमकुण्डं विधानेन प्रोक्तं वा चतुरश्रकम् ।प्रासादाभ्यन्तरे कुर्यात् वास्तु होमं विधानतः ॥२९॥पर्यग्निकरणङ्कृत्वा महाव्योमेति मन्त्रतः ।पुण्याहं वाचयित्वाद्भिः प्रोक्षयेत् तु समं ततः ॥३०॥द्रोणांबुपूरितान् कुम्भान् निर्दोषान् सुदृढान्नव ।तन्तुना चित्रितान् सर्वान् सर्वगन्धांबु पूरितान् ॥३१॥हेमपुष्पविनिक्षिप्तान् प्रत्येकं वस्त्र वेष्टितान् ।चूतपल्ववसंयुक्तान् संस्थाप्य स्थण्डिलोपरि ॥३२॥अष्टद्रोणैस्तदर्धैर्वा वेदिकोर्ध्वे पृथक् पृथक् ।आलिख्य नलिनञ्चोर्ध्वे चाष्टपत्रं सकर्णिकम् ॥३३॥शाल्यर्धन्तण्डुले नैव तण्डुलार्धतिलैः कृतम् ।मध्यादीशान पर्यन्तं वेदिकासु पृथक् पृथक् ॥३४॥संस्थाप्य वर्धनीयुक्तं स्वस्वमन्त्रैर्विशेषतः ।धामप्राग्वेदिकोर्ध्वस्थ मध्यकुम्भे तु षण्मुखम् ॥३५॥तस्यैव वामभागे तु वर्धन्यां सुमतिन्न्यसेत् ।अभितोष्ट घटेष्वेषु लोकेशान् स्वस्वदिग्गजान् ॥३६॥दक्षिणे मध्यकुंभे तु श्रीकण्ठे शन्तु विन्यसेत् ।वामभागे तु वर्धन्यां न्यस्त्वागौरीं समन्त्रतः ॥३७॥अनन्तादि शिखण्ड्यन्तां विद्येशानभितो न्यसेत् ।पश्चिमे विष्णुमूर्तिन्तु मध्यकुम्भे तु वामता ॥३८॥श्रीयं विन्यस्य वर्द्धन्यां पुरुषं सत्यमेव च ।अव्यक्तञ्चानिरुद्धञ्च प्रद्युम्नं वासुदेवकम् ॥३९॥संकर्षणमनन्तञ्च परितोष्ट सुविन्यसेत् ।उत्तरे मध्यकुम्भे तु ब्रह्माणञ्च स्वमन्त्रतः ॥४०॥तस्य वामे तु वर्धन्यां सावित्रीमभितोष्टसु ।व्यासागस्त्यवसिष्ठांश्च कौशिकं काश्यपं तथा ॥४१॥गौतमञ्च भरद्वाजं विन्यसेत् तु पराशरम् ।यद्वद् धामगतासीनास्तद्वत्सं भावयेत् घटे ॥४२॥संयजेदुक्तमन्त्रैश्चाप्यनुक्तान् स्वस्वनामभिः ।प्रत्येकं हविषं दत्वा ह्युपदंशैः समन्वितम् ॥४३॥ततो होमं प्रकुर्वीत चतुर्दिक्षु विशेषतः ।कृत्वाग्निमुखसंस्कारं प्रागुक्तविधिना सुधीः ॥४४॥मध्यकुम्भस्थ देवास्तु होमानामधिदेवताः ।पिप्पलोदुंबर प्लक्षवटाः पूर्वादिषु क्रमात् ॥४५॥समित्सर्पिश्चरुर्ल्लाज तिलसिद्धार्थमुद्गकाः ।यवमाषकुलुत्थाश्च नीवारैकादशः क्रमात् ॥४६॥पञ्चब्रह्मैश्च विद्यांगै स्त्रिशतं द्विशतं तु वा ।शतमष्टोत्तरं वापि प्रत्येकं जुहुयुस्ततः ॥४७॥विमानादूर्ध्व भूमिस्थदेवान् संस्नाप्य शैलजान् ।संप्रोक्ष्य वर्णी तद्देवान् स्वस्वमन्त्रेण देशिकः ॥४८॥हैमकौतुकसूत्रेण तेषां दक्षकरे हृदा ।बध्वा दर्भैः सुवस्त्रैश्च बिंबानाच्छाद्य वर्मभिः ॥४९॥ऋगाद्यध्ययनं कुर्याच्चतुर्दिक्षु विशेषतः ।एवं रात्रौ तु निर्दिष्टं प्रभाते देशिकोत्तमः ॥५०॥सुस्नातः सकलीकृत्वा सोष्णीषः सोत्तरीयकः ।शुक्लांबरधरः सृग्वी शुक्लगन्धानुलेपितः ॥५१॥पञ्चाङ्गभूषणैर्भूष्य हेमयज्ञाङ्गुलीयकैः ।कुम्भा न भ्यर्च्य विधिना दद्यात् पूर्णाहुतिं हृदा ॥५२॥सुमुहूर्तेसु लग्ने च कुम्भानुधृत्यमध्यमान् ।वर्धनीभिः सहैवात्र नयेदृक्षस्थलोपरि ॥५३॥त्यक्त्वा प्रतिसरं वस्त्रं हृदयेन स्वमन्त्रकान् ।विन्यस्त्वाक्षरसंघांश्च शिरोमध्यात् पदान्तकम् ॥५४॥कुम्भात् बिंबे तु तत् तत्त्वं योजयेत् तु पृथक् पृथक् ।तेषान्तु वामपार्श्वे तु वर्धन्यन्तस्थदेवताः ॥५५॥संयोज्य स्वस्वमन्त्रेण यथा युक्त्याभिषेचयेत् ।परितोष्टघटान्तस्थां स्वस्वाशासु च विन्यसेत् ॥५६॥संप्रोक्ष्य कुम्भतोयैश्च देवानन्यांश्च धामनि ।स्थूप्याद्युपान पर्यन्तं प्रासादाङ्गानि सेचयेत् ॥५७॥स्थापकं मूर्तिकांश्चैव अध्ये तॄन् परिचारकान् ।सर्वांश्च शिवभक्तांश्च पूजयेत् पूर्ववत् सुधीः ॥५८॥धामान्तस्थगतं देवं स्नपनं कारयेत् ततः ।दद्यात् प्रभूतहविषं भोजयेत् भूसुरानपि ॥५९॥विमानस्थापनोपेत धाम्निपूजाफलप्रदा ।अकृते पूजिते धाम्नि तत्सर्वं निष्फलं भवेत् ॥६०॥शिवस्यैवं समाख्यातं विमानस्थापनं मया ।अन्येषां देव सर्वेषां कुर्यादेवं विधानतः ॥६१॥मन्त्रभेदो भवेदत्र क्रियाभेदो न कल्प्यते ।प्रासादग्रीवमध्यस्थ देवानां स्वस्वमन्त्रकैः ॥६२॥कुर्यात् सर्वं यथोद्दिष्टं विधिनादेशिकोत्तमः ।विमानस्थापनोपेत मूर्धेऽष्टका विधिं ततः ॥६३॥अत ऊर्ध्वं प्रवक्ष्यामि शृणु लिङ्गस्य लक्षणम् ।इति मूर्धेऽष्टकाविधिपटलो द्वात्रिंशत्तमः ॥३२॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP