संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| फलपाकविधि पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - फलपाकविधि पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः फलपाकविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि फलपाकविधिं परम् ।दूरतस्तु शिवं दृष्ट्वा नमस्कृत्वा तु यो नरः ॥१॥मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः ।दूराध्वश्रमविक्लान्तः सुधीः कृत्वा प्रदक्षिणम् ॥२॥मार्ग क्लेशोऽप्यथेशाय भवेत् पापानि नश्यति ।जनैः पृष्ठानु यातोऽत्र भूलोके तु स जीवति ॥३॥उत्सवे बलिकाले तु यथा कुर्वन् प्रदक्षिणम् ।पदे पदेऽश्वमेऽथस्य फलं प्राप्नोति मानवः ॥४॥यथा कृत्वा नमस्कारं तथा लोकेसु पूजितः ।जलपुष्पं सुपुष्पं वा देवमुद्दिश्य निक्षिपेत् ॥५॥नानापुष्पैरलङ्कृत्य नानाभोगं समश्नुते ।आरामं देवदेवस्य यो नरः कृतवान् भुवि ॥६॥स एव धनवान् च्छ्रीमानिहलोकेसु पूजितः ।अयुतं योगवान् दद्यात् श्रोत्रिये वेदपारगे ॥७॥गोशृङ्गेनाधिकं देवं क्षीरस्नानस्य तत्समम् ।कपिलापञ्चगव्येन कुशवारियुतेन च ॥८॥स्नापयेद् देवदेवेशं गवाङ्कोटिफलैः समम् ।नवधा स्नपनं कुर्वन्यो नरो भक्तिसंयुतः ॥९॥नानाभोगसमायुक्तः शिवलोके महीयते ।नवमार्गे तु यत् कर्म भोगोऽपि नवधा भवेत् ॥१०॥नवधा हविषं कृत्वा नवधा भोगमश्नुते ।घण्टामणिञ्च यो दद्यात् ख्यातिर्भूतिर्विशिष्यते ॥११॥वस्त्राण्याभरणादीनि देवदेवस्य योजयन् ।नानावस्त्रैः सुसंपूर्णैर्नाना चा भरणैस्तथा ॥१२॥पूजितस्त्विह देवैस्तु पृथिव्यामेकराट् भवेत् ।दीपन्तु देवदेवस्य सकृत् काले प्रदापयन् ॥१३॥लोके तु दीपवत् सोऽपि सर्ववित्तावृतस्मृतः ।मनसा कर्मणा वाचा शिवमुद्दिश्य यो नरः ॥१४॥सर्वारम्भप्रयोगे वा ---- भात् पुनः ।सर्वदानतपोयज्ञैः प्राप्यते यत् फलं महत् ॥१५॥तस्मादतिशयं स्वर्गे तत्फलं महमा?प्नुयात् ।कर्षणे च मते लोकान् सप्तसर्वान् जयिष्यति ॥१६॥इष्टकाशैल लोहैर्वायः कुर्याद् भवनन्नरः ।काञ्चनेन विमानेन शिवलोकेमहीयते ॥१७॥संसिद्धे तु विमाने तु स्थापनं विधिमार्गतः ।शिवलोकमवाप्नोति पूज्यमानः सदामरैः ॥१८॥शिवलिङ्गे कृते पश्चात् फलं सामीप्यमाप्नुयात् ।यद्रूपं स्थापितं बिम्बन्तद्रूपोथ भविष्यति ॥१९॥रूपैर्हरव पुर्भूत्वा ईशेन सहितः सुवी ।तस्य लोके च रन्धिमान् यथा कामन्तथेशवत् ॥२०॥शिवायनिहिता यानि पुष्पाणि च दलानि च ।फलानि चैव बीजानि धान्यादीनि विशेषतः ॥२१॥यजमानस्य पूर्वे तु शिवलोके व्रजन्ति हि ।शिवयज्ञे समाप्ते तु तत् प्रयोगेन देहिनः ॥२२॥एवं विंशदतीतानां गुरूणां तस्य वंशिनाम् ।दशपूर्वान् समृच्छन्ति समासेनदशा परान् ॥२३॥मातृपक्षे प्रसूतानां तल्लोके स्थानमिष्यते ।शुश्रूषकाणां दाराणां पुत्रभ्रातृसमन्वितम् ॥२४॥शिवलोके निवासं स्याद् यन्नलभ्यंसु देवतैः ।भुक्त्वा तु विपुलान् भोगान् प्रलये समुपस्थिते ॥२५॥ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ।प्राकारमण्डपान् कुर्वन्यधेऽष्टं स्वर्गमाप्नुयात् ॥२६॥वापी कुपतटाकांश्च देवमुद्दिश्ययत्नतः ।यः कुर्वन्बहुधनाढ्यस्तदन्ते शिवमाप्नुयात् ॥२७॥कार्यकर्मण्य शक्तस्तु स्मरन्नित्यं तु यः पुमान् ।तत्रैव मृयते चैव तस्य स्वर्गं न संशयः ॥२८॥आसनासनि सद्भावं ज्ञात्वा संपूजयेच्छिवम् ।सा लोक्यञ्चैव सामीप्यं सा रूप्यं प्राप्नुयात् क्रमात् ॥२९॥अग्निपूजा च सा लोक्यं बलिना वै तथा भवेत् ।उत्सवे नैव सामीप्यं सा रूप्यं रुद्रचिन्तया ॥३०॥शिवनिन्दाञ्च यो मूढः कुर्यादज्ञानमोहितः ।स याति नरकं घोरं त्रिसप्तति च संयुतः ॥३१॥तं हन्यादसमर्थश्चेत् गच्छेद् वाथ ततो बहिः ।यस्तु प्राणपरित्यागं कुर्याच्छिवनिमित्ततः ॥३२॥तस्यैव फलसंपत्तिं मयावक्तुन्न शक्यते ।तावत् तु शिव सा युज्यं प्राप्नुयान्नात्र संशयः ॥३३॥भक्तिः स्वाभाविकी चैव कृत्रिमा चेति वै द्विधा ।स्वभाविका तु या भक्तिः पूर्वजन्मविवर्त्तिता ॥३४॥सहजा चेति सा ज्ञेया इहामुत्र सुखप्रदा ।कृत्त्रिमा वै कृतानाम सा परत्र सुखप्रदा ॥३५॥सहजा वै कृता चैव या सा भक्तिर्न नश्वरी ।स पुनः शिव एवेति चिन्तयेत् तच्छिवं नरम् ॥३६॥लिङ्गाद्धस्तं शतं वार्धं शिवक्षेत्रं समन्ततः ।यस्य तत्रैव वासत्वं शिवलोकस्य कारणम् ॥३७॥यत्र तत्रैव पञ्चत्वं शिवलोकस्य कारणम् ।यत् तु मानुषकं लिङ्गं क्षेत्रमानमिदं स्मृतम् ॥३८॥स्वयंभूते सहस्रं स्यादार्षे चैव तदर्धकम् ।आरामवापि सर्वाणि स्थावराणि तराणि च ॥३९॥दिव्यं प्रयान्त्य सन्देहं प्रभावात् परमेष्ठिनः ।तस्मादावसथं कार्यं शिवक्षेत्रसमीपतः ॥४०॥आत्मार्थं पूजयेत् सर्वेसोपहारं शिवस्य तु ।तस्मात् पत्रफलैः पुष्पैरम्भ सा मनसा बुधः ॥४१॥चित्तं शिवात्मकङ्कृत्वा शिवमाराधयेत् सदा ।शिवधर्मात्परोधर्मो न भूतो न भविष्यति ॥४२॥अन्येषु पशुधर्मेषु स्वर्ग एव फलं हि तत् ।एतद्धि शिवशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥४३॥सर्वशास्त्रं समुत्सृज्य शिवशास्त्रेषु योजयेत् ।फलपाकविधिः प्रोक्तमाचार्यलक्षणं शृणु ॥४४॥इति फलपाकविधि पटलोविंशतिः ॥२०॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP