संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| प्रासादलक्षणविधि पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - प्रासादलक्षणविधि पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः प्रासादलक्षणविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि प्रासादानान्तु लक्षणम् ।सप्ताष्ट नवहस्तञ्च अधमं त्रितयं भवेत् ॥१॥दशद्वादशकं हस्तं षोडशं मध्यमत्रयम् ।विंशत् त्रिंशच्च पञ्चाशत् त्रीणिचोत्तममिष्यते ॥२॥एवं नवविधं प्रोक्तं प्रासादानान्तु विस्तरम् ।विस्तारं पञ्चविंशत्तु भागं कृत्वा विचक्षणः ॥३॥नवांशं गर्भगेहन्तु भित्तिमानन्तु षोडश ।अथवा षोडशांशे तु चतुष्टं गर्भविस्तरम् ॥४॥द्वादशांशस्तु भित्तेस्तु विस्तारं सर्वतः समम् ।एकाशीति पदङ्कृत्वा नवांशं गर्भमेव तु ॥५॥षोडशं भित्तिमानन्तु भित्तिमभ्यन्तरं विदुः ।तत् बाह्यैकन्तु सलिलं तत् बाह्यैकन्तु भित्तिकम् ॥६॥बाह्यभित्तौ चतुर्द्वारमथवा द्वारमेकतः ।अन्यत् सर्वसमं प्रोक्तं स्थूप्यन्तं कारयेत् बुधः ॥७॥यदुक्तं भित्तिविस्तारं बाह्याभ्यन्तरयोः समम् ।बाह्ये वा भ्यन्तरे वापि त्रिविधं भित्तिमानकम् ॥८॥लिङ्गमानविमानस्य विस्तारं शृणु सांप्रतम् ।यावल्लिङ्गस्य विष्कंभं त्रिगुणं पीठविस्तरम् ॥९॥तत्तारं त्रिगुणीकृत्य गर्भगेहं प्रचक्षते ।गर्भगेहं त्रिभागैकं भित्तिमानं विधीयते ॥१०॥यदीश्चेत् कर्तृ विस्तारन्तद्विस्तारं विधीयते ।पूजांशं द्विगुणं पीठं त्रिगुणं वा विशेषतः ॥११॥पीठस्य त्रिगुणं गर्भन्तत्रिभागैक भित्तिकम् ।संवीक्ष्य समभूमिश्चेदुपपीठं प्रकल्पयेत् ॥१२॥विस्तारस्याष्टभागैकमुपपीठस्य चोच्छ्रयम् ।तत् पादहीनमर्द्धं वा द्वादशांशं विभज्यतम् ॥१३॥द्विभागौ पट्टिकाधस्तादूर्ध्वमंशेन पट्टिका ।षट्भागं कर्णभागं स्यादेकांशाक्षुद्र पट्टिका ॥१४॥प्. १४२) तस्योर्ध्वे तु द्विभागेन ग्रीवं पादैरलङ्कृतम् ।यथा लङ्कार संयुक्तमुपपीठं प्रकीर्तितम् ॥१५॥ततो जाङ्गलभूमिश्चेदधिष्ठानं प्रकल्पयेत् ।तच्चतुर्विधमाख्यातमिहशास्त्रे विशेषतः ॥१६॥पद्मबन्धञ्चारुबन्धं पादबन्धं प्रतिक्रमम् ।विस्तारस्य चतुर्थांशमधिष्ठानोच्छ्रयं भवेत् ॥१७॥पद्मबन्धं प्रवक्ष्येऽहं शृणु तत्वङ्गजानन ।उत्सेधं सप्तविंशत् तु द्विभागा पट्टिका भवेत् ॥१८॥एकांशं दलमेवोक्तमुपानञ्चैक भागिकम् ।जगती तु षडंशा स्यात् द्विभागार्धदली क्रमात् ॥१९॥अर्धभागं भवेत् स्कन्धं भागमूर्ध्वदलं तथा ।त्रिभागं कुमुदं विद्या दधोब्जं भागमेव तु ॥२०॥पट्टिका चैकभागा तु ग्रीवा चैव द्विभागिका ।तदूर्ध्वमेक भागन्तु पद्मबन्धतो परि ॥२१॥द्विभागा पट्टिकाया तु एकभागेन योजनम् ।तत्व्रतेश्चैक भागन्तु पद्मबन्धमिति स्मृतम् ॥२२॥अधिष्ठानस्य चोत्सेधञ्चतुर्विंशति भाजितम् ।द्विभागापट्टिका प्रोक्ता ह्युपानञ्चैक भागिकम् ॥२३॥षट्भागाजगती प्रोक्ता कुमुदं पञ्चभागिकम् ।एकांशापट्टिका प्रोक्ता ग्रीवा चैव त्रियंशका ॥२४॥एकांशापट्टिका विद्धि त्रियंशाचोर्ध्वपट्टिका ।महापट्टिका त्रियंशा एकं वा जनमुच्यते ॥२५॥पादबन्धमितिख्यातं सर्वकार्येषु पूजितम् ।वृतिक्रमं विशेषेण कर्तव्यं पादबन्धवत् ॥२६॥पट्टिकां प्रतिवक्त्रन्तु कुमुदावृत्तमुच्यते ।एवं प्रतिमुखं कार्यमधिष्ठानं समासतः ॥२७॥पादायाममधिष्ठानं द्विगुणं सर्वसंमतम् ।पादार्धं प्रस्तरं प्रोक्तं कर्णं प्रस्तरवत्समम् ॥२८॥प्रस्तरद्विगुणायामं शेखरं हितमुच्यते ।भागस्थूपिं प्रकर्तव्यं सर्वालङ्कारसंयुतम् ॥२९॥प्रस्तरादूर्ध्वभागे तु कर्णकूटसमायुतम् ।चतुर्दिक्षु कपोतञ्च तयोर्मध्येऽष्टपञ्जरम् ॥३०॥अर्धभागन्तु कण्ठं स्यात् भागार्धं शिखरं भवेत् ।एवमेकतलं प्रोक्तं द्वितलादीनिमच्छृणु ॥३१॥प्रस्तरान्मूलपादाच्च तलं प्रतितदूर्ध्वतः ।सप्तभागैकभिन्नन्तु तलेष्वेवं प्रकीर्तितम् ॥३२॥आद्वादशतला देवं भूमौ प्रकल्पयेत् ।एवमुक्तमिहोत्सेधं द्वारभेदं ततच्छृणु ॥३३॥वृतेरूर्ध्वोत्तरान्तं यद्वारस्योत्सेधमुच्यते ।उत्सेधार्धदशांशो न द्व्यंशं तु परिहीनकम् ॥३४॥विस्तारमुत्तमं मध्यमधन्तु प्रकीर्तितम् ।पूर्वे वा पश्चिमे वापि द्वारङ्कृत्वा विचक्षणः ॥३५॥पद्मबन्ध्याद्यधिष्ठाने वृत्ते रुपरिनिर्गमम् ।वृतेरधस्तादुच्छेदं मसूरे पादबन्धके ॥३६॥अङ्गच्छेदन्तु कर्तव्यमाङ्गन्तु न च कारयेत् ।द्वारभेदमिदं प्रोक्तं जातिभेदं ततः शृणु ॥३७॥नागरं द्राविढञ्चैव वेसरञ्च त्रिधामतम् ।कण्ठादारभ्य वृत्तं यत् तद्वेसरमिति स्मृतम् ॥३८॥ग्रीवमारभ्य चाष्टाश्रं विमानं द्राविडाख्यकम् ।सर्वं वै चतुरश्रं यत् प्रासादं नागरन्त्विदम् ॥३९॥एवं जातिरितिख्यातं तत्भेदञ्च ततः शृणु ।कैलासोमन्धरोमेरु हिमवन्निषधं स्मृतम् ॥४०॥नीलपर्वतमाहेन्द्रौ नलीनकप्रलीनकः ।नन्द्यावर्तं च श्रीवर्तं पर्वताकृतिरेव च ॥४१॥इत्येवमादि सर्वेषां भेदमित्यभिधीयते ।चतुःशालाचतुष्कूट युक्तः कैलास एव हि ॥४२॥मन्धरोनाम इत्युक्तश्चतुःशालाष्टकूटकम् ।मेरुर्नाम इतिख्यातस्त्वष्टशालाष्ट कूटकः ॥४३॥हिमवानिति विख्यातो युक्तषोडशपञ्जरः ।अष्टशालाष्टकूटस्तु प्रासादो लक्षणान्वितः ॥४४॥प्रासादो निषधस्तत्र कूटशाला विहीनकः ।अष्टशाला समायुक्तश्चाष्ट पञ्जरसंयुतः ॥४५॥चतुःशालासमायुक्तो वेदीसोपानसंयुतः ।नलीनकस्तु संप्रोक्ता प्रलीनकमतः शृणु ॥४६॥शीर्षकञ्चतुरश्रन्तु पार्श्वयोः कोष्ठसंयुतः ।पञ्जरं नासिका युक्तं सोपानं पार्श्वयोस्ततः ॥४७॥प्रलीनक इति प्रोक्ता नन्द्यावर्तमिति शृणु ।चतुष्कूटश्चतुःशालाश्चत्वारः पार्श्वनासिकाः ॥४८॥मुखनासी तथा युक्तं द्वादशञ्चानुनासिकाः ।चतुःसोपानसंयुक्तं भूमौ भूमौ विशेषतः ॥४९॥नन्द्यावर्तमिदं वत्स श्रीप्रदञ्च ततः शृणु ।कोष्ठकास्त्विह चत्वारश्चतुष्कोणेषु चैव हि ॥५०॥चतुर्नासी समायुक्तमनुनासी दशाष्टकम् ।एवं लक्षणसंयुक्तं श्रीप्रदन्त्विति कीर्तितम् ॥५१॥कूटशालासमायुक्ता पुनः पञ्जरनासिका ।वेदिकाजालकोपेता पर्वता कृतिरुच्यते ॥५२॥एवं तले तले कर्यन्नूनमेकैक भागिकम् ।जातिभेदं समाख्यातं पादानामधुनोच्यते ॥५३॥चतुरश्रमथाष्टाश्रं षोडशाश्रन्तु वृत्तकम् ।कुम्भयुक्तास्तथा केचित् केचित् कुम्भविहीनकाः ॥५४॥केचिद् वैकुंभमण्डिभ्यां युक्ताः पादा इति स्मृताः ।पादानामा इति प्रोक्तो तेषां लक्षणमुच्यते ॥५५॥विस्तारस्य चतुर्विंशत् भागैकं पादविस्तरम् ।तदैवदण्डमाख्यातं पादालङ्कारकर्मणि ॥५६॥मूलपादस्य विस्तारात् सप्तैकांशो न मार्गतः ।द्विदण्डं मण्डिरुत्सेधं दण्डपादन्तु विस्तरम् ॥५७॥अष्टांशं कण्ठमुत्सेधं द्विदण्डं कुम्भविस्तरम् ।उत्सेधन्तु त्रिपादं हि पादोनाफलका भवेत् ॥५८॥त्रिदण्डं विस्तरं प्रोक्तं तदर्धं निर्गतं स्मृतम् ।वीरकण्ठन्तु दण्डेन विस्तारं तत् समं भवेत् ॥५९॥तदूर्ध्वे पोतिकायामन् तत् त्रिपादन्तदुच्छ्रितम् ।त्रिदण्डमधमायामञ्चतुर्दण्डन्तु मध्यमम् ॥६०॥उत्तमं पञ्चदण्डन्तु पोतिकायाममुच्यते ।चित्रपत्रतरंगैश्च भूषयित्वा तु पोतिकाम् ॥६१॥कुम्भपादमिदं प्रोक्तं कुम्भभिन्नं प्रचक्ष्महे ।पादं पोतिकया युक्तं शेषं कर्म न कारयेत् ॥६२॥कुम्भहीनास्त्विमे प्रोक्ता लताकुम्भन्तदुच्यते ।कुम्भाकारन्तु तन्मूले तदूर्ध्वं पद्ममेव तु ॥६३॥फलकोर्ध्वे लताङ्कुर्यात् तच्छेषं कुम्भपादवत् ।पादान्तरे तु कर्तव्यमशक्तश्चेत् तु वर्जयेत् ॥६४॥सर्वेषां मेवपादानां तत् पादं निर्गमं भवेत् ।श्रीकरञ्चन्द्रकान्तञ्च सौमुख्यं प्रियदर्शनम् ॥६५॥शुभंकरी च नामानि कर्तव्यानि विशेषतः ।श्रीकरं वृत्तपादानां षोडशाश्रे तु कान्तकम् ॥६६॥सौमुख्यं हि तथाष्टाश्रे तुर्याग्रे प्रियदर्शनम् ।चतुरश्राष्टमिश्रे च पादाकार्याशुभंकरी ॥६७॥पादानां लक्षणं प्रोक्तं तोरणं वक्ष्यते धुना ।पृष्ठे तु पार्श्वयोश्चैव कर्तव्यास्तोरणास्तथा ॥६८॥द्वारस्योत्सेधमानं यत्तोरणस्योच्छ्रयं भवेत् ।तदर्धं विस्तरं प्रोक्तमुछ्राये षट्विभाजिते ॥६९॥मकरन्तु द्वियंशेन शेषं पादमिति स्मृतम् ।मूलपादस्य चार्धेन तस्य पादप्रमाणकम् ॥७०॥मकारांशं तदूर्ध्वे तु मध्ये वृत्तं सनिम्नकम् ।वृत्तेरूर्ध्वे उहां कृत्वा चतुरायतमेव तु ॥७१॥प्रमाणन्तोरणस्योक्तं प्रस्तरञ्च ततः शृणु ।प्रस्तरोत्सेधमानन्तु पञ्चभागविभाजितम् ॥७२॥त्रिभागमुत्तरोत्सेधं पादेनोत्तरवाजनम् ।एकभागन्तदूर्ध्वे तु कर्तव्या पद्मपट्टिका ॥७३॥गजश्रेणी मृगश्रेणी प्रस्तरान्तेषु योजयेत् ।एवं प्रस्तरमाख्यातं तलं प्रति विशेषतः ॥७४॥कूटशालाप्रमाणञ्च अधुना वक्ष्यते शृणु ।तस्योत्सेधकपोतान्तं षट्भागन्तद्विभाजिते ॥७५॥पादं वेदिकया युक्तं पादग्रीवा समायुतम् ।द्विभागं पादमेव स्यात् द्विभागं शिखरं भवेत् ॥७६॥भागस्थूपिसमायुक्तमेवं वै कारयेत् सुधीः ।कृत्वा विस्तारषट्भागं कूटमेकेन चैव हि ॥७७॥द्विभागेन तु शालान्तु भागाभ्यां पञ्जरं तथा ।चतुरश्रन्ततः कूटं शालं स्यात् गोपुराकृति ॥७८॥पार्श्वयोर्नासिका युक्तं तन्मध्ये तनुनासिका ।द्वित्रिकञ्च चतुः प्रोक्तं कुम्भन्तस्योपरि स्थितम् ॥७९॥एक नासिकयायुक्तं पञ्जरं समुदाहृतम् ।कूटेषु नासिकायुक्तं कोष्ठमेतत् प्रकीर्तितम् ॥८०॥प्रस्तरोच्च प्रमाणेन तत्समंकण्ठमुच्यते ।द्वादशांशं विभज्याथ द्विभागापट्टिका भवेत् ॥८१॥द्विभागा वेदिका प्रोक्ता कण्ठं पञ्चांशमुच्यते ।पट्टिकाश्चैक भागं स्यात् द्विभागापद्मपट्टिका ॥८२॥तदूर्ध्वे शिखरं प्रोक्तं भागार्धं निर्गमं भवेत् ।तस्योत्सेधं त्रिधा कृत्वा भागं पादस्य दैर्घ्यकम् ॥८३॥भागेन नासिका प्रोक्ता तदर्धं मध्यनिम्नकम् ।शेषभागं त्रिधा कृत्वा नालभागेन कल्पितम् ॥८४॥पञ्जरञ्चैकभागेन त्रिशूलं भागमानतः ।चतुर्भागन्तदर्धं वा ह्यनुनासिकमुच्यते ॥८५॥एवं नासिकमाख्यातं स्थूपिलक्षणमुच्यते ।शिखरार्धं समुत्सेधं पञ्चविंशत् तु तद्भवेत् ॥८६॥सप्तांशं दलमानन्तु भागं तत्कण्ठमुच्यते ।अष्टभागैस्तु तत्कुम्भञ्चतुर्भागन्तु नालकम् ॥८७॥द्विभागं वेदिकां कुर्यात् मुकुलन्तु कला भवेत् ।मुकुलाग्रमधैकांशं स्थूपिपट्टमिहोच्यते ॥८८॥विदिक्षु वृषभं न्यस्त्वा महादिक्षु च मूर्तयः ।स्कन्दङ्कृत्वा तु तत्पूर्वे याम्ये श्रीकण्ठनायकम् ॥८९॥शास्त्रार्थानिमुनीनान्तु मुक्त्यर्थं प्रोच्चरन् गुरुः ।पश्चिमे नारसिंहञ्च सौम्ये वा विन्यसेत् बुधः ॥९०॥ब्रह्माणमुत्तरे कृत्वा चतुर्वक्त्रसमायुतम् ।वृषस्य तालमूर्ध्वे च ह्यासनाः कण्ठसंश्रिताः ॥९१॥शालासु देवताः प्रोक्ताः कूटेषु च नयत्विह ।दिव्यमानुष देवांश्च यथा युक्त्या तु योजयेत् ॥९२॥शिवक्रीडा हरिक्रीडा तपक्रीडा विशेषतः ।यक्षराक्षसगन्धर्व सिद्धविद्याधरोरगान् ॥९३॥अष्टदिक्षु यथा युक्त्या न्यस्त्वा पूर्वादितः क्रमात् ।प्रासादलक्षणं प्रोक्तं मण्डपानां विधिं शृणु ॥९४॥प्रासादार्द्धं मुखायामं विस्तारं सममुच्यते ।त्रिपादं वा मुखायामं सार्धं मण्डपमुच्यते ॥९५॥देवतामण्डपं पूर्वं द्वितीयं स्नपनार्थकम् ।वृषार्धं मण्टपं पश्चाच्चतुर्थं नृत्तमण्डपम् ॥९६॥देवता प्रतिमारूपा स्थापितं देवमण्टपम् ।कलशस्थापनं यत्र प्रोक्तं स्नपनमण्डपम् ॥९७॥वृषभं स्थापितं यत्र वृषभं मण्डपं तथा ।नृत्तं यत्र कृतं तत् तु नृत्तमण्डपमेव तु ॥९८॥गोपुरेऽथव्यवायेपि व्यवाये विकृतं तथा ।एवञ्चतुर्विधेष्वन्य मण्डपञ्चाग्रतो बहिः ॥९९॥तेषां नामानि वक्ष्यामि शृणुवत्स समाहितः ।नन्दवृत्तं श्रियावृत्तं वीरासनञ्च वृत्तकम् ॥१००॥नन्द्यावर्तं माणिभद्रं विशालञ्चेति कीर्तितम् ।नन्दवृत्तञ्चतुष्पादं षोडशं श्रीप्रतिष्ठितम् ॥१०१॥विंशतिस्तंभसंयुक्तं वीरासनमिति स्मृतम् ।द्वात्रिंशत् गात्र संयुक्तं जयभद्रेति कथ्यते ॥१०२॥षट्त्रिंशत् गात्रसंयुक्तं नद्यावर्तमिति स्मृतम् ।चतुःषष्टिसमायुक्तं स्तम्भानां माणिभद्रकम् ॥१०३॥स्तम्भानान्तु शतैर्युक्तं विशालमिति संज्ञितम् ।प्रासादवत् समाख्यातं प्रस्तरान्तं प्रमाणतः ॥१०४॥प्रासादस्तंभमानस्य एतत् स्तंभं विशिष्यते ।पादाधिकमथाध्यर्धं पादो न द्विगुणं भवेत् ॥१०५॥स्तंभायामाष्टभागैकं स्तंभस्यैव तु विस्तरम् ।वृत्तं वा चतुरश्रं वा चतुरष्टाश्रमिश्रकम् ॥१०६॥षोडशाश्रयुतं वापि शिल्पैः सर्वैः सुशोभितम् ।स्तंभाच्च बोधिकाधिक्या बोधेरप्युत्तराधिका ॥१०७॥उत्तराद्वाजनाधिक्या तस्योर्ध्वे मुद्रिकां न्यसेत् ।मुद्रिकाच्चतुलाधिक्या जयन्ती तु ततो परि ॥१०८॥च्छदयेदिष्टकाभिस्तु तस्योर्ध्वे कलकान् क्षिपेत् ।वालुकैस्तु समञ्चूर्णं गुल्माषं योजयेत् क्रमात् ॥१०९॥मुसलेन तु संपीड्य शर्करादिसमन्वितम् ।कषाय पिच्छलैर्युक्तं त्रिफलोदकसंयुतम् ॥११०॥हरीतक्क्यास्तु भागैकं द्विगुणञ्च विभीतकम् ।धात्रि त्रिगुणमित्युक्तं प्रक्षुण्णान् मलसंयुतम् ॥१११॥षण्मासं वा त्रिमासं वा मासं वाप्युषितं तथा ।दधिमाषोदकञ्चैव नालिकेरस्य तोयकम् ॥११२॥क्षीरञ्चदधिसंमिश्रं सम्यक् कर्मसमाचरेत् ।कूटशालासभां कृत्वा भोगयोग्यं विशेषतः ॥११३॥सोपानञ्च यथा युक्त्या हस्तिहस्तन्तथैव च ।एवं समासतः प्रोक्तं मण्डपं विधिपूर्वकम् ॥११४॥प्राकारं परितः कुर्यात् प्रासादस्य प्रमाणतः ।भूमौ विन्यस्य विस्तारं प्रासादस्य सुनिश्चयम् ॥११५॥प्रासादस्य तु विस्तारं तस्य दण्डमिहोच्यते ।दण्डात्तेन कृतं यत्र त्वन्तर्मलसमैव हि ॥११६॥एकदण्डान्तर्भारा तु मध्यभाराद्विदण्डतः ।चतुर्दण्डप्रमाणेन कृत्वामय्यादिभित्तिकम् ॥११७॥महामय्यादिभित्तिः स्यात् सप्तदण्डप्रमाणतः ।पृष्ठे चैवाग्रतोप्यर्धं द्विगुणं त्रिगुणन्तु वा ॥११८॥चतुर्गुणं मुखायामं प्राकाराणां विशेषतः ।कपोतान्तं समुत्सेधं हस्तविस्तारभित्तिकम् ॥११९॥कूटशालायुतं वापि कूटशालान्तमेव च ।प्राकारेण समायुक्तं गोपुरस्य विधीयते ॥१२०॥मण्डले द्वारके वाथ द्वारशालान्तु भारके ।प्रासादं मध्यभारायां मय्यादौ हर्म्यमेव च ॥१२१॥गोपुरन्तु महामय्ये एवं पञ्चविधि स्मृतम् ।चतुर्दिक्षु च संयोज्याः प्राकाराणां पृथक् पृथक् ॥१२२॥केचिद् वै मालिकाकारा केचिद् वै गोपुराकृतिः ।विस्तारं द्वारशोभाया द्वित्रिपञ्चकरं भवेत् ॥१२३॥षट्सप्ताष्टनवकरैर्द्वारशाला प्रकीर्तिता ।एकादश त्रयोदश हस्तं प्रासादविस्तृतम् ॥१२४॥चतुर्दशपञ्चदश द्वारहर्म्यमिति स्मृतम् ।एकविंशस्त्रयोविंश द्वारगोपुरमुच्यते ॥१२५॥विस्तारद्विगुणायाममायामद्विगुणोच्छ्रयम् ।भौमोर्ध्वोत्तरसीमान्तं द्वारस्योच्छरयलक्षणम् ॥१२६॥तदर्धं विस्तारं प्रोक्तं अलङ्कारं विमानवत् ।प्राकारभित्तिमाश्रित्य कुर्यादावृतमण्डपम् ॥१२७॥तत्बाह्ये भ्यन्तरेवापि मालिका मण्डपं हि वा ।पञ्चप्राकारमेवं स्यात् परिवारालयं शृणु ॥१२८॥प्रासादस्य चतुर्थं वा तदर्धं वार्धमेव वा ।मातॄणामालयं कुर्यात् गोपुराकारमेव तु ॥१२९॥हस्ति पृष्ठन्तपप्रोक्तं प्रासादन्तु विशेषतः ।मेध्यन्तु पचनाकारञ्चतुःशालैकशालकम् ॥१३०॥प्राकारसंयुतङ्कृत्वा बाह्ये वा भ्यन्तरेपि वा ।पूर्वे तु पश्चिमे द्वारं पश्चिमे पूर्वतो मुखः ॥१३१॥प्. १५०) दक्षिणे चोत्तरद्वारमुत्तरे दक्षिणोन्मुखम् ।वह्नीशान स्थितं यत् तत् पश्चिमेद्वारमिष्यते ॥१३२॥नीलानिल स्थितञ्चैव पूर्वद्वारं प्रशस्यते ।वृषस्य मण्डपं तत्र चतुर्द्वारसमायुतम् ॥१३३॥प्रासादलक्षणं प्रोक्तं ततो मूर्धेऽष्टकां शृणु ।इति प्रासादलक्षणविधिपटल एकत्रिंशत्तमः ॥३१॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP