संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| वृषभस्थापनविधिपटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - वृषभस्थापनविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः वृषभस्थापनविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि वृषभस्थापनं परम् ।अन्तरावरणे देवाभिद्यते शिवशासने ॥१॥तेषु देवा स्थिते तस्मात् परिवारस्यवस्थता ।वृषभस्य सहस्रांशाभिद्यन्ते मूर्तयस्तदा ॥२॥त्रिविधं स्थापनं प्रोक्तं शैलं लोहंसुधामयम् ।लोहजं स्थानकेकार्यं शयने वा विशेषतः ॥३॥शिलासुता प्रकर्तव्यं शयने तु विचक्षण ।त्रिविधं तत्र कर्तव्यं सर्वसंपत्करं नृणाम् ॥४॥लोहजेन तु विघ्नेश कृतञ्चेदुत्तमं सृतम् ।शैलञ्चमध्यमं प्रोक्तं सुधाया चाधमं भवेत् ॥५॥वृषभस्य तदुत्सेधं द्वारमानेन वै शृणु ।द्वारोत्सेधञ्चतुर्थांशमर्धपादोनकं तथा ॥६॥समं वा द्विगुणं वापि त्रिगुणं वा विशेषतः ।तत्काले वृषभायामं द्विसप्तत्यङ्गुलं स्मृतम् ॥७॥चतुर्भागमुखं तत्र त्रिभागं नासिका तथा ।द्व्यङ्गुलन्तु तथा नेत्र मन्त्रः पादसुविस्तरम् ॥८॥शृङ्गायामं द्विभागन्तु तन्मूलं भागविस्तरम् ।तीक्ष्णाग्रौ तु प्रकर्तव्यौ चानुपूर्वात् क्रमेण तु ॥९॥कर्णायामं दशांगुल्यं तद्विस्तारं तदर्धता ।कला तु कर्णमूलं हि तदन्तश्च तदेव तु ॥१०॥त्रिभागं नेत्रयोर्मध्ये तद्वच्छ्रंगौ तु मध्यमम् ।अक्षिकर्णान्तरं भागं कर्णाच्छृङ्गान्तरं तथा ॥११॥द्व्यङ्गुलं नासिकाद्वारे तद्वक्रं भागमानतः ।जिह्वासौ दन्तपङ्ती च यथा युक्त्या च कारयेत् ॥१२॥अष्टादशाङ्गुलञ्चोरु तन्नाहं त्रिगुणं तथा ।जंघादशाङ्गुला ज्ञेया तदूर्ध्वे तु चतुष्कला ॥१३॥षडङ्गुलं ततः पादं तदर्धंखुरमुच्यते ।जंघायाः पश्चिमं पादं कलोर्ध्वन्तु कलाधिकम् ॥१४॥पुच्छं स्यादग्रमूलान्तञ्चतुरङ्गुलविस्तृतम् ।मध्यमं द्व्यङ्गुलन्तारमग्रमेकाङ्गुलं स्मृतम् ॥१५॥वृषणौ द्विकलायामौ विस्तारं स्याच्चद्व्यङ्गुलम् ।वृषस्यलक्षणं प्रोक्तं स्थापनं तस्य वै शृणु ॥१६॥लोह - - - - ञ्चैव विनाशैलेसुधामये ।जलाधिवासं शयनं सुधायाञ्च न कारयेत् ॥१७॥नेत्रेणमोचयं नेत्रं शयन - - - - ।दिक्पालकलशानष्टौ लोकपालाधिपास्ततः ॥१८॥वृषकुंभन्तु तन्मध्ये वृषभंगौः समावृतम् ।घण्डमालारवोपेतं श्वेतवर्ण महाद्युतिम् ॥१९॥नवपञ्चत्रयं वापि एकाग्निमथवा पुनः ॥२०॥शिवाग्निं पूर्ववत् कृत्वा मध्येचाहूयतद्वृषम् ।पूर्वोक्तमूलमन्त्रेण हुत्वा तत्र शताहुतिम् ॥२१॥शिवाङ्गैः शैवमन्त्रेण हृदयादीनिसंस्पृशेत् ।प्रभाते विमले तत्र पूर्णां हुत्वास्त्रमन्त्रतः ॥२२॥- - स्वनाममन्त्रेण कलशैरभिषेचयेत् ।वृषगायत्रि मन्त्रेण मध्यकुंभेनदेशिकः ॥२३॥गन्धपुष्पादिनायष्ट्वा मुत्गान्नं दापयेत् ततः ।वृषयागं ततः कृत्वा नवसप्ताहपञ्च वा ॥२४॥त्रयाहैकाह्नमेवाथ उत्सवं विधिचोदितम् ।प्रदक्षिणे वृषंपूर्वं कुर्यादन्यानि तत्समम् ॥२५॥वृषयागमिदं ख्यातं वह्नेः संस्थापनं शृणु ।इति वृषभस्थापनविधिपटल चत्वारिंशत्तमः ॥४०॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP