संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| लिङ्गप्रतिष्ठाविधिपटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - लिङ्गप्रतिष्ठाविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः लिङ्गप्रतिष्ठाविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि लिङ्गसंस्थापनं परम् ।सर्वसिद्धिकरं पुण्यं सर्वयज्ञफलप्रदम् ॥१॥लिङ्गसंस्थापनादन्यत् फलपाकं न विद्यते ।तस्मात् सर्वप्रयत्नेन लिङ्गसंस्थापने यतिः ॥२॥धामाधिष्ठानपर्यन्ते द्वारबन्धस्य पूर्वके ।मूर्ध्वेऽष्टकायां पूर्वे वा तलान्तेष्वथवा (-धवा)पुनः ॥३॥धामाङ्गानां समाप्तौ वा लिङ्गं सस्थापयेत् सुधी ।सुनक्षत्रे तिथौवारेसु योगेसुमुहूर्तके ॥४॥तत्पूर्वे वाङ्कुरं कृत्वा पञ्चसप्तनवाहके ।अङ्कुरादि प्रतिष्ठान्तमादिशैवेन कारयेत् ॥५॥कृत्वा कर्मकुटौ देशे लिङ्गेसूक्ष्माणि शिल्पिभिः ।शाणाभिर्घर्षयित्वा तु लिङ्गं पीथसमायुतम् ॥६॥इथे ७ नंबरचा श्लोक उपलब्ध नाही. प्रासादस्याग्रतः कुर्यान्मण्डपं नातिदूरतः ।अथवा दक्षिणे भागे सर्वालङ्कारसंयुतम् ॥८॥मध्यमे स्थण्डिलङ्कृत्वा तत्र लिङ्गन्तु विन्यसेत् ।सुवर्णलिङ्गं संग्राह्य हृदागैरिकया लिखेत् ॥९॥स्थूलरेखान्ततः कृत्वा शिल्पिना विधिचोदितम् ।पूजाभागन्ततः कृत्वा षोडशांशं समंबुधः ॥१०॥त्यक्त्वोर्ध्वे तु चतुर्भागं भागेन मुकुलं भवेत् ।त्रिभागैकं भवेदग्रं तन्मानं मूलविस्तृतः ॥११॥तन्मानमूलं तत् प्रोक्तं त्यक्त्वाधस्ताद्वियंशकम् ।रेखाद्वयन्तु नालं स्यात् तरोरर्धां शकान्तकः ॥१२॥पार्श्वे रुद्रौ समालिख्य मुकुलाद्याब्धिकान्तकम् ।तालान्तरत्रियंशेन तन्मूलादनुपूर्वशः ॥१३॥विभागोर्ध्वे तु परितः सूत्रौ पृष्ठे तु बन्धयेत् ।यवं वा पियवार्धं वा सूत्रनिम्नं विधीयते ॥१४॥सूत्राग्रे तु मुखं प्रोक्तं सुत्रसन्धौ तु पृष्ठकम् ।सूत्रपार्श्वन्तु तत्पार्श्वन्तमूलन्तस्य पद्मकम् ॥१५॥स्थापकः स्थपतिं पूज्य पश्चाच्छुद्धिं समाचरेत् ।अष्टमृत् पञ्चगव्यैश्च शुद्धतोयैर्विचक्षणः ॥१६॥ग्रामं प्रदक्षिणङ्कृत्वा देशिकः शिल्पिसंयुतम् ।कणमात्रे जलेशुद्धे प्रपाङ्कृत्वा विचक्षणः ॥१७॥वितान ध्वजमाल्यादि दर्भमालाभिरावृतम् ।वस्त्रैरावेष्टयेल्लिङ्गं दर्भैरावेष्ट्य यत्नतः ॥१८॥फलकायान्तु पीठे वा प्राक्च्छिरस्कन्तु शाययेत् ।ऊर्ध्वसूत्रं यथा कृत्वा पीठन्तत् पार्श्वयोस्ततः ॥१९॥कलशानष्ट संस्थाप्य रक्षार्थं परितस्तदा ।लोकपालाधिदैवत्यान् सकूर्चान्वस्त्र वेष्टितान् ॥२०॥पञ्चरात्रं त्रिरात्रं वा एकरात्रमथापि वा ।पञ्चगव्ये तु तल्लिङ्गमेकरात्रोषितं तथा ॥२१॥अथवा स्नापयेत् गव्यैराढकैस्तु पृथक् पृथक् ।आलयस्याग्रतो भागे मण्डपञ्चतुरश्रकम् ॥२२॥दशद्वादशहस्तं वा त्रयोदशकरं तु वा ।दशपञ्चकरं वापि विंशद्धस्तमथापि वा ॥२३॥षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् ।चतुस्तोरणसंयुक्तं दर्भमालासमावृतम् ॥२४॥वितानद्ध्वजसंकीर्णं पुष्पमालावलंबितम् ।नानावस्त्रैरलङ्कृत्य नानालङ्कारसंयुतम् ॥२५॥तन्मध्ये वेदिकां कुर्यात्त त्रिभागैकविस्तृतम् ।हस्तमानसमुत्सेधं दर्पणोदरसन्निभम् ॥२६॥तस्यैव परित कृत्वा कुण्डानि च विधानतः ।पूर्वे तु चतुरश्रन्तु याम्ये चैवार्धचन्द्रवत् ॥२७॥पश्चिमे वृत्तकुण्डन्तु उत्तरे पद्ममेव च ।योन्याकारं तथाग्नेय्यां त्रिकोणञ्चैव नै-ऋते ॥२८॥षट्कोणं वायुदिग्भागे ऐशान्यामष्टकोणकम् ।ऐशान इद्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ॥२९॥विस्तारे नवहोमस्यात् संक्षेपे पञ्चहोमकम् ।पञ्चाग्निच्छेन्महाशासु मूर्तिरीशे शिवाग्निकम् ॥३०॥गोमया लेपनङ्कृत्वा पिष्टचूर्णैरलकृतम् ।तस्यैवोत्तर पार्श्वे तु कर्तव्यं स्नानमण्डपम् ॥३१॥सप्ताष्टनवहस्तैर्वा कृत्वालङ्कृत्य पूर्ववत् ।स्नानवेदिन्तु तन्मध्ये स्वभ्रं सम्यक् तथोत्तरे ॥३२॥चतुरश्रं समङ्कृत्वा चतुस्त्रिनवहस्तकम् ।त्रिमेखलसमायुक्तमेकतालसमुन्नतम् ॥३३॥चतुस्त्रिद्व्यङ्गुलन्तारमथवा चैकमेखलम् ।उत्तरे जलमार्गञ्च मण्डपात् बाह्यनिर्गमम् ॥३४॥प्रासादे मण्डपे चैव ब्राह्मणान् भोजयेत् क्रमात् ।शिवव्रतधरांश्शुद्धान् शिवेभक्तिसमन्वितान् ॥३५॥ब्राह्मणोच्छिष्टमुद्वास्य गोमयालेपने कृते ।पुण्याहं वाचयित्वा तु ब्रह्मघोषसमावृतम् ॥३६॥प्रासादेवास्तु होमन्तु पूर्वोक्तविधिनाबुधाः ।दर्भैः पलाशपत्रैश्च शमीपिप्पलबिल्वकैः ॥३७॥पर्यग्निकरणं कृत्वा प्रासादमण्डपं क्रमात् ।संप्रोक्ष्य शिवमन्त्रेण पञ्चगव्यकुशोदकैः ॥३८॥शयनं कल्पयेद्विद्वान् शुद्धशालियवैः सह ।अष्टद्रोणमयं शालि तदर्धन्तण्डुलं तथा ॥३९॥तण्डुलार्धं तिलं प्रोक्तमब्जमालिख्यचार्चयेत् ।दर्भैरुपरिसंस्तीर्य पुष्पैर्लाजसमायुतम् ॥४०॥सदशाहत वस्त्रैश्च अण्डजादीनि कल्पयेत् ।अण्डजं मुण्डजञ्चैव रोमजं वा मजं तथा ॥४१॥चर्मजं शयनं पञ्चकल्पयेत् कल्पवित्तमः ।अण्डजञ्चेति जानीयात् पक्षिणां पिञ्छसंभवम् ॥४२॥कार्पासादि कृतं यत्तु मुण्डजञ्चेति तत्स्मृतम् ।आविकादि मृगाणान्तु रोमजं रोमजं भवेत् ॥४३॥कौशेयं वामजं प्रोक्तं सिंहव्याघ्रेण चर्मजम् ।चर्मजन्तु विजानीयादलाभे सतिबुद्धिमान् ॥४४॥पञ्चवक्त्रेण संभाव्य स्थण्डिलोपरियत्नतः ।पूर्वोक्त लक्षणैर्युक्तं त्वादिशैव कुलोद्भवः ॥४५॥शैवतन्त्रं विधानज्ञः समयाचारपालकः ।सुस्नात्वा चम्यविधिवत् भस्मस्नानमनन्तरम् ॥४६॥सर्वाभरणसंयुक्तः सूक्ष्मवस्त्रधरस्तथा ।शुक्लमाल्यानुलेपश्च शुक्लोष्णीषः सुवस्त्रभृत् ॥४७॥ईदृक् भूतः शिवश्वेतः सर्वकर्मसमाचरेत् ।चतुरश्रावसुवृत्ता वा तजापट्टिका स्मृताः ॥४८॥प्पट्टिकावेदिका मध्ये स्थापयेन्मन्त्रवित्तमः ।पञ्चगव्योषितं लिङ्गं शुद्धिं कृत्वा पुनः पुनः ॥४९॥दर्भमूले भदन्ताग्रे वराहस्य तु कर्षणे ।वल्मीके वृषङ्गाग्रे नद्यां वै पर्वते तथा ॥५०॥समुद्रे च समासेन मृदं ग्राह्यविचक्षणः ।अष्टमृत् सलिले नैव स्नानन्तत्र समाचरेत् ॥५१॥व्योमव्यापि सहस्रेण स्नात्वाद्भिस्तु पुनः पुनः ।पञ्चगव्येन संस्नाप्य गन्धपुष्पादिनार्चयेत् ॥५२॥मधुक्षीर घृताश्चैव सहिरण्यं सपुष्पकम् ।सौवर्णं रजतन्ताम्रमथवा काम्समेव वा ॥५३॥प्रत्येकं प्रस्थसंपूर्णं कृत्वा प्रात्रत्रये बुधः ।तैर्द्रव्यैर्बीजमन्त्रेण हेमसूच्या तु लेखयेत् ॥५४॥बध्वा प्रतिसरं पश्चात् स्वस्तिपुण्याह घोषणैः ।सौवर्णं राजतं वापि क्षौमं कार्पासजन्तु वा ॥५५॥लिङ्गमध्ये तु तां बध्वा पूजांशेन शिवेन वै ।शयने शाययेल्लिङ्गं प्राक्च्छिरच्छोर्ध्वक्त्रकम् ॥५६॥उत्तराच्छादनं वस्त्रैर्दर्भैश्चैव परिस्तरेत् ।हृदा सुगन्धपुष्पाद्यैः पूजयित्वा समाहिताः ॥५७॥पिण्डिकामधिवास्यैव लिङ्गवल्लिङ्गमूलतः ।दिक्षुतोरणकुम्भानि लोकपालाधिपानि तु ॥५८॥शकूर्चान् सा पिधानांश्च वस्त्रयुग्मसमावृतान् ।मङ्गलाङ्कुरसंयुक्तान् स्थापयेत् तु समं ततः ॥५९॥प्रधानकुम्भमादाय द्वात्रिंशत् सप्तपूरितम् ।बिंब प्रभा समोपेतं तदर्धं वर्धनीं तथा ॥६०॥सूत्रैरावेष्टयित्वा तु एकसूत्रे तु दोषकृत् ।त्रिसूत्रं शान्तिकं प्रोक्तं यवमानान्तरं स्मृतम् ॥६१॥सूत्रान् सूत्रान्तरं तत्र गन्धतोयैः सुपूरितम् ।वस्त्रयुग्मेन संवेष्ट्य सकूर्चं सा पिधानकम् ॥६२॥चूतपल्लव पुष्पैश्च वितानोपरिशोभितम् ।पञ्चरत्नन्तु कुम्भे च वर्धन्यां हेमसंयुतम् ॥६३॥प्. १७९) ब्राह्मणानां हितार्थन्तु सृक्स्रुवञ्च कमण्डलुम् ।क्षत्रियाणां हितार्थन्तु गजाश्वरथ सैनिकान् ॥६४॥वैश्यानान्तु तुला प्रोक्तं शूद्राणां युगलाङ्गलौ ।एतानि विन्यसेद् विद्वान् वर्धन्यां शिवकुम्भके ॥६५॥तरुणालय पूर्वे तु स्थापयेत् स्थण्डिलोपरि ।बाललिङ्गगतं देवं कुम्भे विन्यस्य बुद्धिमान् ॥६६॥तस्य पीठगतां देवीं वर्धन्यान्तु समावहेत् ।विद्येश्वराधिपानष्टौ वस्त्रहेमास्त्रसंयुतान् ॥६७॥कूर्चाक्षतवितानास्यान् फलपल्लवशोभितान् ।शिवकुम्भस्य परितः संस्थाप्यकलशान् बुधः ॥६८॥विद्येश्वरान् परीवारान् द्वारपालादिदेवताः ।तत्तत् कुम्भे समाहूय तत्तन्मन्त्रेण मन्त्रवित् ॥६९॥रात्रौ होमन्तु कर्तव्यं सर्वमन्त्रैः पृथक् पृथक् ।तरुणं लिङ्गमुत्थाप्य शैवा लौघे जले क्षिपेत् ॥७०॥दारुजञ्चाग्निनादग्धमथवाप्सु विनिक्षिपेत् ।शिवशक्तिञ्च विच्छेद्ये शाच्छिरोधार्य यत्नतः ॥७१॥पिञ्छचामरसंयुक्तं छत्रध्वजवितानकैः ।कुर्याच्छब्दं महाघोषैर्नृत्तगेय समायुतैः ॥७२॥प्रदक्षिणं विमानन्तु कृत्वा वर्धनिधारयेत् ।वेदिकायामथैशाने स्थापयेत् स्थण्डिलोपरि ॥७३॥शिवं ब्रह्माङ्गविद्याङ्ग विद्येश्वरगणेश्वरान् ।लोकपालास्त्रसंयुक्तान् समन्त्रैरेव पूजयेत् ॥७४॥गेयनृत्तसमायुक्तं वाद्यध्वनिसमायुतम् ।ऋग्यजुः सामाधर्वांश्च पूर्वाद्यध्ययनं तथा ॥७५॥जपस्तोत्र समायुक्तं ततो होमं समाचरेत् ।पूर्वोक्त विधिनाहुत्वा कुण्डेष्वेतेषु बुद्धिमान् ॥७६॥सर्वद्रव्यं समानं स्यात् समिधस्तु पृथक् शृणु ।शमीद्ध्मं पूर्वदिग्भागे आग्नेय्यान्तु वटं तथा ॥७७॥याम्ये वै कंकतञ्चैव प्लक्षं नै-ऋतिगोचरे ।अश्वत्थं वारुणे भागे औदुंबरमथानिले ॥७८॥बिल्वं वै सौम्यदिग्भागे ह्यर्कमीशानगोचरे ।एवं सर्वाग्निकुण्डानां शिवाग्नेस्तु पलाशकम् ॥७९॥विद्याङ्गैश्च शिवाङ्गैश्च हुत्वालिङ्गन्तु संस्पृशेत् ।प्रत्येकं तु शतं साज्यं स्पर्शाहुतिमथाचरेत् ॥८०॥शिवोहमिति संभाव्य हुत्वायत्नाच्छिवात्मिकम् ।आकाशो वायुरग्निश्च जलभूमिं दुरेव च ॥८१॥सूर्यात्ममूर्तयश्चाष्टौ भवादिमूर्तिधारकाः ।भवः शर्वः पशुपति रुग्रोरुद्रस्तु भीमतः ॥८२॥महानीशश्च विख्यातो मूर्तिधाराः प्रकीर्तिताः ।कुण्डेष्वग्निं प्रतिष्ठान्तं संरक्ष्येन्धनपूर्वकैः ॥८३॥प्रभाते सुमुहूर्ते तु रत्नन्यासं समारभेत् ।एकविंशतिभिर्भागैर्द्वारतारं विभज्य वै ॥८४॥मध्यमांशं षडंशन्तु सविभज्य द्विभागिकम् ।वामे व्यपोह्य यत् सूत्रं ब्रह्मसूत्रमिति स्मृतम् ॥८५॥तन्मध्ये स्थापयेल्लिङ्गं तन्मध्ये स्थापयेच्छिवम् ।अन्यथा स्थापिते लिङ्गे नृपराष्ट्राहितावहम् ॥८६॥आदौ कूर्मशिलां न्यस्त्वा ब्रह्मभागान्वितां दृढाम् ।न्यसेत् ब्रह्मशिलामूर्ध्नि नन्द्यावर्तशिलान्विताम् ॥८७॥स्थलं सम्यक् प्रकुर्वीत स्नेहद्रव्यान्वितं दृढम् ।माणिक्कञ्चैव वैडूर्यं निलं मरकतं तथा ॥८८॥मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् ।एतानि नवरन्तानि मध्यमादिविनिक्षिपेत् ॥८९॥यवनीवारमुद्गाञ्च तिलं वै सर्षपं तथा ।शालिप्रियङ्गुश्यामाश्च कुलुत्थो नवबीजकम् ॥९०॥हरितालं तथा श्यामं चन्दनञ्चमनः शिलाम् ।सौराष्ट्रं पारतं सीसं गैरिकं हेममाक्षिकम् ॥९१॥एवं स्मृत्वा क्ष्पेद्विद्वान् प्राणधात्विंद्रियादिके ।रत्नानि प्राणसंज्ञानि सुबीजानींद्रियाणि च ॥९२॥धातूनिधातवः प्रोक्ता बीजमुख्येन विन्यसेत् ।गन्धपुष्पादिनाभ्यर्च्य नन्द्यावर्तशिलां न्यसेत् ॥९३॥शयनाल्लिङ्गमुत्थाप्य त्यक्त्वा पर्युषितानि च ।अर्घ्यं दत्वा यथा न्यायं हृदयेन स पुष्पकम् ॥९४॥पश्चिमाभिमुखं कृत्वा लिङ्गं वै तु हृदा बुधः ।आचार्यमूर्तिपांश्चैव अध्ये तॄन् परिचारकान् ॥९५॥दैवज्ञं मन्त्रजप्तृंश्च महेः पूज्यो यथार्हकैः ।आचण्डालमथां नाद्यं कारयेच्छक्तितः क्रमात् ॥९६॥रथो परिस्थितं लिङ्गं प्रासादन्तु प्रदक्षिणम् ।आचार्योग्रन्तु संस्पृष्ट्वा मूर्तिपास्तु स्वकादिशम् ॥९७॥कर्तामुलन्तु संस्पृष्ट्वा चाग्रे वर्धनिधारया ।कृत्वा प्रदक्षिणं देवं स्थित्वाद्वारसमीपके ॥९८॥गन्धपुष्पादिनाभ्यर्च्य अर्घ्यं दत्वा हृदाबुधाः ।ततः प्रवेशयेल्लिङ्गं गर्भगर्ते सुखं यथा ॥९९॥सुमुहूर्ते सुलग्ने च नक्षत्रकरणान्विते ।ध्यात्वा सदाशिवं देवं मूलमन्त्रमनुस्मरन् ॥१००॥लिङ्गं संस्थापयेत् तत्र किञ्चिदीशानमाश्रितम् ।नन्द्यावर्तशिलाभिस्तु बध्वापीठन्तु योजयेत् ॥१०१॥स्वयोनिं पीठमुख्यन्तु अवा चैवाष्टकं दृढम् ।स्थपतौ बुद्धिमात्रेण स्थापकस्तु समाचरेत् ॥१०२॥अष्टबन्धं ततः कृत्वा जतुगुल्गुलु सिद्धियुक् ।सर्जञ्च स्फटिकञ्चैव शर्करा कुरु विन्दकम् ॥१०३॥तैलं वै चाष्टसंमिश्रं दग्ध्वाचक्कणवत् बुधः ।लिङ्गपीठान्तरे क्षिप्त्वा सुदृढञ्च समं ततः ॥१०४॥पूजांश षोडशांशैक विस्तारेण समं ततः ।तत्पादमुच्छ्रयं प्रोक्तमष्टबन्धमिदं मतम् ॥१०५॥लिङ्गपीठान्तरं स्निग्धं वज्रबन्धेन वा पुनः ।आचार्यस्तु पुनस्नात्वा मन्त्रसन्नद्धविग्रहः ॥१०६॥पुण्याहं वाचयित्वा तु स्नापयेत् पञ्चगव्यकैः ।गन्धपुष्पादिनापूज्य क्ल्पयित्वा तथा सनम् ॥१०७॥आवाह्याराध्यमन्त्रज्ञः सकलीकरणं शिवम् ।मन्त्रसन्तर्पणं कृत्वा पूर्णाहुतिमथाचरेत् ॥१०८॥कुम्भपूजां विशेषेण कृत्वा विज्ञाप्यपूर्वकम् ।आचार्यं पूजयेत् तत्र यथा विभवसंयुतम् ॥१०९॥उष्णीषमुत्तरीयञ्च परिधानं तथैव च ।हेमाङ्गुलीयकैश्चैव गन्धपुष्पं तथैव च ॥११०॥मकुटं कुण्डलञ्चैव हारकेयूरकं तथा ।कटकं कटिसूत्रञ्च आचार्यस्य प्रदापयेत् ॥१११॥आचार्यदक्षिणा हेमकन्यसं दशनिष्ककम् ।मध्यमं द्विगुणं तस्य उत्तमे त्रिगुणं भवेत् ॥११२॥एवं संपूज्यविधिवत् सवत्साङ्गाश्चदापयेत् ।आचार्यमनसस्तुष्टिर्देवस्य प्रीतिकारणम् ॥११३॥मूर्तिपानां पृथग्वस्त्रैर्हेम निष्कं च दापयेत् ।होमशेषं ततो नेयं हृदयेन विचक्षणः ॥११४॥कुम्भस्थ देवदेवेशं विज्ञाप्य विधिपूर्वकम् ।आचार्यः कुम्भमुत्थाप्य शिष्येनोत्थाप्य वर्धनीम् ॥११५॥मूर्तिपैस्त्वथकुम्भानि प्रासादन्तु प्रदक्षिणम् ।विश्रम्यद्वारदेशे तु दद्यादर्घ्यं हृदागुरुः ॥११६॥ततः प्रविश्यतल्लिङ्गमुत्तराभिमुख स्थितः ।त्रिपादिकायामुपरि विन्यस्त्वा शिवकुम्भकम् ॥११७॥षडध्वासनं तु संकल्प्य लिङ्गमुद्रां प्रदर्शयेत् ।पुष्पगन्धस्तिलेतैलं यद्वत् तद्वत् स्थित प्रभुः ॥११८॥कुम्भस्थ देवदेवेशं लिङ्गमध्ये तु योजयेत् ।शिवमन्त्रं समुच्चार्य शिवमात्मनि भावयेत् ॥११९॥तज्जलेनाभिषेकं यत् तल्लिङ्गे प्राण उच्यते ।तच्छक्ति व्यापकं स्मृत्वा तद्वच्छक्तिन्तु पीठके ॥१२०॥सर्वावरणदेवांश्च पूर्ववत् संप्रकल्प्य वै ।कलशस्थानथावाह्य तज्जलेनाभिषेचयेत् ॥१२१॥गन्धपुष्पञ्च धूपञ्च दीपं दत्वा यथा क्रमम् ।द्वारपालादि पीठान्तं परिवाराण्यशेषतः ॥१२२॥तत्तत् कुम्भगतां देवां तत्तत्स्थाने निवेशयेत् ।पायसं कृसरं गौल्यं मौद्गंशुद्धां न मेव च ॥१२३॥पञ्चवर्णहविर्दद्यात् परिवारबलिं तथा ।उत्सवं कारयेत् तत्र सायादिविधिपूर्वकम् ॥१२४॥प्रतिष्ठाविधिरेवोक्ता ततः संप्रेक्षणं शृणु ।प्रतिष्ठाविधिना सर्वं कर्तव्यं युक्तितः क्रमात् ॥१२५॥पूर्ववद्वेदिका मध्ये कुंभानिविधिवं न्यसेत् ।कुम्भसंस्थापनात् पूर्वे लिङ्गशुद्धिं विशेषतः ॥१२६॥पिण्डिकाञ्च स्थलञ्चैव पञ्चशुद्धि क्रमेण तु ।सर्वगन्धैर्विलिप्याथ वस्त्रैरेवा वकुण्ठयेत् ॥१२७॥संप्रोक्षणाह्वये नैव पुरोवाहनकं तथा ।एकलिङ्गविधिस्त्वेषा पञ्चलिङ्गविधिं शृणु ॥१२८॥मध्ये सदाशिवं स्थाप्य पुरुषं पूर्वतः तथा ।अघोरं दक्षिणे स्थाप्य सद्यं पश्चिमतः तथा ॥१२९॥उत्तरे वा देवञ्च अथकोणेषु वा बुधः ।कोणेषु च महादिक्षु संवीक्ष्याथ सदाशिवम् ॥१३०॥पृथक् पृथक् विमानानि शेषकर्म च पूर्ववत् ।पञ्चलिङ्गविधिर्येषा नवलिङ्गविधिं शृणु ॥१३१॥तेषां विमानं पूर्वोक्तं अष्टदिक्षुविधीयते ।सदाशिवं समीक्ष्यैव दिशासु विदिशासु च ॥१३२॥नवलिङ्गविधिप्रोक्तं सहस्राणां विधिं शृणु ।मध्ये सदाशिवं प्राग्वद्विद्येशानां पृथक् पृथक् ॥१३३॥चतुर्विंशच्च तल्लिङ्गं विद्येशानावृतं बुधः ।सादाख्यस्य वदन्येषां नामरूपाणि कीर्तिताः ॥१३४॥तत्तत् स्वनाममन्त्रेण संस्थाप्य विधिचोदितः ।अष्टा हे षोडशाहे वा मासे वा विधिपूर्वकम् ॥१३५॥एकलिङ्गविधौ यद्वत् तद्वत् सर्वं समाचरेत् ।सादाख्यं लिङ्गरूपेण अन्वलिङ्गन्तु नेष्यते ॥१३६॥एवं यः कुरुते मर्त्यः शिव सा युज्यमाप्नुयात् ।लिङ्गसंस्थापनं प्रोक्तं सकलानां विधिं शृणु ॥१३७॥इति लिङ्गप्रतिष्ठाविधिपटलः सट्त्रिंशत्तमः ॥३६॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP