संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| मन्त्रोद्धार पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - मन्त्रोद्धार पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः मन्त्रोद्धार पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि मन्त्रोद्धारविधिं परम् ।सर्वसिद्धिकरं श्रेष्ठं सर्वकामप्रदायिकम् ॥१॥मननं सर्ववेदित्वं त्राणं संसारसागरात् ।मननत्राणधर्मित्वां मन्त्र इत्यभिधीयते ॥२॥शिवं ब्रह्माङ्गविद्येशान् गणेशान् लोकपालकान् ।अस्त्रान्विद्याङ्गमेवन्तु बीजार्णक्षुरिकां तथा ॥३॥पृथिव्यादीनि बीजानि बीजब्रह्मं पुरोक्तकम् ।पिण्डमन्त्रं कलामन्त्रं पञ्चब्रह्मञ्च रुद्रकम् ॥४॥वक्ष्यते सविशेषेण तच्छृणुष्व गजानन ।योसौ परापरो देवः सर्वज्ञः सर्वदाविभुः ॥५॥निष्कलन्तु परब्रह्मं तस्माच्छक्ति द्वयं भवेत् ।तद्द्वयं निष्कलं प्रोक्तं तस्मान् नादसमुद्भवः ॥६॥तस्मात् बिन्दु समुत्पन्नं तस्माद् योनिसबीजकम् ।अकारादिविसर्गान्तं बीजं तत् षोडशाक्षरम् ॥७॥त्रयस्त्रिंशाक्षराः शेषा योनयश्चाव्ययात्मिकाः ।तेषु तन्त्राः समुत्पन्नास्तेषु मन्त्राः समुद्भवाः ॥८॥तस्य वाचकमन्त्राणांस्तैरेवाभि न विद्यते ।दशबीजमिदं मन्त्रं सर्वमन्त्रेषु कथ्यते ॥९॥ओंकारं प्रथमंबीजमाकारन्तु द्वितीयकम् ।त्रितीयं बीजमीकारं सर्वकारक कारणम् ॥१०॥चतुर्थं बीजमूकारं व्योकारं पञ्चमं भवेत् ।मकारं षष्ठमेवं स्याद् व्याकारं सप्तमं तथा ॥११॥पिकारमष्टमं बीजन्नेकारं नवमं स्मृतम् ।ओंकारं दशमं बीजं सर्वात्मा चैव विश्रुतम् ॥१२॥एत देव प्रबोद्धव्यं शिवेन परिभाषितम् ।शिवमन्त्रमिदं प्रोक्तं तस्य लक्षणमुच्यते ॥१३॥सदाशिवं तत्व संस्थं प्रत्यक्षं सर्वतोमुखम् ।इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ॥१४॥कर्णिका केसरैर्युक्तं तत्रस्थन्तु सदाशिवम् ।पञ्चमूर्द्धं चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ॥१५॥चतुरास्यञ्चतुर्नासं वसुश्रोत्रञ्चतुर्गलम् ।दशभुजन्तनूरेका द्विपादं पद्मसंस्थितम् ॥१६॥शुद्धस्फटिकसङ्काशं सूर्यकोटिसमप्रभम् ।चन्द्रांशु हिमशीतञ्च सर्वाभरणभूषितम् ॥१७॥शुक्लांबरधरन्देवं शुक्लयज्ञोपवीतिनम् ।अभयं शूलपरशुं वज्रखट्गञ्च दक्षिणे ॥१८॥खेटकं चांकुशं पाशं घण्टावह्निञ्च वामके ।मनोन्मनीं तस्य वामे पञ्चावरणमध्यगाम् ॥१९॥एवं सदाशिवं ध्यायेत् सर्वपाप निकृन्तनम् ।इदं रूपं सदाध्येयं सर्वकर्मफलप्रदम् ॥२०॥एतत् सदाशिवं रूपमुमेशस्य शृणुष्व हि ।मम रूपप्रभेदोस्ति चैक वक्त्रञ्चतुर्भुजम् ॥२१॥शिवमन्त्रमितिख्यातं ब्रह्माङ्गञ्च ततः शुणु ।प्रथमात् पञ्चबीजादि ब्रह्माङ्गं प्रधितानि वै ॥२२॥शुक्लं रक्तं तथाश्यामं कुङ्कुमं क्षीरसन्निभम् ।पञ्चानां पञ्चवर्णानि पञ्चब्रह्ममिहोच्यते ॥२३॥रशामिषर्पपर्यन्तं शिवाङ्गञ्चेति कीर्तितम् ।इन्दु धूम्रौ तथा किञ्चिद् धूम्र कृष्णं रवेर्निभम् ॥२४॥तमोरूपं सुविज्ञेयं सूर्यकोटि शिवास्त्रकम् ।शिवाङ्गास्त्रस्य पर्यायमघोरास्त्रं प्रकीर्तितम् ॥२५॥एकाक्षरसमायुक्तमोङ्कारादिनमोन्तकम् ।अस्त्रं विसर्गसंयुक्तमन्ये बिन्दुसमायुताः ॥२६॥शेषा प्लुतसमायुक्ताः शिवाङ्गाश्च प्रकीर्तिताः ।ब्रह्माङ्गाश्च यथा प्रोक्तास्तेषां रूपमिहोच्यते ॥२७॥त्रिणेत्रञ्चतुर्भुजं सौम्यं सर्वलक्षणसंयुतम् ।हारकेयूर संयुक्तं सर्वाभरणभूषितम् ॥२८॥तेषां रूपं मयाप्रोक्तं विद्येशंलक्षणं शृणु ।द्वितीयादि नमोन्ताश्च विद्येशानां प्रकीर्तितम् ॥२९॥जपा पुष्प प्रभोनन्तो नीलवर्णन्तु सूक्ष्मकम् ।शिवोत्तमोथकुन्दाभो बन्धूकं चैकनेत्रकः ॥३०॥पद्माभमेकरुद्रस्य रक्ताशोक स्त्रिमूर्तिभिः ।नीलोत्पलाभ श्रीकण्ठः शिखण्डी चाञ्जनः प्रभः ॥३१॥अनन्तादिशिखण्ड्यान्ताश्चाष्ट विद्येश्वरा स्मृताः ।तेषां हृदोपचारन्तु ओंकारद्वयमेव हि ॥३२॥पूर्वोक्तलक्षणोपेतं तेषां रूपं ततोमतः ।गणेशलक्षणं वक्ष्ये शृणु तत्वङ्गजानन ॥३३॥एकारादि द्वितीयान्तं गणेशानान्तु बीजकम् ।जाम्बूनदमयिदेही चण्डो वै सूर्यसन्निभः ॥३४॥नन्दीशः पद्मरागस्तु कालोमरतकप्रभः ।वृषभः शारदाभ्राभो गणेशः पद्मसन्निभः ॥३५॥भृङ्गीश श्वेतवर्णस्तु रक्तवर्णस्तु षण्मुखः ।देव्यादि षण्मुखान्ताश्च विज्ञेयास्ते गणेश्वराः ॥३६॥तेषां हृदुपचारन्तु ज्ञेयं विद्येशवत्पुरा ।इन्द्रादिलोकपालानां शृणुमन्त्रङ्गजानन ॥३७॥दशबीजं ततः प्रोक्तं पूर्वादिक्रमयोगतः ।इन्द्रस्तु पीतवर्णः स्यात् पिङ्गवर्णस्तु पावकः ॥३८॥कृष्णवर्णोयमः प्रोक्तो नि-ऋतिर्धूम्रवर्णकः ।वरुणः शुक्लवर्णस्तु वायुर्वै पीतवर्णकः ॥३९॥सोमस्तु हिमसङ्काशस्त्वीश स्फटिकसन्निभः ।ज्वालाविद्युदनं तस्य ब्रह्मणश्चेन्द्रकोपकः ॥४०॥तेषां रूपं पृथक् प्रोक्तं मन्त्राणां लक्षण शृणु ।दशाभि प्रथमान्तञ्च मन्त्रमुच्चार्यते क्रमात् ॥४१॥नानावर्णमयं वज्रं शक्तिर्विद्युत् प्रभासिकाः ।दण्डश्च नीलजिमूतः खड्गोनीलोत्पल प्रभः ॥४२॥पाशः पावक सङ्काशश्चांकुशं पद्मरागभाक् ।गदा तु षारवर्णा तु इन्द्रनील स्त्रिशूलकः ॥४३॥अतसी कुसुमश्चक्रः पद्मस्तत् भास्करप्रभः ।भूतानां शिरसश्चोर्द्ध्वे आयुधानि प्रकल्पयेत् ॥४४॥शिवबीजमिदं मध्ये शिवब्रह्माङ्गमेव च ।विद्येशाश्च गणेशाश्च लोकपालास्त्रसंयुतम् ॥४५॥मन्त्रं रूपं तथा वर्णं प्रोक्तादश विशेषतः ।दशबीजाच्च ये चान्ये क्रमान्नागानन शृणु ॥४६॥विद्याङ्गलक्षणं ब्रूमो नेत्रेण तु समायुतम् ।सप्ताष्ट पञ्चमात्रन्तु गुणवर्णा यथा क्रमात् ॥४७॥ओङ्कारादि प्रशान्ताय नमोहृद्युक्त वर्णकम् ।ओं प्रणवात्मं नमोनमः शिरस्फटिकसन्निभम् ॥४८॥शिखायहुं प्रणवादि शिखाचैवाञ्जन प्रभा ।हुङ्कारस्तु तथा वर्म पद्मपत्रेणसन्निभम् ॥४९॥फट्कारमिहशस्त्रं स्यात् सूर्यकोटिसमप्रभम् ।एतत् पाशुपतास्त्रञ्च ईषट्करालदंष्ट्रकम् ॥५०॥ओं जिह्वासं स्मृता नेत्रमरुणाभं ततो विदुः ।पूर्ववद् रूपमेतेषां शक्तिबीजं तत शृणु ॥५१॥ओं भॄं जॄं क्ष्मॄं शक्तिमन्त्रं स्यात् बीजमुख्यन्तु देवता ।तप्तकाञ्चन वर्णाभा रूपलक्षणमुच्यते ॥५२॥चतुर्भुजा त्रिणेत्रा च सर्वालङ्कारसंयुता ।नितम्बतटविस्तीर्णा मध्यक्षामा स्तनोन्नता ॥५३॥एवं लक्षणसंयुक्ता आदिशक्तिर्मनोन्मनी ।शक्तेस्तु लक्षणं प्रोक्तं क्षुरिकास्त्रं ततः शृणु ॥५४॥ओश्चिपिखीचिदक्षि उत्क्षुरिकामन्त्रमुत्तमम् ।विशुद्धस्फटिकाकारं क्षुरिकास्त्रञ्चतुर्भुजम् ॥५५॥विद्याङ्गास्त्रं शिवाङ्गास्त्रं अघोरास्त्रं त्रितीयकम् ।शिवाङ्गास्त्र द्विधा चैव शिवशस्त्रं तथैव च ॥५६॥सर्वात्मा ज्ञानहृदयं विद्याङ्गाद् योगजं स्मृतम् ।भूतजं हृदयं घोरं हृदयन्तु त्रिधा भवेत् ॥५७॥सृजेत भूतजेनैव योगजेन तु सम्हरेत् ।ज्ञानेन मोक्षदं प्रोक्तमित्येवन्तु मनीषिणाम् ॥५८॥पृथिव्यादीनि बीजानि लवरय्यहकारकाः ।ब्रह्माख्यां पूर्ववत् ब्रह्ममेवञ्चैव तत शृणु ॥५९॥प्रथमं ब्रह्मबीजं सात् द्वितिय्यं पिण्डमन्त्रकम् ।कलामन्त्रं तृतीयन्तु ब्रह्ममेतत् त्रिधा मतम् ॥६०॥ब्रह्मबीजेष्वयत् ब्रह्म बीजब्रह्ममिहोच्यते ।सद्यादीशानपर्यन्तं वक्ष्यमाणं विधानतः ॥६१॥पिण्डमन्त्रमिति ज्ञेयं कलामन्त्रं ततः शृणु ।सद्यः कलाभिरष्टाभिर्वामदेवस्त्रयोदश ॥६२॥अघोराष्टकलाष्टाभिश्चतुर्भिश्चैव वक्त्रकम् ।ईशानं पञ्चधा भित्वा कल्पयेत् तु विचक्षणः ॥६३॥अष्टत्रिंशत्कला ह्येवं कला ब्रह्मन्तु कथ्यते ।ब्रह्मरुद्रौ प्रवक्ष्यामि चक्रं न्यसाक्षरक्रमात् ॥६४॥मण्डपं कारयेत् तत्र नवहस्तप्रमाणतः ।प्रपां वा कल्पयेद् विद्वान् द्वादशस्तम्भसंयुतम् ॥६५॥वितानं ध्वजसंयुक्तं भूषितं धूपदीपकैः ।मण्डपस्य तु तन्मध्ये चक्रं कुर्याद् विशेषतः ॥६६॥पूर्वापरेण मार्गेण युग्मसूत्रं प्रपातयेत् ।दक्षिणोत्तरमार्गेण तद्वत् सूत्रं प्रपातयेत् ॥६७॥सप्ताङ्गुलान्तरं ज्ञेयं मानाङ्गुलेन कारयेत् ।षोडशाङ्गुलमानेन मध्ये वृत्तं प्रकल्पयेत् ॥६८॥तन्मद्ध्येऽष्टदलं पद्मं तत् बाह्ये षोडशं दलम् ।तत् बाह्ये भ्रामयेद् विद्वान् संवीक्ष्य वरणङ्क्रमात् ॥६९॥पञ्चाङ्गुलान्तरं तेषां द्वाराग्रे शूलमुल्लिखेत् ।बाह्यविधौ न्यसेद् धीमान् त्रयस्त्रिंशच्च देवताः ॥७०॥बाह्यवास्तुपदे युक्ता देवान् सङ्कल्प्य तत्र वै ।खट्गखेटकसंयुक्तान् वास्तुदेवान् न्यसेत् क्रमात् ॥७१॥रक्तवर्णनिभान् देवान् हृदयेऽञ्जलिसंयुतान् ।परितः कल्पयेत् तत्र एकैकान्तरितः क्रमात् ॥७२॥ब्रह्माक्षरान् महाशासु रुद्रार्णानि दिशासु वै ।प्रागाद्युत्तरपर्यन्तं दिक्षु ब्रह्मं समुद्धरेत् ॥७३॥आग्नेय्यां दिशिकोणान्तं रुद्रमन्त्रं समुद्धरेत् ।ब्रह्मरुद्रक्रमेणैवं विन्यासञ्च ततः शृणु ॥७४॥ब्रह्मसूत्रं न्यसेत् तत्र सितेन रजसा पुनः ।नानावर्णविमिश्रेण भ्रामयेत् ब्रह्मसूत्रकात् ॥७५॥रक्तेन धातुना वर्ग प्रस्तरेदक्षराणि वै ।यवर्गादष्टमं बीजं तेजोबीजसमायुतम् ॥७६॥चतुर्दश स्वरोपेतं बिन्दुनादसमन्वितम् ।ब्रह्महत्यादिकं पापञ्जप्तमात्रेण नश्यति ॥७७॥इदं प्राणदमुद्धृत्य कर्णिकायां विशेषतः ।प्राक् दले प्रणवं न्यस्त्वा द्याकारं तस्य दक्षिणे ॥७८॥पप्रगच्छोश्च सद्योसौ न्यसेद् अष्टदलाब्जके ।सद्योजाश्च तथा तश्च पृच्छिपश्च ततः पुनः ॥७९॥जाकाराश्च इमेसर्वे पूजाद्यब्ददले न्यसेत् ।मकारञ्च सकारञ्च गोकारञ्च तथा पुनः ॥८०॥जातायश्च तथा वै नं स्थवसर्गोयमेव च ।भाश्च वे च तथा भश्च चेतना च तथातिभम् ॥८१॥मिकारमिन्द्रदिक् पात्रे भतीनावे भवेगमः ।न वै वताजान्योसाश्च न्यासेत् षोडशदिक् दले ॥८२॥प्रदक्षिणक्रमादेवमन्वेष्वा वरणेषु च ।जश्च भश्च तथा पेचमश्चप्यो च तमोक्षरः ॥८३॥खकारश्च विकारश्च खकारोमा तथैव च ।काच पश्च तथा पोच ह्योचरे कारयेव च ॥८४॥मुश्चयश्च तथा द्राच रुद्रः शन्नोत एव च ।पश्च धिश्च तथा गाश्च पूर्वादीनि प्रदक्षिणम् ॥८५॥चतुर्विंशति मे प्रोक्ता प्रथमावरणे क्रमात् ।नश्च माश्च तथा स्वश्च व्यश्च दिश्च ततः पुनः ॥८६॥ने च पश्च तथाव्या च पश्चना चर एव च ।बालबाधपराश्चैव रश्चघोचर एव च ॥८७॥स्रश्च विश्चककारश्च षश्च पिश्च तथैव च ।चोश्च प्रश्च तथा द्रश्च मुश्च प्रश्च श एव च ॥८८॥एत चश्च द्वितीये तु द्वात्रिंशद्वर्णमुच्यते ।स विसर्गोमकारस्तु रवतावाक्षरान्य हुः ॥८९॥तत् बाह्ये षोडशदले भश्च मोचय एव च ।पाच रूच क्वकारश्च रिकारश्च च एव च ॥९०॥बश्च मोच तथा नश्च मश्च पामस्तथैव च ।मोकारश्च मलो चैव सविसर्गोह्य एव च ॥९१॥रेतौ निश्च तथाद्याश्च निश्चयश्च त आयतः ।शिकारः प्रणवश्चैव याच्चदश्च तथैव च ॥९२॥सविसर्गे ककारस्तु तेधमाश्च प्रपञ्च च ।षट्त्रिंशदक्षरा प्रोक्ता स्त्रितीया वरणे ततः ॥९३॥नश्च वाच ततो दीप नाधा प्रश्च जनेऽपि वा ।व्याश्चर्वश्च समौ प्रश्च लकारोभुक्तिरेव च ॥९४॥निश्चयश्च तथा द्राश्च ओष्ठ ज्येकार एव च ।सविसर्गन्त कोरस्तु मश्चसश्चम आयते ॥९५॥ण्यश्चरश्च तथा हिश्च मोचनश्चध एव च ।त्याकारश्च न कारश्च ईकारश्च त एव च ॥९६॥तश्च भूश्च नवौभानौ वश्चभश्च तथैव च ।चतुर्था वरणेह्यत्र चतुश्चत्वारिंशदक्षरम् ॥९७॥यश्च वा च तथा देश्च माद्योवाश्च तथैव च ।पादोहामाश्चयश्चैव वा कारश्च शि एव च ॥९८॥स विसर्गोमकारश्च न कारः प्रणवस्ततः ।यधौ नाधाब्द शाश्चैव शब्दासाः स विसर्गमः ॥९९॥तश्चणे च विरूकारौ हुकारो बश्चयः ततः ।ह्याकारौ सर्वकारौ च शश्चरश्च त आयतः ॥१००॥तु हे सेच्च च कारश्च लकारश्च न एव च ।लकारश्च निकारश्च स्वराद्योह्हेविस्तथा ॥१०१॥रेफ पूर्वोपकारस्तु सश्चद्यश्चपि एव च ।न्याकरोपित्तिशाश्चैव त्याच शश्च व एव च ॥१०२॥वकारोव्यो च भव्यौ च भकारश्च ततोन्ततः ।अष्टषष्ट्य क्षराः प्रोक्ताः पञ्चमावरणे तथा ॥१०३॥ज्येकारश्च तथा मोश्च नश्चदापदपास्तथा ।यच्च पाकृति पच्चैव कानेचाद्यस्वरस्तथा ॥१०४॥यश्च आयसकारश्च हार्गसा स विसर्गमम् ।न च जोश्च तथा तेजसौ जाते कार एव च ॥१०५॥ऐकारश्च विकारश्च ऊकारश्च तथा पुनः ।रेफ पूर्वशकारश्च सच्चयश्च ततः पुनः ॥१०६॥रेफ पूर्वे तु दीर्घस्तु स्पश्चणे च विरू ततः ।न ह्योर्वे घोततीं ताशा ताश्चशा च ततः पुनः ॥१०७॥दीर्घरेफौ पकारश्च रश्च पश्चतिथौ ततः ।णामिनाभ्याश्च श्लिंश्चैव शीं श्लीं कारस्तथैव च ॥१०८॥प्रणवश्च शकारश्च देशादेत्ताश्च जा ततः ।अश्च षश्च रुकारश्च पूषौ रूप तथैव च ॥१०९॥षट् च सप्ततयः प्रोक्ताः षष्ठमावरणे क्रमात् ।तधष्ठा षाश्च शेविश्च पाचयश्च ततः पुनः ॥११०॥रूचद्रश्च तथा रौचयश्च नाशाविरेव च ।घ्नश्च विश्चर्वसौ चैव याकारश्च तरुश्च वै ॥१११॥रेफपूर्वौ चकारश्च रुश्चण्डश्च गधौ तथा ।डा गणेपि चरूडाश्च रावसाश्चरणेऽपि च ॥११२॥रूस्तुस्तैमाश्च प्रोवैव स्वराद्योमविसर्गयुक् ।तश्चवश्च शिमस्ता च वश्चशिश्च भ एव च ॥११३॥तरघोमोगराश्चैव सश्चरश्चश्च एव च ।ह्री कारश्च त्रयं दीप ह्रिकारस्य तथा त्रयम् ॥११४॥अक्षर त्रीणी हुंकाराः प्रणवं फट् तथास्त्रयः ।दीपकश्च तथांशाश्च अशीतिः सप्तमावृतौ ॥११५॥द्रौश्चरुश्च तथा मोचनश्चरश्चरुपी तथा ।यश्चष्टा च तथा दंश्च तूश्चवश्च लिपी तथा ॥११६॥लिश्च किश्च लिपी चैव लिश्च हिश्चतन्ती पुनः ।नामादाश्च तथा द्वंश्चणेपि रूलाश्चद्रू तथा ॥११७॥यश्चला च तथा मूचणेपि रूजाश्च एव च ।बीजायाश्चैव बीचैवणेपि बेरुद्र एव च ॥११८॥अक्षरः सविसर्गेण मकारो न यदा तथा ।नमो न देनाद्य स्वराः सविसर्गौमतौ ततः ॥११९॥वीह्य पोमोन ह्यताम्रर्वनाश्चन्ता चनस्ततः ।अफट्कारौ च हुंश्चैव प्रणवश्च तथा पुनः ॥१२०॥षट् च वौ चैव षट्चैव यथा स्वाचैव हा पुनः ।स्वाश्चस्तिश्च सकारश्च सविसर्गौ मनौस्तथा ॥१२१॥अष्टमावरणे प्रोक्ता अष्टाशीत्यक्षराः पुनः ।सविसर्गोमकारश्च नकारश्च ययौ पुनः ॥१२२॥यान्निर्वे च धमाः साश्च जुश्चग्यश्च ऋ एव च ।श्वश्च ह्वा च तथा जींश्च ग्रश्चनोच ह आयतः ॥१२३॥लीपे पाश्च तथा पश्च लापा नानास्तथैव च ।मोनयाश्चैव पिश्चैव रुद्रपाश्चै य आयतः ॥१२४॥द्रापणे पिततारू च लश्च नायौ चला ततः ।नाकारेणापि रूरांश्च रुद्राश्चैव य एव च ॥१२५॥राचरूश्च तथा तच्च प्रणवश्च ह्य एव च ।पश्चसिश्च तथाद्यश्च चापिश्चर्व स एव च ॥१२६॥सविसर्गोमकारश्च तश्चभ्यश्चनुयो पुनः ।तव गोप्ते च गौयौ च ह्या च गुश्च तथा पुनः ॥१२७॥मोनहु प्राश्च हश्चैव स्मश्च व्रंश्चैव नांस्ततः ।तश्च हा च तथा स्वा च यकारश्च र आयतः ॥१२८॥यश्च भीश्च तथा भूश्च मश्च प्रेच ह आयतः ।सा च यश्च तथा रा च यश्च जश्च व एव च ॥१२९॥हाच स्वाच तली चैव ज्वश्च सुश्च द एव च ।नवमावरणे प्रोक्ताः शताष्टाधिकमक्षरम् ॥१३०॥यश्च लाच तथा काच व्यालिकैलिश्च किंस्ततः ।यश्च ता च तथा श्वश्च शाश्चयश्च व आयतः ॥१३१॥ध्राश्चयश्च तथा ता च ता श्रीश्चाना चयौ पुनः ।ता च ना चस्वराच्छाद्यो यश्चन्ताश्च न एव च ॥१३२॥अकारश्च मकारश्च नोमणश्च पिता तथा ।लश्चपश्च यकारश्च लाचभश्च तथा पुनः ॥१३३॥णेचपिश्च तथा रूच पञ्चपुश्च य एव च ।ष्वाच पुश्च तथा णश्च विश्वरूपर्भगौ तथा ॥१३४॥यश्च भाच तथा गश्चणे च ष्वाश्चरु एव च ।पुश्च द्यो च तथात्मश्च व्योचनश्च त एव च ॥१३५॥चेचना च तथा तश्च चेचेवाद्य स्वरास्तथा ।यश्चरा च तथा पश्च रश्चयश्च तथैव च ॥१३६॥मेचरश्च पकारश्च यश्च पाच तथा परू ।निश्चद्यो च तथा ये च तश्च पश्चतिणाच्चिवाः ॥१३७॥नकारश्च स्वरश्चोद्यो रश्चपश्चन्द्र एव च ।रुश्चष्णुश्च तथा पिश्च ह्याच पुश्चरकौ ततः ॥१३८॥स्यश्च नैश्च तथा सा चर्वश्च सश्च द एव च ।प्रश्च खश्चसुतौ चैव हूकारश्चर्व एव च ॥१३९॥दशमावरणे प्रोक्ताः शताश्च द्वादशाधिकाः ।कश्चमः सविसर्गस्तु नयायेश्चरु आयतः ॥१४०॥याकारश्च तथा कारयश्च राच ह आयतः ।नश्चद्ध्या च तथाने च गित्ययोत्यं नियास्तथा ॥१४१॥ताच स्थिश्च तथा सश्च मश्च पीच ग एव च ।यो बलंश्च नयौ ना च णेच विश्च तथा पुनः ॥१४२॥रुकारश्च तथा नो च मश्च सेचनमौ ततः ।णेकारश्च विरूतौ च रेकारश्च तथा पुनः ॥१४३॥सेतरेणे विरुन्ताश्च नश्चयाश्च य एव च ।तश्च नश्च अकारश्चत्मश्च विश्च वधू पुनः ॥१४४॥अग्निश्च स्वराश्चाद्योप श्वरूपश्च एव च ।नित्योजः सविसर्गश्च ते मथाश्च तथा पुनः ॥१४५॥प्रश्च विश्च तथा रूनौ विश्वरूच अपिंस्ततः ।व्या विश्चैव तथा व्योमिन् स्माच प्रश्चति एव च ॥१४६॥शिक्ष क्ष्मा च तथा सूचब्दश्च शश्चन एव च ।ज्ञाश्च गश्च तथा पिंश्च गश्च तश्च परू तथा ॥१४७॥तुश्च षिश्च तथा सा च तश्च स्थिश्चर्व एव च ।पूतौस्तुश्च अनौ चैव विन्यसेत् तु विशेषतः ॥१४८॥दशैकावरणे प्रोक्ताः शतवर्णाश्च षोडश ।ककारश्च विलौ चैव अकारोयश्च वा शिराः ॥१४९॥घोमानाश्च यकारश्च ज्ञाचवश्च ष एव च ।रुश्च पुश्च तयौ चैव वा शिये तत् पगास्तथा ॥१५०॥जकारोयश्च नाशाश्च ईकारश्चाद्यमक्षरम् ।प्रणवः सविसर्गेण मकारप्रश्चयस्ततः ॥१५१॥पारुतिश्च कृकारश्च प्रश्चणे च विरूरकाः ।हंसश्चाभ्य स्वरश्चैव यश्चरा च क आयतः ॥१५२॥अं चैवाद्य स्वाराश्चैव णेचविश्च तथा पुनः ।रुर्थौ चाद्य स्वराश्चैव यर्थ चैवाद्यमक्षरम् ॥१५३॥महामहे बहुश्चैव तथा प्रणव एव च ।सविसर्गेण रूकारः प्रणवश्च तथा पुनः ॥१५४॥चत्वारश्चैव सूकारा नाकारश्च तथा चतु ।देनादेश्च तथा ना च अकारोन्तश्च नस्ततः ॥१५५॥प्. २०) अकारश्च स्मकारश्च अश्चन्तश्चर्भ एव च ।आह्य स्वरोमकारश्च मेवोशिश्च च एव च ॥१५६॥षांश्च शांश्च तथा वांश्च लांश्च यांश्चस्तथापि च।ओकारेश्च तथा नेच विश्चव्याम च एव च ॥१५७॥व्योकारश्च तथा ऊचं रच आकार एव च ।प्रणवश्च वयश्चैव मश्चनच्चम एव च ॥१५८॥शिश्च दश्चर्वसौ चैवर्वश्च शश्चव एव च ।द्वादशावरणे प्रोक्तो विंशतिश्चशतं क्रमात् ॥१५९॥यश्चणा च तथा रश्च वाचपाचप एव च ।यकारो ह्यागुवाश्चैव देवमायाश्च एव च ॥१६०॥नोश्च पश्चात् प्रयद्युश्च विधं द्राचैवकास्तथा ।वश्च सिश्च यथा दश्च भूयभ्यश्च च एव च ॥१६१॥रेच घोणे विरुद्राश्च विश्चयद्यश्च आयतः ।विश्चणे च तथा पिश्च रूपद्धश्च शुयौ ततः ॥१६२॥याश्च गुश्च तथा णेचरु माया च यथौ ततः ।माचणेऽपि तथा रूति ककारायश्च वा पुनः ॥१६३॥देय व्याश्च स्वराश्चाद्यो वेचभश्च विमौ ततः ।वाचमावाकने चैव कानेचाद्य स्वरस्ततः ॥१६४॥त्र्यंश्च सश्च ततो दीपः सविसर्ग व एव च ।तकारः प्रणवश्चैवः सविसर्गो न एव च ॥१६५॥जकारादीपकश्चैवः सविसर्गो ह कारकः ।मकारः प्रणवश्चैव सविसर्गस्प एव च ॥१६६॥प्रणवश्च तथा दाच सश्चस्तुश्च तपो ततः ।तश्च भावै च स्वाकारः सविसर्गो म एव च ॥१६७॥नश्च पेच तथा भश्च प्रश्चगच्छ च एव च ।सविसर्गोमकारस्तु नये ताश्च प एव च ॥१६८॥न कारश्चैव शाद्रौ च क्षंकारः क्षविसर्गयुक् ।त्वैंश्चक्षूंश्च तथा क्षंश्च त्वां क्षां हां हाश्च एव च ॥१६९॥त्रयोदशावरणे प्रोक्ता विंशदष्टोत्तरं शतम् ।यश्चमोश्च तथा रुश्च वश्चकायौ च एव च ॥१७०॥प्. २१) राचयाक्त्या च शश्चैव दिश्चमाकार एव च ।लयेक्ता च तथा मूच तश्च जाद्यो स एव च ॥१७१॥चन्द्रश्च नश्चधारा च विश्चसुश्चाष्ठ एव च ।रिश्चवश्च तथाण्यश्च रेच वश्चरवौ तथा ॥१७२॥यश्च घे च यकारश्च अकारश्च ततः पुनः ।रश्चश्चाग्नि तथा लाच काश्चमः सविसर्गयुक् ॥१७३॥नियवाशिश्च हौकारः प्रणवश्च तथा चणे ।पिश्च रूच तथा वीच शिदासाश्चैव यस्ततः ॥१७४॥पाशिदा साश्चणेकारः पिश्चरुय न एव च ।यानाश्च महिमौ धीये वाश्च शिश्च तथैव च ॥१७५॥दासः सर्वश्च चौचैव शिश्चवंश्च ह एव च ।नोयनिश्च तथा नश्च धनिश्चाद्य स्वरस्तथा ॥१७६॥मंपधा च तकारश्च तीरश्च स्वराभ्यतः ।नश्चमश्च सनौसश्च शान्तेशायाश्च दीपकः ॥१७७॥स विसर्गोवकारस्तु शिकारं विन्यसेत् ततः ।स विसर्गोमकारस्तु नयेनांश्च पणांस्ततः ॥१७८॥द्राचरुश्च विसर्गेण मकारोनश्चनेत्मकाः ।मृश्च अश्च विसर्गेण मकारोनश्चने तथा ॥१७९॥मवौ चैव सकारश्च स विसर्गो म एव च ।नश्च नश्च तथा ने च तथात्मश्च तथा पुनः ॥१८०॥स विसर्गोमकारश्च नकारश्चैव ए ततः ।चतुर्दशावरणे प्रोक्तं षट्त्रिंशश्च शतक्षरम् ॥१८१॥एवं अक्षरविन्यासं कृत्वोद्धरणमारभेत् ।सौधमूर्तिं प्रवक्ष्यामि पञ्चवक्त्रसमन्वितम् ॥१८२॥पञ्चादशाक्षसंयुक्तं भूजैश्च दशशोभितम् ।वरदाभय हस्तं स्याद् अष्टायुधसमन्वितम् ॥१८३॥दुकूलपट्टवसनं सर्वाभरणभूषितम् ।पद्मासनसमारूढं प्रासाअदमिति चोच्यते ॥१८४॥एकवक्त्रं त्रिणेत्रं स्यात् चतुर्भुजं सुरूपकम् ।दिव्यांबरधरं देवं दिव्याभरणभूषितम् ॥१८५॥एवं ब्रह्मसमाख्यातं रुद्रलक्षणमुच्यते ।चतुर्वक्त्रं चर्बाहु द्वादशाक्षिसमन्वितम् ॥१८६॥वरदाभयहस्तं स्यात् छुलश्चांकुशमेव च ।सर्वाभरणसंयुक्तं शुक्लयज्ञोपवीतकम् ॥१८७॥क्षौमवस्त्रधरं रक्तं ध्यायेद् रूपं विशेषतः ।संक्रान्ते विषुवे चैव अयने जन्म-ऋक्षके ॥१८८॥दीक्षायास्थापनान्ते च दुर्भिक्षे दुर्निमित्तके ।भूमिकं पेदिशां दाहे ज्वरमार्यादि पीडने ॥१८९॥गोक्षीरं गन्धतोयं वा घृतं वा मधुवा पुनः ।नालिकेरजलं वापि रुद्रेण स्नापयेच्छिवम् ॥१९०॥सप्तजन्म कृतं पापं यजमानस्य नश्यति ।सर्वेषामेव देवानां मन्त्रमेवं द्विधामतम् ॥१९१॥स्वनाम्नि चादिवर्णे तु ऋचामन्यत् स वह्निकम् ।बिन्दुनादसमायुक्तं सर्वेषां मूलमन्त्रकम् ॥१९२॥दीर्घाणि ह्यंगमेवं स्यात् षडंगाश्चैव कीर्तिताः ।अस्त्रं विसर्गसंयुक्तं ह्रस्वा वै ब्रह्मपञ्चकम् ॥१९३॥यथा वर्णस्तथा रूपं अस्मिन् मन्त्रे प्रचोदितम् ।तेषां मन्त्रं तु सर्वेषां शिवस्य परमात्मनः ॥१९४॥सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिप्रदायकम् ।मन्त्रोद्धारमिदं प्रोक्तं शौचाचमनकं शृणु ॥१९५॥इति मन्त्रोद्धारस्तृतीय पटलः ॥३॥ N/A References : N/A Last Updated : January 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP