संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
शौचाचमन पटलः

अथ क्रियापादः - शौचाचमन पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि सौचाचमनलक्षणम् ।
साधकानां हितार्थन्तु चतुराश्रमधर्मिणाम् ॥१॥

ब्राह्मे मुहूर्ते विद्वान् वै मनसाचिन्तयेच्छिवम् ।
त्रिपादो न त्रिघटिका राजन्ते तु दिने दिने ॥२॥

ब्राह्म्यं मुहूर्त्तमाख्यातं मम संख्यासु कथ्यते ।
उत्थाय च बहिर्ग्रामात् गत्वाशौचं समाचरेत् ॥३॥

रविं दक्षिणतः कृत्वा विण्मूत्रन्तु विसर्जयेत् ।
दक्षिणाभिमुखोरात्रौ तृणमाधायभूतले ॥४॥

करे वा कर्णमूले वा उपवीतं न्यसेत् बुधः ।
वेष्टयित्वा शिरस्तत्र ऋजुका यो न पाचयन् ॥५॥

प्रत्यादित्य जलाग्निनां चन्द्रगोब्राह्मणान् प्रति ।
देवालयसमीपे तु कूपे गोष्ठेन भस्मनि ॥६॥

क्षेत्रे च वृक्षच्छायायां नद्यामन्तः सरस्वपि ।
चैत्य वृक्षसमीपे तु वेलायां वाम होदधेः ॥७॥

चत्वरे ग्रहमध्ये च न कुर्यादुभयं नरः ।
वामेन शिश्नं संग्राह्य मृत्पिण्डं दक्षिणे करे ॥८॥

जलेशुद्धे समागम्य पश्चात् छौचं समाचरेत् ।
सकृन्मृत्तिकया शिश्नमक्षमात्रप्रमाणतः ॥९॥

तथा सर्वत्र संयोज्य पश्चात् पादे तु मृत्तिकाम् ।
दश कृत्वा करं वामं सप्तकुर्यात् करद्वयम् ॥१०॥

शोधयेदंभसा नित्यं ग्रहस्थानां विधीयते ।
एतद् उक्तं ग्रहस्थानां द्विगुणंब्रह्मचारिणाम् ॥११॥

त्रिगुणं वा न प्रस्थानां यतीनान्तु चतुर्गुणम् ।
यावन्मात्रामनः शुद्धिस्तावत् शौचं समाचरेत् ॥१२॥

उत्थायतीरोत् तस्माद् वै अन्यत्रा चमनञ्चरेत् ।
प्रक्षाल्य पाणिपादौ च दक्षिणादि क्रमेण तु ॥१३॥

स पवित्रकरेणैव सर्वकर्मसमाचरेत् ।
स्थले तु दक्षिणं पादं वामपादं जलेस्थितम् ॥१४॥

नाभो न दिक्षुसंवीक्ष्य हस्ते गोकर्णवत् कृते ।
माषमग्नन्तु यद्वारि निःशब्दन्तत्र पीयते ॥१५॥

यथा वै त्रितयं पीत्वा आस्येंगुष्ठेन निस्पृशेत् ।
मुखं हस्तेन संस्पृश्य पद्भ्यामभ्युक्षणं भवेत् ॥१६॥

अङ्गुष्ठानामिकाभ्यान्तु चक्षुषी संस्पृशेत् बुधः ।
अङ्गुष्ठ तर्जनीभ्यान्तु नासिकां संस्पृशेत् पुनः ॥१७॥

अङ्गुष्ठ कनिष्ठाभ्यां तु श्रोत्रे चैव तु संस्पृशेत् ।
यदा तत् त्रितयं पीत मृग्यजुः सामतृप्तये ॥१८॥

अथर्वस्येति हासार्थं तन्मुखन्तु द्विधा स्पृशेत् ।
पादावुभौ तदाभ्युक्ष्य ऋषीणां सप्ततृप्तये ॥१९॥

मूर्द्धास्ये चक्षुषी श्रोत्रे सर्वाधिक्येन्दु चक्षुषा ।
भुजौ तु नाभि हृदयमिन्द्रमिष्ण्वनलांस्तथा ॥२०॥

क्षुधेकफेत्वधासन्ने सद्य आचमनं कुरु ।
अङ्गुष्ठे नास्य संस्पृश्य पश्चादाचमनं बुधः ॥२१॥

एवमाचनं प्रोक्तं तत स्नानविधिं शृणु॥

इति शौचाचमनश्चतुर्थ पटलः ॥४॥

N/A

References : N/A
Last Updated : January 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP