संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
जीर्णोद्धारविधिपटलः

अथ क्रियापादः - जीर्णोद्धारविधिपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि जीर्णोद्धारविधिक्रमम् ।
जीर्णदेही यथा देहं त्यक्त्वान्यं प्रतिपद्यते ॥१॥

तथा जीर्णञ्च चलितं बेरन्मुञ्चति देवता ।
एवमादीनि सर्वाणि राक्षसाद्याविशन्ति हि ॥२॥

राक्षसाश्चासुराश्चापि पिशाचा ब्रह्मराक्षसाः ।
तस्मात् सर्वप्रयत्नेन जीर्णोद्धारं तु कारयेत् ॥३॥

प्रासादं प्रथमं लिङ्गं पीठं प्राकारमण्डपम् ।
गोपुरं परिवारञ्च जीर्णकाले ततोद्धरेत् ॥४॥

स्थूपीनासि च शाला च कपोतं कूटपञ्जरम् ।
पादाधिष्ठानसंयुक्तं यद्धिनन्तद्विवर्जयेत् ॥५॥

विमानं पूर्ववत् कृत्वा प्रोक्षणं विधिवत् कुरु ।
तेष्वैकाङ्गविहीनश्चेत् तत् कुर्यात् पूर्ववत् बुधः ॥६॥

आलयानामिदं प्रोक्तं प्रतिमानां ततः शृणु ।
भ्रूरेखा च क्षुरेखा च नासिका चापिनाक्षयेत् ॥७॥

ससूत्राणाञ्च लिङ्गे तु रेखाश्राणां तु पीठके ।
अन्याङ्गानां क्षयं दृष्ट्वा पीठे लिङ्गविशेषतः ॥८॥

उत्तरे जीर्णलिङ्गन्तु तस्योद्धारक्रमं शृणु ।
मण्डलं वर्तयेद्धीमान् शिवलिङ्गस्य दक्षिणे ॥९॥

संकल्प्यासनमाराध्य बाह्यपूजां समारभेत् ।
मन्त्रपूतं हविर्दद्यात् तदग्रेऽग्न्यानने कृते ॥१०॥

दूर्वाभुक्ति घृतैर्वापि क्षीरेण तिलतण्डुलैः ।
दशात्मनाशिवाङ्गैश्च पञ्चब्रह्मषडङ्गकैः ॥११॥

प्रत्येकं शतमर्द्धं वा होमयेत् पञ्चविंशतिः ।
लिङ्गस्या चलनार्थाय मूलेनैव शताहुतिः ॥१२॥

दद्यात् पूर्णाहुतिं तत्र सहस्राक्षरमन्त्रतः ।
तद्वल्कलेन सम्मिश्रं गोवालकृतरज्जुना ॥१३॥

कर्तुर्वर्णानुरूपञ्च वृषभं लक्षणान्वितम् ।
तरुणं बलवन्तञ्च भूषयेत् भूषणार्हकैः ॥१४॥

रज्जुनाबध्यतल्लिङ्गं ककुदग्रे वृषस्य तु ।
तद्रज्जुनासुबध्वा तु बहुरूपमनुस्मरन् ॥१५॥

तल्लिङ्गमुद्धरेन्मंत्री वृषभेण शिवेन च ।
देशिकं पूजयेत् तत्र वस्त्रैः सौवर्णभूषणैः ॥१६॥

आरोप्यजीर्णलिङ्गन्तु शिबिकायां रथेपि वा ।
शङ्खकाहलवाद्यैश्च कुर्याच्छब्दं महारवैः ॥१७॥

आवृतं शिवभक्तैस्तु स्तुतिस्तोत्रसमन्वितम् ।
समुन्द्र प्रक्षिपेल्लिङ्गं नमस्कारान्तमन्त्रकैः ॥१८॥

तटाकादिष्वशोष्येषु खात्वोर्व्यां वाथनिक्षिपेत् ।
दारुजञ्चेदथाग्नौ तु जले लिङ्गं व्यपोह्य च ॥१९॥

प्रतिलिङ्गञ्च पीठञ्च कृत्वा पूर्वोक्तलक्षणैः ।
स्थापयेद्विधिनाधीमां नृपराष्ट्रहिताय वै ॥२०॥

जीर्णोद्धारे कृतं सर्वं मण्डलस्थाय शंभवे ।
विज्ञापयेत् प्रणम्यादौ शिवमस्त्विति चोच्चरेत् ॥२१॥

शिवं प्राग्वत् समभ्यर्च्य शिवास्त्रन्तु विसर्जयेत् ।
तस्याच्छिद्रापनोदार्त्थमघोरास्त्रेण मन्त्रवित् ॥२२॥

आज्येनाष्टशतं हुत्वा व्याहृत्याहुतिमाचरेत् ।
अग्निस्थं शिवमुद्वास्य होमशेषं समापयेत् ॥२३॥

सकलानि च जीर्णानि उद्धरे देवमेव तु ।
वृषं विना चलानान्तु क्रमादेवं समुद्धरेत् ॥२४॥

मृद्दारुरूपबिंबानि उद्धृत्याशुविनिक्षिपेत् ।
उद्धृते लोहबिंबे तु तद्रव्येण पुनर्नवम् ॥२५॥

कुर्यात् सामान्यमेवन्तु विशेषमधुना शृणु ।
द्रव्योत् कृष्टेन कर्तव्यं तत्प्रमाणाधिकं तथा ॥२६॥

इतरन्तु न कर्तव्यं कृतञ्चेत् कर्तृनाशनम् ।
प्राकारमण्डपादीनां यज्जीर्णन्तत्र तद्विना ॥२७॥

कृत्वा तत् पूर्ववद् धीमान् सुदृढं हि मनोरमम् ।
अन्यथा यदि कुर्याच्चेत् दोषावहं नृणां भवेत् ॥२८॥

सर्वनाशं भवेदत्र सर्वं निष्फलमेव हि ।
यदा मासा तदर्धेषु अशुभानिशुभानि च ॥२९॥

अपरीक्ष्य तदा कुर्यादुद्धारं स्थापनं पुनः ।
जीर्णोद्धारमिदं प्रोक्तं प्रायश्चित्तमथ शृणु ॥३०॥

इति जीर्णोद्धारविधि पटलश्चतुःपञ्चाशत्तमः ॥५४॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP