संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| चतुःपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - चतुःपञ्चाशत्तमोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता चतुःपञ्चाशत्तमोऽध्यायः Translation - भाषांतर आत्रेय उवाच पञ्चैव क्षीरदोषाश्च स्त्रीणाञ्च कथिताबुधैः घनक्षीरोष्णक्षीराम्लक्षीरा चैव तथा परा ॥१॥ अल्पक्षीरा क्षारक्षीरा मृदुक्षीरा तथा परा मृदुक्षीरा भवेत्सौख्या पञ्चान्या दोषकारकाः ॥२॥ घनाध्माननिरोधत्वं श्वासकासादिसम्भवः उत्फुल्लकुक्षितैवं हि घनक्षीरस्य सेवनात् ॥३॥ अल्पसत्वः कृशो दीनः श्वासातीसारपीडितः अल्पक्षीरस्य दोषेण सम्भवेद्घतवाक्सुतः ॥४॥ ज्वरः शोषस्तथाल्पत्वमुष्णक्षीरेण बालके तथैव चोष्णक्षीरेण ज्वरातीसार एव च ॥५॥ सुसत्वं बलमाप्नोति चारोग्यं लभते शिशुः मृदुक्षीरेण नियतं जायते रूपवानपि ॥६॥ चक्षूरोगश्च कण्डूश्च क्षतश्लेष्मावस्राविता संक्लेदयुक्तं नासास्यं जायते क्षारदुग्धके ॥७॥ अतो वक्ष्यामि भैषज्यं शृणु हारीत मे मतम् ॥८॥ आध्मानात्फुल्लकुक्षिश्च श्वासदोषादिपीडितः उत्फुल्लिका च विज्ञेया बालानां दुःखकारिणी ॥९॥ उदरे च जलौकादिरक्तं चादौ विमोक्षयेत् उत्फुल्लिदोषे दातव्य क्षीरदोषनिवारणम् ॥१०॥ अग्निना प्रबलः स्वेदो दहेद्वापि शलाकया जठरे बिन्दुकाकारा जायन्ते भिषगुत्तम ॥११॥ बिल्वमूलफलं पाठा त्रिकटु बृहतीद्वयम् क्वाथश्च गुडयुक्तश्च बालानाञ्च ज्वरे हितः ॥१२॥ स्त्रीणां स्यात्पानमेतेषां बालानां ज्वरनाशनम् ॥१३॥ हितः पर्पटकक्वाथः शर्करामधुयोजितः बालानां ज्वरनाशाय कैरातं मधुसंयुतम् ॥१४॥ भार्ङ्गीरास्नाकर्कटकचूर्णं वा मधुसंयुतम् लेहो वा बालकस्यापि श्वासकासनिवारणः ॥१५॥ पथ्यावचानागरकं घनं कर्कटमेव च चूर्णं सगुडमेवं हि बालानां कासनाशनम् ॥१६॥ पलाशभेदं त्रिफलात्रपुसीवरीमागधीः पिष्ट्वा तण्डुलतोयेन सिताढ्यं मूत्ररोधजित् ॥१७॥ नागरीमभयादन्तीगुडचूर्णं प्रदापयेत् बालानां विद्रधिञ्चैव नाशयेच्च न संशयः ॥१८॥ पाठाबिल्वशिलादीनि वत्सकं शाल्मलीत्वचम् दुग्धेन पानं बालानामतिसारनिवारणम् ॥१९॥ अर्जुनञ्च कदम्बञ्च कुष्ठं गैरिकमेव च लेपनं त्वचो दोषाणां वारणं बालकस्य च ॥२०॥ रोध्रं रसाञ्जनं धात्री गैरिकं मधुना युतम् अञ्जनञ्चैव बालानां नेत्ररोगनिवारणम् ॥२१॥ वचा ब्राह्मी च मण्डूकी घनकुष्ठं सनागरम् घृतेन प्रातर्देयञ्च बालानां पुष्टिकारकम् ॥२२॥ गुडूचिकापामार्गश्च विडङ्गं शङ्खपुष्पिका विष्णुक्रान्ता वचा पथ्या नागरञ्च शतावरी ॥२३॥ चूर्णं घृतेन संमिश्रं लिहतो धीः प्रवर्त्तते त्रिभिर्दिनैः सहस्रकं श्लोकानामवधारयेत् ॥२४॥ त्रिकटु त्रिफला धन्या यवानी सालमूलिका वचा ब्राह्मी तथा भार्ङ्गी चूर्णञ्च मधुना हितम् वाक्पटुत्वञ्च बालानां नादो वीणासमस्वरः ॥२५॥ यस्य श्वासो विचैतन्यं तन्द्रा चातीववेपथुः शिरोऽर्तिः संज्वरश्चैव सचासाध्यो भिषग्वर ॥२६॥ लालाकृतिर्विचैतन्यं तृप्त विभ्रान्तलोचनम् स्तब्धाङ्गविकृतिर्यस्य चापस्मारी स उच्यते ॥२७॥ अपस्मारे तु बालस्य शीतलानि प्रयोजयेत् वचा सैन्धवपिप्पल्यो नस्यं हि गुडनागरः ॥२८॥ रसं चागस्ति पत्रस्य मरिचैः प्रतियोजितम् एतेन प्रतिसौख्यं स्यात्तदा चान्दोलनं हितम् ॥२९॥ मस्तकान्ते ललाटे च दहेल्लोहशलाकया ॥३०॥ शून्यागारे देवकुले श्मशाने देवमध्यगे चत्वरे सङ्गमे नद्योर्भय क्षुभितबालके ॥३१॥ संक्रामन्ति भिषक्छ्रेष्ठ बालकस्यापि पूतनाः ॥३२॥ लोहिता रेवती ध्वांक्षी कुमारी शाकुनी शिवा ऊर्ध्व केशी तथा सेना ह्यष्टौ चैताः प्रकीर्त्तिताः ॥३३॥ तथान्यासाञ्च मत्तस्त्वं नामानि शृणु साम्प्रतम् रोहिणी विजया काली कृत्तिका डाकिनी निशा ॥३४॥ भूतकेशी कृशाङ्गी च अष्टौ चैताः प्रकीर्त्तिताः लक्षणञ्च प्रवक्ष्यामि शृणु पूजाबलिक्रमम् ॥३५॥ जातमात्रस्य बालस्य लोहिता नाम पूतना विस्रगन्धा लोहितञ्च रोदिति स मुहुर्मुहुः ॥३६॥ बलिं तस्याः प्रवक्ष्यामि येन सौख्यं प्रजायते द्वितीये दिवसे बालं रेवती नाम पूतना ॥३७॥ गृह्णाति लक्षणं तस्य रोदति कम्पते भृशम् कृष्णमृन्मयीं प्रतिमां कृत्वा गन्धानुलेपनैः ॥३८॥ कृशरारालचूर्णञ्च दीपधूपैस्तथाक्षतैः ताम्बूलैः कृष्णसूत्रैश्च रात्रौ नैऋर्तिके क्षिपेत् ॥३९॥ तृतीये दिवसे प्राप्ते वायसी नाम पूतना तया गृहीत मात्रेण रोदिति न पिबेत्स्तनम् ॥४०॥ ज्वरश्चैवातिसारश्च काक वद्वदति भृशम् तस्या दध्योदनं पात्रे यवकृशरपोलिकाः ॥४१॥ ध्वजानिः सगुणश्चैव कृष्णगन्धानुलेपनम् धूपदीपाक्षतैश्चैव मध्याह्ने बलिमाहरेत् ॥४२॥ चतुर्थे दिवसे बालं कुमारी नाम पूतना गृह्णाति वालकस्ते न ज्वरेण परितप्यते ॥४३॥ शून्यं विगाहते बालस्तन्मुखं परिशुष्यति भृशं स रोदिति तस्याः शृणु पूजाबलिक्रमम् ॥४४॥ पायसं घृतं खण्डं घृतस्य दीपकत्रयम् ॥४५॥ मृन्मयीं प्रतिमां कृत्वा पुष्प धूपाक्षतैरपि कृतान्तदिशि मध्याह्ने बलिं दत्वा सुखी भवेत् ॥४६॥ पञ्चमे दिवसे बालं शाकुनी नाम पूतना गृह्णाति स तयाक्रान्तः स्तन्यं नाकर्षते शिशुः ॥४७॥ सज्वरो वमति रौति कासमानोऽथ वेपते ॥४८॥ तस्याः शोभनिका पूजा क्रियते तिललड्डुकैः श्वेतगन्धाक्षतैर्धूपैः पूजयेन्मृण्मयाकृतिम् ॥४९॥ उत्तराशां समाश्रित्य पूर्वाह्णे बलिमाहरेत् षष्ठे च दिवसे प्राप्ते शिवा नाम कुमारिका ॥५०॥ रौति निःश्वसिति तेन वमति कम्पते तथा स्तन्यञ्च नाहरेद्बालो ज्वरातिसारपीडितः ॥५१॥ तस्यै बलिः प्रदेयश्च सप्तव्रीहिमयश्चरुः पायसैर्दधिदीपैश्च पूज्या सा तिलचूर्णकैः ॥५२॥ गन्धपुष्पाक्षतैर्धूपैः पूजयेन्मृण्मयाकृतिम् ऐशानीं दिशमाश्रित्यापराह्णे बलिमाहरेत् ॥५३॥ सप्तमेऽह्नि पूतनाया उर्ध्वकेश्याः शिशौ तथा पूर्ववद्दृश्यते चिह्नं तथैव बलिमाहरेत् ॥५४॥ अष्टमे दिवसे प्राप्ते सेना नाम च पूतना तथा गृहीतः श्वसिति हस्तौ कम्पयते भृशम् ॥५५॥ तस्यै दध्योदनं दद्यात्तिलचूर्णञ्च पोलिकाम् धूपदीपगन्धपुष्पताम्बूलान्यक्षतानि च ॥५६॥ आग्नेयीं दिशमाश्रित्य प्रदोषे बलिमाहरेत् एवं क्रमेण मासस्य वर्षस्य बलिकर्म च ॥५७॥ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने बालचिकित्सानाम चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP