संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
त्रिपञ्चाशत्तमोऽध्यायः

तृतीयस्थानम् - त्रिपञ्चाशत्तमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच प्रसूत्यनन्तरं रोध्रार्जुनकदम्बदेवदारुबीजकाह्वं कर्कन्धूञ्च यथालाभं लोहितविशुद्धे दापयेत् । प्रसूतिजाता योनिः संशोध्यते तैलेनापूर्याभ्यज्य चोष्णेन वन्रिणा स्वेदयेत् उपवासमेवं कृत्वा द्वितीये दिवसे गुडनागरहरीतकीश्च दापयेत् । द्वययामोर्ध्वं कुलत्थयूषं वा सोष्णं पाययेत् । तृतीयदिवसे पञ्चकोलयवागूर्दापयेत् । चतुर्जातक मिश्रा यवागूर्दापयेत् । पञ्चमेऽहनि शालिषष्टिकौदनं भोजयेत् । अनेन क्रमेण दशपञ्चदशाहं चोपचारयेत् ॥१॥
पिप्पली पिप्पलीमूलं नागरं घनवालुकम् कुस्तुम्बुरूणि मञ्जिष्ठां सह क्षीरेण कल्कयेत् ॥२॥
पानं क्षीरविशुद्ध्यर्थं कल्कमश्नात्यनन्तरम् मरीचं पिप्पलीमूलं क्षीरं क्षीरविवृद्धये ॥३॥
मागधी नागरी पथ्या गुडेन सघृतं पयः पानं जनयते क्षीरं स्त्रीणाञ्च क्षीरपादपि ॥४॥
एवं कृत्वा च नारीणां द्वादशाहे भिषग्वरः माङ्गल्यं वाचनं कृत्वा योषार्थञ्च प्रदर्शयेत् ॥५॥
जातके सुतमोक्षञ्च द्वादशाहं तथा पुनः नामकर्मकृतौ सत्यां कर्णवेधनमेव च ॥६॥
वस्त्रबन्धं विवाहञ्च कारयेद्बालकस्य च ॥७॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने सूतिकोपचारीनाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP