संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| त्रिचत्वारिंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - त्रिचत्वारिंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता त्रिचत्वारिंशोऽध्यायः Translation - भाषांतर आत्रेय उवाच केशघ्नस्य चिकित्सां तु शृणु हारीत साम्प्रतम् रूक्षं सपाण्डुरं वातात्पित्ताद्रक्तं सदाहकम् ॥१॥ कफान्वितं भवेत् स्निग्धं रक्तात् पाकं व्रजन्ति तत् सन्निपातेन सदृशं जायते सर्वलक्षणम् ॥२॥ गुडेन सुरसाशुण्ठीमातुलुङ्गरसेन तु केशघ्ने वातसम्भूते धावनञ्च प्रशस्यते ॥३॥ त्रिफलावचारोहीतं गुडेनापि प्रपेषितम् धावनं कफसम्भूते चैन्द्रलुप्ते प्रशस्यते ॥४॥ पैत्तिके च हितं दुग्धं नवनीतान्वितं तथा शिताशिवाफलं यष्टी पैत्तिके धावनं मतम् ॥५॥ भृङ्गराजरसं ग्राह्यं शृङ्गवेररसं तथा सौवीरकरसेनापि तिलान् पिष्ट्वा प्रलेपनम् पश्चात्कार्यं पूरुषेण स्नानमुष्णेन वारिणा ॥६॥ धवार्जुनकदम्बस्य शिरीषमपि रोहितम् क्वाथमेषां शिरोदद्रूं शमयेदिन्द्रलुप्तकम् ॥७॥ कुरबकस्य पुष्पेण जपायाः कुसुमेन च घृष्टस्य चेन्द्रलुप्तस्य कृतमेव निवारणम् ॥८॥ पैत्तिकानि च लिङ्गानि दृष्ट्वा दुग्धेन धावनम् शीतलानि प्रदेयानि पैत्तिकेन विधीयते ॥९॥ धत्तूरपत्राणि च मागधीनां निशाविशालागृहधूमकुष्ठम् घृतेन युक्तञ्च जलेन पिष्टं शिरःप्रलेपे क्षतवारणं स्यात् ॥१०॥ पित्तकृते दोषयुते च रोगे पटोलपत्रं पिचुमन्दकं वा तथा मलक्याः फलमेव पिष्ट्वा घृतेन खण्डेन प्रलेपनञ्च ॥११॥ निवार्यते मस्तकजं क्षतञ्च शिरोऽर्त्तिसङ्घान्विनिहन्ति चैतत् गजेन्द्रदन्तस्य मषीं गृहीत्वा प्रलेपनं वा नवनीतकेन ॥१२॥ तिलार्क भल्लातकदग्धमाषक्षारस्य लेपो नवनीतकेन सर्पस्य क्षारस्य तथा प्रयोगः खल्लाटके केशचयं करोति ॥१३॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने इन्द्रलुप्तचिकित्सा नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP