संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
पञ्चविंशोऽध्यायः

तृतीयस्थानम् - पञ्चविंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
शोफो भवेच्च विकलेन्द्रियरोममार्गः क्षीणे बले वपुषि चाम्लकटूष्णसेवया
शैत्यात्तथा विशदपिच्छलसेवनेन रूक्षाभिघातपतनेन च धारणाद्वा ॥१॥
आमाशये गतवातोऽपि नरस्य यस्य अन्ते प्रधावति ततोऽपि च दोष एषः
करोति पाणिचरणे च पृथक् प्रसूतो द्वन्द्वेन वा भवति शोफविकारचारः ॥२॥
नरस्य चान्तःप्रभवाश्च शोफाः साध्या भवेयुर्विनता मुखेषु
असाध्याये सर्वशरीरगाश्च पादे स्त्रियो वा वदने नरस्य ॥३॥
क्षये वाते वापि च गुल्मदेशे स्याद्राजयक्ष्मणि तथोदरेषु
रक्तेन जातोऽप्ययमेव शोफो गात्रेभवेच्छोफविकारचारः ॥४॥
अन्याश्चोर्ध्वगशोफाश्च श्लेष्मपित्तसमुद्भवाः
कष्टसाध्याश्च विज्ञेया बहूपद्रवसंयुताः ॥५॥
श्लेष्मणि शिरसि प्राप्ते ऊर्ध्वशोफः प्रजायते
मध्यः पक्वाशयस्थेऽपि मलमप्यागते त्वधः ॥६॥
रसे सर्वानुगाः शोफाः सर्वदेहानुगा रसाः ॥७॥
सर्वाङ्गशोफा अथ मध्यशोफाः सर्वाङ्गशोफाः परिवर्जनीयाः
वृद्धे च बाले क्षतजाः क्षयोत्थाश्छर्द्यातिसारश्वसनेन युक्ताः ॥८॥
भ्रमज्वरक्षीणशरीरजाता शोफाद्भवा या च भवेन्नरस्य
साध्या न वैद्यस्य चानन्यदोषा सा नैव साध्या भिषजांवरिष्ठ ॥९॥
तोदश्च रूक्षं श्वसनञ्च वातात्पित्ताच्छ्रमः शोफविदाहकश्च
शीता घना श्लैष्मणि बाधकण्डूः स्याद्द्वन्द्वजा द्वन्द्वजलक्षणेन ॥१०॥
अतो वदामीत्युपचारमस्यां संस्वेदनं पाचनशोधनं वा
विरेचनं रक्तविमोक्षणं च कषायशोफेषु विधिः प्रदिष्टः ॥११॥
न चास्य स्नेहनं कार्यं नैव कार्यं विरूक्षणम् ॥१२॥
पुनर्नवा मगधजा च कटुत्रयं चनिम्बाभया च कटुका च पटोलदार्वी
क्वाथः सुखोष्णक्वथितस्तु विपाचनेन शोफो जहाति जठरं च नरस्य शीघ्रम् ॥१३॥
पुनर्नवा गुडूची च गुग्गुलं समकल्कितम्
शोफदोषांश्च गुल्मञ्च हन्त्युदरं कफानयम् ॥१४॥
गजमहिष्या वृषभस्य मूत्रं तथैव लाजं सकणं प्रयोज्यम्
पानेन शोफो विजहाति शीघ्रमेरण्डतैलेन युतं पयो वा ॥१५॥
संस्वेदनक्रिया तत्र कार्या चैव पुनः पुनः
एरण्डपत्रकैर्वापि अथवा तिन्तिडीच्छदैः ॥१६॥
लोमशा कटुतुम्बी च काञ्जिकेन जलेन वा
निष्क्वाथ्य चापि संस्वेदस्तथैवोष्णेन तेन च ॥१७॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने शोफचिकित्सा नाम पञ्चविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP