संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| सप्तचत्वारिंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - सप्तचत्वारिंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता सप्तचत्वारिंशोऽध्यायः Translation - भाषांतर आत्रेय उवाच क्लैब्यं पञ्चविधं प्रोक्तं समासेन शृणुष्व मे ॥१॥ निरोधातिव्यवायेन वयःश्रान्तेऽपि मानवे जायते रेतसो हानिः क्लीबत्वञ्चापि जायते ॥२॥ त्रिविधं जायते क्लैब्यं मानसं रेतसः क्षयात् सहजं शुष्कसंस्वेदाज्जायते क्लीबता नरे ॥३॥ यस्य वै ममता चित्ते दृष्ट्वा स्त्रीणां विरागिताम् स्पर्शने स्वेदकं पञ्च तत्साध्यं मानसं स्मृतम् ॥४॥ यस्य विद्वेषतः स्त्रीणां व्यवायेन मनःक्षितिः ध्वजभङ्गो भवेच्छीघ्रं तत्क्लैब्यं रेतसः क्षयात् ॥५॥ समप्रकृतिर्यस्यान्यः सोऽप्यसाध्यतमः स्मृतः मनःक्षये मनोद्रेको मुग्धस्त्रीसहसङ्गमः ॥६॥ सरागविभ्रमकथालापैः संवर्द्धते मनः शुक्रक्षये शुक्रवृद्धिं कथयिष्यामि साम्प्रतम् ॥७॥ विदारिकागोक्षुरमूषकानां धात्रीफलं स्यात्सहसैन्धवानाम् समानि चैतानि च मागधीनां युक्तं सिताढ्यं पयसा पिबेच्च ॥८॥ विषं बृहत्यौ मगधात्रिकण्टास्तथात्मगुप्ता सशतावरी च सशर्करं गोपयसो घृतेन पानं नराणां प्रकरोति बीजम् ॥९॥ यवगोधूममाषाणां निस्तुषाणाञ्च चूर्णकम् दुग्धेनेक्षुरसेनापि संस्कृत्य तु घृतेन तु ॥१०॥ पाचितं वटकश्रेष्ठं भक्षयेत्प्रातरुत्थितः तस्योपरि पयःपानं पिप्पलीशर्करान्वितम् ॥११॥ यवक्षारविदारीञ्च माषचूर्णं तथा यवान् मरिचानां सिताढ्यञ्च घृतानाञ्च प्रपोलिकाम् ॥१२॥पाचयेद्भक्षयेत्प्रातः पयःपानं तथोपरि वीर्यञ्च कुरुते पुंसां वनिता रमते भृशम् ॥१३॥ गुडूची शतमूली च स्वयंगुप्ता बला तथा ॥१४॥ शाल्मली मुसलीमूलं चूर्णं गोपयसान्वितम् पानं नराणां श्रेष्ठं तु बीजमिन्द्रियकारकम् ॥१५॥ विदारिकन्दांशुमती बृहत्यौ काकोलिका भीरु पुनर्नवे द्वे शृङ्गाटकं मागधिका बला च चूर्णं सिताढ्यं सितया प्रयोज्यम् ॥१६॥ जीर्णे पयः पायसमेव योज्यं करोति पुंसां बलमेवमोजः स्त्रीणां सहस्रं भजतेऽपि षण्ढो मासद्वयेप्रस्तुतमेव शस्तम् ॥१७॥ वर्जयेत्कटुकं चाम्लं तीक्ष्णं चोष्णं विदाहि च रूक्षं वापि च सौवीरं प्रोक्तानि चेन्द्रियक्षतौ ॥१८॥ पलाण्डुयवनं कन्दांस्तिलान्माषान्यथाबलम् तथौदनं विशालीनां दुग्धं चेक्षुरसं तथा ॥१९॥ वास्तुकं चिल्लकानाञ्च पथ्ये शुक्रक्षयादपि वर्जित्वा सूरणं शुण्ठी योगयुक्तो न योजयेत् ॥२०॥ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वाजीकरणं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP