संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| अष्टादशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - अष्टादशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता अष्टादशोऽध्यायः Translation - भाषांतर आत्रेय उवाचपित्तं मरुच्च श्लेष्मा च उदानं कुपितो भृशम्प्राणः शिरसि सङ्कुप्य कुरुते नष्टचेष्टताम् ॥१॥प्राणान्नयत्यचैतन्यं नाडीं चेन्द्रियरोधनम्पतते काष्ठवल्लोको मुखे लालां विमुञ्चति ॥२॥कण्ठञ्च घुर्घुरायेत फेनमुद्गिरतेऽथवाकम्पेते हस्तपादौ च रक्तव्यावर्ति लोचनम् ॥३॥उपस्मारे च लिङ्गानि जायन्ते भिषजां वरव्यावृत्तं लोचनं क्षामं तमो दाहः शिरोव्यथा ॥४॥हतप्रभेन्द्रियसंज्ञश्चापस्मारी विनश्यति ॥५॥तस्य पानाञ्जनालेपमर्दनं पानमेव चअपस्मारे चोपचार्य घृतं तैलं च धीमता ॥६॥अगस्तिपत्रं मरिचं मूत्रेण परिपेषितम्नस्ये शस्तमपस्मारं हन्ति शीघ्रं नरस्य तु ॥७॥बन्ध्याकर्कोटिकामूलं घृतं शर्करयान्वितम्नस्ये वापि प्रयोक्तव्यमपस्मारप्रशान्तये ॥८॥कूष्माण्डखण्डाश्च पक्वरसाश्च सत्र्यूषणैलादलनागकेशरम्कुमेधिका ग्रन्थकधान्यकानां समांशकेनापि सितप्रियाज्या ॥९॥प्रत्यूषसे भक्षणकं विधेयं तस्योपरि क्षोरमितं प्रशस्तम्विहन्त्यपस्मारविकारमाशु विनाशयेच्छीघ्रमसृग्विकारम् ॥१०॥कूष्माण्डब्राह्मी षड्ग्रन्था शङ्खपुष्पी पुनर्नवासुरसासहितं चूर्णं शर्करामधुसंयुतम् ॥११॥अपस्मारविनाशाय भक्षणे हितमेव चउन्मादे पित्तरक्ते तु वन्ध्याया गर्भदायकम् ॥१२॥रास्नामागधिकामूलं दशमूलं शतावरीचणत्रिवृत्तथैरण्डो भागान्द्विपलिकान्क्षिपेत् ॥१३॥यष्टीमधुकमृद्वीका शङ्खपुष्पी शतावरीरास्ना समङ्गा शृतकं त्रिसुगन्धञ्च भीरुम् ॥१४॥कुष्ठं वैतद्दीपकं च घृतं योज्यं भिषग्वरैःहन्त्यपस्मारमुन्मादं रक्तपित्तं गुदामयम् ॥१५॥ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव चपचेद्घृतं पुराणं च अपस्मारं नियच्छति ॥१६॥महाबलाद्यं तैलं च बस्तौ नस्ये प्रशस्यतेशतावर्यादिकं चापि स दैव च हितं भवेत् ॥१७॥चन्दनाद्यं घृतं चैव प्रयोज्यं चात्र चोत्तमैःअपस्मारे वाप्युन्मादे वातरोगेऽथवा हितम् ॥१८॥त्र्यूषणं त्रिफला हिंगु सैन्धवं कटुका वचानक्तमालकबीजानि तथा च गौरसर्षपाः ॥१९॥बस्तमूत्रेण पिष्टैस्तु गुटिका छायाशोषिताअञ्जनं हन्त्यपस्मारमुन्मादं चैव दारुणम् ॥२०॥स्मृतिभ्रंशभ्रमीदोषभूतदोषविनाशनम्ऐकाहिकं द्व्याहिकञ्च चातुर्थिकं ज्वरं हरेत् ॥२१॥हन्तितिमिरपटलं रात्र्यान्ध्यं च शिरोरुजम्सन्निपातविस्मरणं चेतयत्याशुमानवम् ॥२२॥चन्दनं तगरं कुष्ठं यष्टीत्रिसुगन्धवासकम्मञ्जिष्ठाभीरुमृद्वीकापाठा श्यामाप्रियंगुभिः ॥२३॥स्वयंगुप्ता पीलुपर्णी विषा रास्ना गवादनीकाकोल्यौ जीरकं मेदे पुष्करं घनवालुकम् ॥२४॥विदारी वासुमन्ती च वृद्धदन्ती विडङ्गकम्पद्मकं चैन्द्रवृक्षश्च तथारग्वधचित्रकम् ॥२५॥धान्यकं पञ्चजीरेण तथा तालीसपत्रकम्खदिरं निर्यासतगरं कालीयकं च कैकतम् ॥२६॥नागकेसरं परूषञ्च खर्जूरं चैकत्र मर्दयेत्भावितं पुनरेवं च मधुना सघृतेन च ॥२७॥लेहोऽयञ्च सदा शस्तश्चापस्मारेतिदारुणेउन्मादे कामलारोगे पाण्डुरोगे हलीमके ॥२८॥राजयक्ष्मे रक्तपित्ते पित्तातिसारपीडितेरक्तातिसारे शोषे च शिरोरोगे सदाज्वरे ॥२९॥तमकभ्रमके छर्दिदाहे च समदात्ययेअश्मर्याञ्च प्रमेहेषु कासे श्वासे च पीनसे ॥३०॥एतेषां च प्रयोक्तव्यः सर्वरोगनिवारणःवन्ध्यानां च प्रयोक्तव्यो वृद्धानां च विशेषतः ॥३१॥बालानां च हितश्चैव शृणु चात्र प्रमाणकम्एवं प्रयोजितो रोगे महाकल्को मतो बुधैः ॥३२॥बलवान्गुणवांश्चैव भवतीह फलप्रदःभिषग्भिः कथ्यते लेहः कृष्णात्रेयेणपूजितः ॥३३॥द्राक्षा दारु तथा निशा च मधुकं कृष्णा कलिङ्गा त्रिवृद्यष्टीका त्रिफला विडङ्गकटुकासृक्चन्दनं दाडिमम् ।चातुर्जातकनिम्बका च तुरगी तालीसपत्रं घना मेदे द्वे सुरदारु कुष्ठकमलंरोध्रं समङ्गावरी ॥३४॥भार्ङ्गीकोलकदाडिमाम्लसहितं काश्मर्यशृङ्गाटकं काम्बोजा शणघण्टिकालघुतरा क्षुद्रा च रास्नायुतम् ।चूर्णं शर्करया समं मधु घृतं खर्जूरके संयुतं लिह्यात्कर्षमिदं समस्तबलकृद्धन्त्याश्वपस्मारकम् ॥३५॥उन्मादञ्च सुदारुणं क्षयमथो यक्ष्मा च पाण्डुश्वसन् कासासृग्रुधिरप्रमेहगुदजंस्त्रीणां हितं शस्यते ॥३६॥एतैर्यदि न सौख्यं स्याद्दहेल्लोहशलाकयाललाटे च भ्रुवोर्मध्ये दहेद्वा मूर्ध्नि मानवम् ॥३७॥वर्जयेत्कटुकं चाम्लं रक्तपित्तविकारिणाम्विशेषेण वर्जनीयं सुरापूगकषायकम् ॥३८॥न सेव्यानि ह्यपस्मारे मोहमूर्च्छाकराणि वा ॥३९॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अपस्मारचिकित्सा नाम अष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP