संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| एकत्रिंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - एकत्रिंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता एकत्रिंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचपितृमातृकदोषेण अथवा मूत्ररोधनात्अपथ्यसेवनाचारैर्जायते चाश्मरीगदः ॥१॥मूत्राविष्टौ च पितरौ सुरतं कुरुतो यदिमूत्रेण सहितं युक्तं च्यवते गर्भसम्भवम् ॥२॥पञ्च यस्य सदेहस्य स च तत्र प्रजायतेमूत्रं मूत्रस्य संस्थाने करोति बन्धनं त्रिषु ॥३॥सोऽप्यसाध्यो मूत्रगदश्चाल्पाद्भवति मानुषेतारुण्ये चापि साध्यश्च जायते मूत्रशर्करा ॥४॥विपरीतेन चोत्ताने स्त्रिया च पुरुषेण वाशुक्रञ्च प्रबलेत्तस्य स्त्री शुक्रं विचिनोति च ॥५॥पुनश्च मेहने वासः वातेन शोणितं च तत्द्वयं दत्तं प्रपद्येत मूत्रद्वारं प्ररुध्यति ॥६॥तेन मूत्रप्ररोधश्च जायते तीव्रवेदनाअण्डसन्धिस्थिता याति शर्करा शस्त्र साध्यका ॥७॥अतो वक्ष्यामि भैषज्यं शृणु पुत्र महामतेशुण्ठी गोक्षुरकं चैव वरुणस्य त्वचस्तथा ॥८॥क्वाथो गुडयवक्षारयुक्तश्चाश्मरि नाशनःकुशकाशनलं वेणु अग्निमन्थाक्षनृत्तकम् ॥९॥श्वदंष्ट्रा मोरटा वापि तथा पाषाणभेदकम्पलाशस्त्रिफलाक्वाथो गुडेन परिमिश्रितः ॥१०॥पाने मूत्राश्मरीं हन्ति शूलबस्तौ व्यपोहति ॥११॥एलाकणावृषत्रिकण्टकरेणुकाचपाषाणभेदमधुकं च फलत्रिकञ्चएरण्डतैलकशिलाजतुशर्कराद्यं क्वाथोऽमरीञ्च हनते तथा सोष्णपानम् ॥१२॥गोक्षुरकस्य बीजानां धातुमाक्षिकसंयुतम्चूर्णं महिषीदुग्धेन पानं चाश्मरीपातनम् ॥१३॥शस्त्रविधिरुत्तरीये सूत्रस्थाने प्रोक्तं घृताध्याये च स्मृतम् ॥१४॥पुराणषष्टिका शालिरक्ततण्डुलकास्तथाश्यामाकः कोद्रवो दालो मर्कटी तृणधान्यकम् ॥१५॥यवगोधूमकुलत्थास्तथाचैवाढकी भिषक्वातहराः प्रयोक्तव्या भोजने वातरोगिणाम् ॥१६॥क्रौञ्चाद्यानि च मांसानि पथ्यान्यश्मरीनाशने ॥१७॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अश्मरीचिकित्सानामैकत्रिंशोऽध्यायः ॥३१॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP