संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
सप्तत्रिंशोऽध्यायः

तृतीयस्थानम् - सप्तत्रिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
वाताभिघातपवनाद्व्रणाद्वापि तथा पुनः
रक्तनाड्यः प्ररोहन्ति रुन्धन्ति च तथा पुनः ॥१॥
तेन रक्तस्य मार्गस्तु रुध्यते तेन जायते
अर्बुदञ्चमहास्थूलं मार्गरोधाच्च जायते ॥२॥
वातान्मृदुच परुषं कफाच्च घनशीतलम्
पित्तेन दाहपाकाद्यं विजानीयं विचक्षणैः ॥३॥
सन्निपातेन काठिनं घनं पाषाणसन्निभम्
वृद्धिमच्च गडुकं स्यादसाध्यं तद्भिषग्वर ॥४॥
तस्यादौ पाटनं कार्यं मर्मस्थानञ्च वर्जयेत्
सैन्धवेन घृतेनापि कुर्यात्तस्यानुलेपनम् ॥५॥
सूरणं कन्दकं दग्ध्वा घृतेन च गुडेन च
लेपनं चार्बुदानाञ्च नाशनञ्च भिषग्वर ॥६॥
शेषा व्रणक्रिया प्रोक्ता शस्ता वार्बुदशान्तये
वातघ्नानि च पथ्यानि हितानि मधुराणि च ॥७॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अर्बुदचिकित्सा नाम सप्तत्रिंशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP