संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| त्रिंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - त्रिंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता त्रिंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचपिबेत्कर्कटिक्काबीजं त्रिफलासैन्धवान्वितम्उष्णाम्बुचूर्णितं पीतं मूत्ररोधं शमं नयेत् ॥१॥यस्तिलकाण्डक्षारं दधिमधुसंमिश्रितं पिबेत्स नरश्च मूत्ररोधं हत्वा सद्यः सुखमाप्नोति ॥२॥अजाक्षीरेण संमिश्रं जातीमूलं प्रपेषितम्पिबेत्सदाहमूत्रोष्णवेदनाशमनं यतः ॥३॥तैलेन पद्मिनीकन्दं पक्वगोमूत्रमिश्रितम्पिबेन्मूत्रनिरोधे तु सतीव्रवेदनान्विते ॥४॥पित्तप्रकोपनैर्द्रव्यैः कट्वम्लवर्णैस्तथागौरास्त्रीसेवनेनापि रक्तं वापि प्रवर्त्तते ॥५॥मद्यपानेन चोष्णेन श्रमव्यायामपीडितैःपित्तं प्रकोपयेच्छीघ्रं करोति मूत्रकृच्छ्रकम् ॥६॥तेन मूत्रयते कृच्छ्रं चोष्णधारा प्रवर्त्ततेमूत्रस्रोतश्च हरति रक्तं चापि प्रवर्त्ततेतस्य वक्ष्यामि भैषज्यं येन संपद्यते सुखम् ॥७॥यष्टीमधुकमृद्वीकाचन्दनं रक्तचन्दनम्रक्ततण्डुलतोयेन मूत्रकृच्छ्ररुजापहम् ॥८॥वटप्ररोहमालासु द्राक्षाशर्करयान्वितःलेहोऽयं मूत्रकृच्छ्रस्य नाशनो भिषजां वर ॥९॥देहोपशमनः प्रोक्तः शीतगाहनकोपतःमूत्रकृच्छ्रे तु तत् प्रोक्तं भोजनं मधुरं हितम् ॥१०॥उत्तानस्य रतौ भङ्गाद्दाहव्यायामजातकेमूत्ररोघे वचा वर्या दद्यात्तत्रा निरोधकान् ॥११॥अव्यायामे शुभं भोज्ये शीतावगाहिता नरेएतैस्तु कुपितो वायुर्मूत्रद्वारं प्ररुन्धति ॥१२॥श्लेष्मसहितः पापिष्ठ उक्तः कष्टतमो गदःशृणु तस्य प्रतीकारं कषायं वानुवासनम् ॥१३॥बस्तिनिरूहक्वाथं च मूत्ररोघे हितो विधिःसर्वसंस्वेदनं चैव स्थानं वक्रमणाविव ॥१४॥तुरङ्गशकटारोहधावनं च हितं मतम्फलत्रिकं समगुडं क्वाथः क्षीररसेन तु ॥१५॥पानं मूत्रनिरोधेषु पित्ताद्वा लवणाम्लिकम्पाटला टुण्टुका चैव निम्बगोक्षुरकं तथा ॥१६॥एलात्वक् च तथा पत्रं क्वाथस्त्रिफलयान्वितःगुडेन संयुतं पीतं हन्ति मूत्रनिरोधकम् ॥१७॥दाडिमाम्लयुतं चैव हितं मूत्ररुजां नृणाम्त्रिफलेक्षु सिताक्वाथगुडेन सह सैन्धवम् ॥१८॥मूत्ररोधं वारयति पथ्या वा गुड संयुताअथवा तोदनन्नारीमैथुनं च विधेयकम् ॥१९॥तेन सौख्यं भवेच्छीघ्रं स्त्रीणाञ्च योनिमर्दनम् ॥२०॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूत्ररोधचिकित्सा नाम त्रिंशोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP