संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
चतुर्विंशोऽध्यायः

तृतीयस्थानम् - चतुर्विंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
गुडनिषेवणाच्चाम्ले विरुद्धाहारसूचिते
कुपितञ्चाम्ल पित्तञ्च कण्ठस्तेन विदह्यते ॥१॥
दाहो वा हृदये तस्य शिरोऽर्तिश्चैव जायते
उद्गारानम्लकान् कण्ठे हिक्काम्लोऽपि प्रधावति ॥२॥
शृणु तस्य प्रतीकारं वमनं कारयेद्द्रुतम्
अधोगते चाम्लपित्ते विरेकश्च प्रदीयते ॥३॥
पारिभद्रदलानीति आमलक्याः फलानि च
क्वाथपानं प्रयोक्तव्यमम्लपित्तं व्यपोहति ॥४॥
पटोलपाटलाक्वाथो धान्यनागरकान्वितः
जलेन हितकः प्रोक्तश्चाम्लपित्तनिवारणे ॥५॥
पटोलविश्वामृतवल्लितिक्तापत्राणि निम्बस्य च वत्सकानाम्
क्वाथो विसर्पकृतमम्लपित्तं विनाशयेन्मण्डलकानिदद्रून् ॥६॥
रात्रौ सम्पाचनं देयं धान्यनागरकल्कितम् ॥७॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अम्लपित्तचिकित्सा नाम चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP