संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| षड्विंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - षड्विंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता षड्विंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचश्वयथूत्थैरुपचारैस्तैश्च संकुप्यतेऽनिलःमन्दाग्निना विषमेण गुल्मं जठरे जायते ॥१॥उदरं गर्जते यस्य विषमाग्निश्च दृश्यतेतोदो वपुषि शूलं च वातगुल्मं विनिर्दिशेत् ॥२॥शोषोऽरतिः सपीतत्वं मन्दज्वरनिपीडिनम्तमोभ्रमपिपासार्त्तिर्गुल्मं तत्पित्तसम्भवम् ॥३॥शोषो जाड्यञ्च हृल्लासस्तन्द्रालस्यं सशीतकम्मन्दाग्निर्विड्विबन्धश्च गुल्मं तच्छ्लेष्मसम्भवम् ॥४॥मोहो विभ्रमता जाड्यमरतिः क्षुत्पिपासकम्आलस्यं निद्रतावेश्यं गुल्मं तत्कफपैत्तिकम् ॥५॥निद्रालस्यञ्च दाहश्च शोफाच्छूलं च सज्वरम्वैवर्ण्यमरतिर्जाड्यं विड्बन्धो विकलाङ्गता ॥६॥तथातिसारो मूर्च्छा च तृढृल्लासश्च वेपथुःश्वासोऽरुचिरजीर्णत्वं गुल्मं तत्सान्निपातिकम् ॥७॥साध्यं केवलदोषोत्थं द्वन्द्व कष्टेन सिध्यतिअसाध्यं सन्निपातोत्थं वक्ष्यामस्तत्प्रतिक्रियाम् ॥८॥यकृद्ग्रहणीचिकित्सैव कथितं चोपवारणम्तद्वत्प्लीहा समाख्यातो न चात्र कथितः पुनः ॥९॥चिकित्सोदरगुल्मस्य वक्ष्यते शृणु साम्प्रतम्स्नेहनं रूक्षणञ्चैव पाचनं शोधनानि च ॥१०॥संशमनं विरेकश्च बस्तिस्नेहनिरूक्षणम्क्षारपानञ्च चूर्णानि गुल्मोपचरणक्रिया ॥११॥शुण्ठी दारु सुरसा च मूर्वा पञ्चमूलं लघुःक्वाथोऽस्याष्टावशेषः स्यात्तन्समं क्षीरमेव च ॥१२॥दधि तत्सममाज्यं तु पाचयेत्तत्समाग्निनाघृतं यावत्प्रदृश्येत सिद्धमुच्चार्यते ततः ॥१३॥तत्कृतं पानकेऽभ्यङ्गे भाजने च प्रदापयेत्स्नेहः सप्तविधो यावत्तस्माच्च रूक्षणं हितम् ॥१४॥दिनत्रयञ्च कर्त्तव्यं कथयाम्यत्र कोविदशुण्ठी सौवर्चलं जीरे द्वे वा हिंगु समन्वितम् ॥१५॥काञ्जिकं पानमेतेषां रूक्षणं गुल्मशान्तयेगुल्मचिकित्सते क्षारपाकोऽत्र प्रतियुज्यते ॥१६॥क्षारं पलाशार्जुनसूरणस्य तथैव क्षारं सहयावशूकम्सौवर्चलं सिन्धुभवोद्भिदञ्च सामुद्रजं वापि विमिश्रयेच्च ॥१७॥तोयं परिस्राव्य विधानतोऽपि युक्तं तथैतानि सदौषधानिपथ्याग्निशुण्ठीरजनीसुराह्वं कुष्ठं विशाला च जवानिका च ॥१८॥तथाजमोदा सह जीरके द्वे षड्ग्रन्थिका हिंगुयुतं च चूर्णम्क्षारोदकापानविमिश्रिपानं निहन्ति सर्वाण्यपि कोष्ठजानि ॥१९॥गुल्मानि सर्वाणि विषूचिकानां मन्दाग्निशूलानि भगन्दराणाम्प्लीहोदरानाहं च विड्विबन्धं विनाशयेद्रोगत्रयं नराणाम् ॥२०॥पथ्या समङ्गा कलसी वृषञ्च महौषधं वातिविषा सुराह्वम्जले च निष्क्वाथ्य त्विदं हि पानं गुल्मामयानां प्रतिपाचनञ्च ॥२१॥वचायवानीत्रिकटुदशमूलीजलं स्मृतम्क्वाथश्चोष्णो हितः पाने धान्यनागरयथवा ॥२२॥वातगुल्मेषु सर्वेषु ज्वरेषु विषमेषु चरास्नाद्यं पञ्चकं वापि वातगुल्मप्रपाचनम् ॥२३॥शठी सौवर्चलं शुण्ठी पाचनं वाथ गुल्मिते ॥२४॥विदुला द्राक्षा कटुका निम्बपत्राणि चैव तुसगुडं पाचनं देयं पैत्तिके गुल्मरोगिणि ॥२५॥धात्रीकल्कं सितोपेतं पाचनं पित्तगुल्मितेयवानी चोग्रगन्धा च तथा च कटुकत्रयम्पाचनं श्लैष्मिके गुल्मे पीतं चोष्णं निशासु च ॥२६॥नागरा क्रिमिजित्पथ्या त्रिवृतात्रिगुणायुताचूर्णं गुडान्वितं देयं वातगुल्मविरेचनम् ॥२७॥दन्ती च भागमेकं च द्वौ भागौ च हरीतकीत्रिवृताभागत्रयं स्याच्छुण्ठ्याश्चत्वार एव च ॥२८॥प्रक्षिप्य सर्वमेकत्र सर्वतुल्यगुडेन तुवटकं भक्षयेत्प्रातस्तस्योपरि जलं पिबेत् ॥२९॥क्वथितं च विरेकाय वातगुल्मोपशान्तये ॥३०॥पिबेदेरण्डतैलं च शर्कराक्षीरसंयुतम्पित्तगुल्मविरेकाय श्रेष्ठेमेतत्सुखावहम् ॥३१॥आरग्वधप्रवालानि तथैवारग्वधानि चविभाव्यैरण्डतैलेनैरण्डपत्रैस्तु वेष्टयेत् ॥३२॥कर्दमेन प्रलिप्याथ अङ्गारेषु च स्थापयेत्सुस्विन्नभर्जिकां ताञ्च भक्षयेच्छर्करान्विताम् ॥३३॥विरेकः पैत्तिके गुल्मे हितं शुद्धविरेचनम् ॥३४॥त्रिफलासुरसाशुण्ठीचूर्णं कृत्वा विभावयेत्स्नुहीक्षीरेण वारैकं गुडेन सह मिश्रितम् ॥३५॥विरेकः श्लेष्मके गुल्मे सर्वोदरविनाशनः ॥३६॥शुण्ठी सौवर्चलं पथ्या विडङ्गञ्च पुनर्नवाचूर्णेऽपामार्गबीजानां स्नुहीक्षीरेण भावितम् ॥३७॥गुडेन संयुतं खादेत्पश्चादुष्णं जलं पिबेत्विरेकः सर्वगुल्मेषु प्रशस्तो हितकारकः ॥३८॥शुक्तिक्षारनिशाविशालकदली स्यात्सूरणं कोकिलापालाशं दहनार्जुनं शठिजयापामार्गकूष्माण्डकम् ।दग्ध्वा क्षारविपाचितं परिस्नुतं हिंगु त्रिकट्वान्वितं गुल्मानाहविबन्धशूलहरणं सर्वोदराणां हितम् ॥३९॥अजमोदा शठी दन्ती विडङ्गं कुष्ठतुम्बुरूत्रिफला चित्रकं चैव शुण्ठी कर्कटशृङ्गिका ॥४०॥त्रिवृता च सुराह्वा च पुष्करं वृद्धदारुकम्तथाम्लवेतसं चैव तिन्तिडीकञ्च चिञ्चिनी ॥४१॥समं तु मातुलुङ्गेन विभाव्यमेकतः कृतम्त्रिभागहिंगुसंयुक्तं घृतेन चूर्णितं हितम्निहन्ति वातगुल्मञ्च सशूलमुदरं तथा ॥४२॥हिंगुफलत्रिकजीरकयुग्मं चित्रकभार्ङ्गी कुष्ठविडङ्गम्तुम्बुरुपुष्करविश्वसुराह्वं क्षारयुतं लवणानि च पञ्च ॥४३॥वातिकगुल्मविनाशनहेतोः शूलरुजश्च निहन्ति नराणाम् ॥४४॥हिंगुसौवर्चलाजाजी विश्वा कुष्ठं विडङ्गकम्आरनालेन पीतं च हन्ति गुल्मं सवातिकम् ॥४५॥जीरे द्वे त्रिकटु शठी तुम्बुरु चित्रकं मधुलेहः पित्तात्मके गुल्मे हितः शोफनिवारणः ॥४६॥यष्टिकं निम्बपत्राणि तथा धात्रीफलं सिताचूर्णं मध्वावलीढं च पित्तगुल्मनिवारणम् ॥४७॥त्रिकटुत्रिफलाचित्रवटकफलसंयुतम्चूर्णं मद्येन वा पीतं फलक्वाथेन वा हितम् ॥४८॥श्लेष्मगुल्मविनाशाय हितं चैतत्सुखावहम् ॥४९॥रोध्रं च कमलं विश्वा कुष्ठं चित्रकमेव चनागरहिंगुसंयुक्तं चूर्णं मूत्रेण संयुतम् ॥५०॥श्लेष्मगुल्मविनाशाय शूलोदरविनाशनम्उग्रगन्धा च मरिचं क्षारचूर्णसमन्वितम् ॥५१॥पिबेन्मूत्रेण संयुक्तं श्लेष्मगुल्मविनाशनम् ॥५२॥शुण्ठी सौवर्चलं भार्ङ्गी वत्सकं यावशूककम्जीरे द्वे चाटरूषं च यवानी हिंगु सैन्धवम् ॥५३॥आरग्वधेन संयुक्तं चूर्णं सघृतमेव चवातश्लेष्मोद्भवे गुल्मे सुखमाशु प्रपद्यते ॥५४॥उग्रगन्धा फलत्रिकं देवदारु पुनर्नवात्रिवृत्सौवर्चलोपेतं क्षारोदकसमन्वितम्पीतं वातकफे गुल्मे सुखकारि परं मतम् ॥५५॥ग्रहणीगुल्मक्रिया या सा चात्र प्रभवेद्यदिशोफोदरेषु सर्वेषु कार्यञ्चात्र विरेचनम् ॥५६॥शोफातिसारसंयुक्तो हन्तिगुल्मोदरो नरम्तस्य क्षारोदकपानं बृहद्धिंग्वादिचूर्णकम् ॥५७॥अजमोदादिकं वापि शोफातिसारशान्तयेवमिश्चैवातिसारश्च गुल्मरोगेषु यद्यपि ॥५८॥तेन साध्यं विजानीयात्प्रत्याख्येया क्रिया हितागुडदाडिमपथ्यां च मधुना सहितां पिबेत् ॥५९॥वमिञ्च वातिसारं च वारं वारं प्रयोजयेत्सर्वलक्षणसंयुक्तं गुल्मं तत्सान्निपातिकम् ॥६०॥तोदोऽरतिर्विवर्णत्वं मूर्च्छातीसारसंयुतम्वमिः क्लेदश्च तन्द्रा च तदसाध्यं त्रिदोषजम् ॥६१॥शृणु पुत्र महाप्राज्ञ एकाग्रमनसाधुनाशोफोद्धारक्रियां नृणां वक्ष्यते च विजानता ॥६२॥त्रिवृत् तथाचेक्षृगुडेन युक्ता अनन्तरं कोष्णजलेन पीतातस्मान्निहन्त्योदरकं सशोफं पित्तात्मकं वा विजहाति पुंसाम् ॥६३॥हरीतकी च त्रिवृता च शुण्ठी गुडेन युक्ता त्वथ हन्ति शोफम्द्विपञ्चमूलं क्वथितं सुखोष्णमेरण्डतैलेन जहाति शोफम् ॥६४॥गोमूत्रयुक्तं वरुणस्य तैलं पाने हितं नाशयते च शोफम् ॥६५॥ग्राम्यानूपं पिशितलवणञ्च शुष्कशाकं नवान्नं गौडं पिष्टान्नं सदधिकृशरञ्चविजलं मद्यमन्नम्धान्यं वल्लूरं शोफकरणमथ गुर्वसात्म्यं विदाहिस्वप्नं वापि रात्रौ श्वयथुगदवान् वर्जयेन्मैथुनञ्च ॥६६॥लेपोऽरुष्करस्यशोफं हन्ति तिलदुग्धमधुकनवनीतैःतत्तरुतलमृद्भिर्वा सकदलैर्वापिसविरणैः ॥६७॥शोषे विषनिमित्ते तु विषोक्ता शमनक्रियालङ्घनं दीपनं स्निग्धमुष्ण वातानुलालनम् ॥६८॥बृंहणं तु भवेदन्नं तद्विषं सर्वगुल्मिनाम्वल्लूरं मूलकं मत्स्याञ्छुष्कशाकादि वैदलम् ॥६९॥न खादेद्वालुकं गुल्मी मधुराणि समानि च ॥७०॥सरक्तगुल्मे न तु पाचनं तु न हिंगुपानं कटिचालनं चचैव संस्वेदनमर्दनञ्च न चक्रमं नोत्प्लुवनं हितं च ॥७१॥रोध्रार्जुनं खदिरमागधिकासमङ्गक्वाथोऽम्लवेतसमधुघृतसम्प्रयुक्तःगुल्मं सरक्तमपि चाथ निहन्ति चाशु हृत्क्लेदनं च विनिहन्ति च क्रुद्धरक्तम् ॥७२॥क्षीरपानं प्रदातव्यं घृतसौवर्चलान्वितम्रक्तगुल्मविनाशाय यकृद्विक्षतजेऽपिवा ॥७३॥न च हिंगुयुतं पथ्यं न चोष्णं न विदाहि चरक्तजे क्षतजे गुल्मे मांसानि जाङ्गलानि च ॥७४॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गुल्मचिकित्सा नाम षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP