संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| एकोनचत्वारिंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - एकोनचत्वारिंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता एकोनचत्वारिंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचविरुद्धपानानि गुरूणि चाम्लपापोदकं सेवनकेन वापिनिद्रा दिवासुप्रतिजागराच्च पित्तं प्रकुप्येद्रुधिराश्रितं तत् ॥१॥त्वचागतः सर्पति रोगदोषः कुष्ठेति संज्ञा प्रवदन्ति धीराःपापोद्भवास्ते प्रभवन्ति देहे नृणां भृशं कोपयतां विधिज्ञ ॥२॥कुष्ठानि चाष्टादशधा वदन्ति तेषां पृथक्त्वेन वदामि लक्षणम्असाध्यसाध्यानि च कर्मजानि दोषोद्भवानि च सहजानि तानि ॥३॥कारुण्यपारुष्यमथैव कण्डूरोमप्रहर्षः स्तिमितं तथैषाम्तोदस्तथा संव्यथनं च देहे त्वचि स्थिते कुष्ठभवेति चिह्नम् ॥४॥कपालकं चैवमुदुम्बरञ्च तथैव दद्रूणि च मण्डलानिविसर्पकं हस्तिबलं किणञ्च गोजिह्वकं लोहितमण्डला वा ॥५॥वैपादिकं चर्मदलं तथान्यं विस्फोटकान्यथ बहुव्रणञ्चकण्डूर्विचर्ची कथितं तथान्यद्धातुप्रभेदास्त्वचि रोगसिद्धाः ॥६॥कपालकाभं सितवर्णकञ्च कपाल्यकं तद्गदितं विधिज्ञैःस्निग्धञ्च सर्वाङ्गगतं च कण्डूमुदुम्बरं तं प्रवदन्ति सन्तः ॥७॥दद्रूपमं यद्भवते च दद्रूर्दद्रूपमं मण्डलकं तमाहुःविसर्पकं सर्पति तद्विसर्पे तथान्यमान्तं गजचर्मतुल्यम् ॥८॥यद्द्रुष्यपारुष्यसकर्कशञ्च गोजिह्वकं स्यात्खलु भेदयोग्यम्यवासरक्तानि च मण्डलानि सकण्डुकानि व्रणसंयुतानि ॥९॥ज्ञेयं तु तल्लोहितमण्डलञ्च रक्तोद्भवं तद्रुधिराश्रितञ्चसवेदनार्त्तस्य परिस्फुटञ्च विपादिका सा कथिता विधेया ॥१०॥सरक्तवातकुपितेन जाता तथैव विस्फोटकसन्निभा वातथापरं नाम बहुव्रणं च सूक्ष्मा च सा सुविदिता नरस्य ॥११॥कण्डूर्विचर्चीभुवने प्रतीता श्वेतानि सूक्ष्माणि च पाटलानिविसर्पते यस्य नरस्य रक्तं युवा न केनापि भवेच्च सिद्धः ॥१२॥शिरीषपुष्पाणि शिरीषकाणिं सन्त्यक्तभावः पुरुषश्च सूक्ष्मःतोदस्तथा वेपथुवातलिङ्गं पित्तेनशोषभ्रमदाहतृष्णाः ॥१३॥श्लेष्मोद्भवे कठिनशीतलपाण्डुरञ्च नेत्रे नखेषु च वपुष्यभिलाषता चमिश्रेण संशृतभवानि भवन्ति यस्य स्यात्सान्निपातिकभवं बहुभिश्च लिङ्गैः ॥१४॥रूक्षं तथा सकण्डू त्वक्स्थितञ्च मृदु शीतलम्आस्रावदाहरक्ताभं रक्तस्थं रक्तगं विदुः ॥१५॥सुस्निग्धं तोदगम्भीरं मांसगञ्च विनिर्दिशेत्मेदःस्थन्तोदवेष्टत्वं सुस्निग्धं रक्तलोचनम्अस्थिसंस्थञ्च गम्भीरं विसर्पे नासिकामुखे ॥१६॥मज्जसंस्थश्च विकलो मज्जास्रावश्च जायतेविशीर्यते च सर्वाङ्गे तथैव शुक्रगं विदुः ॥१७॥अतो वक्ष्ये समासेन प्रतिकर्म भिषग्वर ॥१८॥त्वक्स्थे स्वेदस्तथालेपो रक्तस्रावश्च रक्तगेविरेकं मांसगे प्रोक्तं मेदोगे क्वाथपाचनम् ॥१९॥अथ तानि च त्रीण्येवमस्थिमज्जागतानि चवातिके स्वेदनं पथ्यं पित्ते शीतोपचारणम् ॥२०॥कष्टसाध्यमिदं प्रोक्तमसाध्यं सान्निपातिकम्रोगकारणमालोच्य तदा कर्म समारभेत् ॥२१॥पक्षान्पक्षाञ्छोधनं पाचनञ्च मासान्मासान्कारयेद्रेचनञ्चमासान्कुष्ठे शोधनाय प्रकर्षात्षष्ठे षष्ठे मास्यसृग्मोक्षणञ्च ॥२२॥वासापटोलफलिनीलवणं वचाञ्च निम्बत्वचं क्वथितमाशु पिबेत्कषायम्कुष्ठे करोति वमनं मदनान्विते च पथ्याकषाय वमने मदनान्वितेषु ॥२३॥फलत्रिकं त्रिवृद्दन्ती विरेचकं भिषग्वरक्वाथो वचोष्णतोयेन पानेस्याद्भिषगुत्तम ॥२४॥श्वासप्रश्वासयोर्वेध्या शिरा शिरसि चेद्बहिःततः प्रयोजनीयञ्च क्वाथस्नेहस्य भोजनम् ॥२५॥शुण्ठीकणाखदिरपाटलिकापटोलीमञ्जिष्ठाक्षुरविषबिल्वयवानिकानाम्वासाफलत्रिकजलेन कषायसिद्धः पानान्निहन्ति मनुजस्य च कुष्ठदोषम् ॥२६॥वासाविडङ्गपिचुमन्दपटोलपाठाशुण्ठीसुरेन्द्रतरुपञ्चतरुमूलपथ्याःक्वाथो निहन्ति मरुत्प्रभवं च कुष्ठं त्रिःसप्तकेऽहनि महौषधमेव योज्यम् ॥२७॥नित्यं छिन्नोद्भवाचूर्णं तस्याः क्वाथसमन्वितम्पीतं जीर्णे सघृतञ्च पीतञ्च षाष्टिकं पयः ॥२८॥हन्ति कुष्ठानि सर्वाणि सप्तधातुगतानि च ॥२९॥काश्मर्यदरदघनञ्च कुष्ठं निशाद्वयं काञ्जिककुष्ठमेतत्लेपे प्रशस्तं विनिहन्ति कुष्ठं विचर्चिकां तथा विसर्पदोषम् ॥३०॥पिष्टानि तत्र मधुकाञ्जिकमूत्रपिष्टलेपेन कुष्ठमपि दुष्टविचर्चिकाञ्च ॥३१॥विसर्पदोषे प्रोक्तानि धावनानि च कारयेत्सौवीरकरसेनापि धावनं त्रिफलाम्बुना ॥३२॥वातिके चैव कुष्ठे च प्रशस्तं कथितं बुधैःनिम्बपत्रकषाये च यष्टी मधुककल्कितम् ॥३३॥दुग्धेन शीतलेनापि विदार्याः क्वाथकेन वाहन्ति कुष्ठं महाघोरं धावनं न प्रशस्यते ॥३४॥अग्निमन्थपटोलानि मातुलुङ्गदलानि चसठीपर्पटकः क्वाथो धावनं श्लेष्मरोगिणाम् ॥३५॥विपादिकां नवनीतेन क्षालयित्वा विदांवरस्वेदयित्वार्कदुग्धैश्च मधुतैलेन लेपनम् ॥३६॥खदिरनिम्बकदम्बकं तथा ककुभः पाटलिका शिरीषकम्कुटजकिंशुकवासुसमोरटः वटकुटं नटपिप्पलिपीलुकम् ॥३७॥धवमुदुरम्बवेतसमेकतः क्वथितपानविधानघृतेन तुसकलकुष्ठ विनाशनकारकं भवति चेन्दुसमानवपुर्नरः ॥३८॥आरग्वधधातकीकर्णिकारधवार्जुनैः सज्जककिंशुकानाम्कदम्बनिम्बकुटजाटरूषाः खदिरेण युक्ताश्च तथैव मूर्वा ॥३९॥मूलानि चैषामुपहृत्य सम्यगष्टावशेषे क्वथितः कषायःघृतेन तुल्यं प्रतिमानवस्य निहन्ति सर्वाणि शरीरजानि ॥४०॥कुष्ठानिसर्वाणि विसर्पदद्रुविचर्चिका हन्ति नरस्य शीघ्रम् ॥४१॥खदिरकदरमूर्वावालकं कर्णिकारः कुटजसपरिभद्रारग्वधाश्चेति पिष्टाःक्वथितमिततमांशं वैघृतपानमस्य विनिहन्ति सकलान् वै कुष्ठवैसर्पदर्पान् ॥४२॥भल्लात्कत्र्यूषणमक्षचूर्णं कुष्ठञ्च गुञ्जालवणानि पञ्चफलत्रिकं तैलविपाचितानि चाभ्यञ्जनं हन्ति च दद्रुकुष्ठम् ॥४३॥अश्वघ्नमूलं मलिनं समङ्गा निशाद्वयं सर्षपचित्रकञ्चसभृङ्गराजं कुहतुम्बिका च कुष्ठं विडङ्गं मगधा च चूर्णम् ॥४४॥स्नुह्यर्कदुग्धेन विपाचितं तु तैलं तिलानां परिपक्वमेतत्अभ्यञ्जनं चैव नरस्य नूनं दद्रूणिकण्डूनि विनाशयेच्च ॥४५॥हरिद्रा समङ्गा सुराह्वं सचित्रविडङ्गानि कृष्णा विशालाम्बु कुष्ठम्तथा लाङ्गली चक्रमर्द्दं च गुञ्जा विशाला तथारिष्टपत्राणि चैतत् ॥४६॥चूर्णं कृतं भावितं वै तथैतद्गुडेन घर्मे विपाच्यम्हितं लेपने कुष्ठपामाविचर्चीर्नरस्यातिशीघ्रं निहन्ति ॥४७॥निम्बं पटोलं च किरातकञ्च जाती विशाला सपुनर्नवा चपयोदलाक्षारसमेव वासा त्रायन्तिका बिल्वककुष्ठयष्टिः ॥४८॥संचूर्णितं क्षीरदधिसमेतं घृतं विपक्वं परिषेचने चहितञ्च कुष्ठक्षत दद्रुरक्तं पामविचर्चीर्विनिहन्ति कण्डूम् ॥४९॥पित्तञ्चैव गदं भूत्वा वातेनैव समीरितम्सरक्तञ्च प्रकुपितं कुरुते पाण्डुरच्छविम् ॥५०॥स्तब्धचित्तं विरूपञ्च तस्य च लक्षणम्असाध्यं कुष्ठं साध्यं वा विज्ञेयं तद्भिषग्वरैः ॥५१॥ईषद्रक्तं भवेत् पाण्डु सन्निपातोत्थं च जायतेअसाध्यं तच्च सर्वाङ्गचित्रं स्निग्धं तदेव तु ॥५२॥पीतच्छवि पाण्डुररूक्षमेव उपागतं साध्यतमं प्रतीतम्सम्पाचनं शोधनमेव शस्तं विरेचनं रक्तविमोक्षणञ्च ॥५३॥वासागुडूचीत्रिफलाकरञ्जपटोलनिम्बार्जुनवेतसानाम्कृष्णासमङ्गासहितं च कल्कं पाने हितं चित्रकमण्डले च ॥५४॥खदिरवासकनिम्बपटोलकैर्धवयवासकमेव फलत्रिकैःसकलकुष्ठविसर्पकमण्डलं विजयते मनुजस्य च पाण्डुरम् ॥५५॥पाठाविडङ्गमगधासुरदारुचित्रं दद्रुघ्नरात्रि युगलं च तथा समङ्गाकुष्ठं वचामधुकसैन्धवकाञ्जिकेन पिष्टं तु मूत्रकरुधिररसेन वापि ॥५६॥प्रलेपने चित्रमथैव सिद्धं विनाशमायाति च कण्डुकुष्ठम्विचर्चिकां नाशयते च कण्डूं विस्फोटमाशु प्रति सर्पणानि ॥५७॥भृङ्गराजो हरिद्रा च दूर्वा जाती विडङ्गकाःकृष्णास्तिलाश्चित्रकाणि तथैव हरिचन्दनम् ॥५८॥मूत्रेण पेषितं तत्तु लेप्लनं चित्रकुष्ठिनिहन्ति दद्रूणि सर्वाणि कुष्ठं दद्रूविचर्चिकाः ॥५९॥न विदाहीनि चाम्लानि वातलानि तथैव चज्वरे च प्रोक्तानि पथ्यानि तानि चात्र प्रयोजयेत्व्रणेषु कुष्ठराजीषु हितमेवोपचारिणाम् ॥६०॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने कुष्ठचिकित्सा नामैकोनचत्वारिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP