संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| चतुर्थोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - चतुर्थोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता चतुर्थोऽध्यायः Translation - भाषांतर आत्रेय उवाच॥शृणु पुत्र प्रवक्ष्यामि गुल्मानां चैवलक्षणम्तस्मात्तेषां प्रतीकारमौषधानि विशेषतः ॥१॥पञ्चधा सम्भवंत्येते गुल्मा जठरसंसृताःहृत्कुक्षौ नाभिबस्तौ च मध्ये च पञ्चमः स्मृतः ॥२॥हृदयस्थो यकृन्नाम कुक्षौ साष्ठीलकोच्यतेमध्ये प्लीहा समाख्यातो बस्तौ चण्डविवृद्धकः ॥३॥नाभौ संलक्ष्यते ग्रन्थी नामान्येषां पृथक् पृथक्अतः प्रकोपं वक्ष्यामि येन कुर्वन्ति बाधकम् ॥४॥स्वभावात्पित्तरक्तोत्थे सेविताम्लविदाहिनम्उष्णं च क्षारमद्यं वा चोष्णपानातिसेवनात् ॥५॥तथा शोकः श्रमोऽध्वानां शोषात्संक्षोभनादपिउच्चभाषण गानेन धनुर्ज्याकरणेन च ॥६॥पृष्टं मुष्ट्यभिघातेन हृदयात्ताडनेन वाभारणोद्धारणाद्वापि रक्तं शोषयते हृदि ॥७॥तेन गुल्मेति नाम तु जायते रक्तपित्तकम्कदाचित्रिषु दोषेषु सम्भवश्चास्य दृश्यते ॥८॥वातेनोदीरितञ्चैव कफेन च घनीकृतम्पित्तेन पाकतां प्राप्तं त्रिदोषसंसृतं यकृत् ॥९॥लक्षणं तस्य वक्ष्यामि येन तच्चापि लक्ष्यतेक्षीयते येन मनुजो मृत्युमाशु प्रपद्यते ॥१०॥वमिः क्लमस्तथोद्गारो हृल्लासः श्वसनं भ्रमःदाहोऽरुचिस्तृषा मूर्च्छा कण्ठे दाहः शिरोव्यथा ॥११॥हृच्छूलं च प्रतिश्यायष्ठीवनं कटुकैः सहसशल्यं हृदि शूलं च निद्रानाशः प्रलापतः ॥१२॥हृदये मन्यते दार्ढ्यमुदरं गर्जति भृशम्एतैर्लिङ्गैर्विजानीयाद्यकृत्कोष्ठान्तवक्षसि ॥१३॥यदि साक्षात्त्रिकटुकं कुष्ठं तथा पञ्चमकं यवानीम्षष्ठं च सिन्धूत्थविमिश्रितं च सूक्ष्मं च चूर्णं सह रामठेनभक्षेच्च तस्योपरि तक्रपानं निष्क्वाथ्य तोयं च पिबेच्च वाम्लम् ॥१४॥सौवीरकं वा विनिहन्ति शीघ्रं यकृद्विधानुदरशूलकासान्विषूचिकाजीर्णकफामयघ्नं पाड्वामयार्त्तिग्रहणीं सगुल्माम् ॥१५॥शुण्ठ्यादिचूर्णं त्वरितं निहन्तिक्षारं मुष्कककिंशुकार्जुनधवापामार्गरम्भातिला जीवन्तीकनकाह्वयञ्चरजनीकूष्माण्डवल्ली तथा ।वासासूरणमेव तीव्रदहनं प्रज्वाल्य भस्मीकृतं तोयेन प्रतिसेव्य निभृतपयःपानं विधेयं यकृत् ॥१६॥तथाशूलानाहविबन्धकफजान्रोगाञ्जयेत्कामलान्विद्रधीन् हृदिशूलपाण्डुग्रहणीशोफार्शसां पीनसान् ।मन्दाग्नीनामजीर्णकृम्यलसगुदभ्रंशमोहांस्तथा क्षतजवृद्धिस्तेन सदाहशूलकास्युद्गारता वमिः ॥१७॥पूयाभः पततेश्लेष्मा पूतिगन्धोऽतिविस्रकःरक्ताभस्तत्र सङ्काशष्ठीवते स मुहुर्मुहुःतथातिसार्यते रक्तं श्रमः संक्षीयते वपुः ॥१८॥क्षतजाः संसृता गात्रे यकृद्वक्षसि संसृतः ॥१९॥श्वासस्तृषा वमिर्मोहः शोफः स्यात्करपादयोःरुचिबन्धोऽतिसारश्च यकृद्दुरे परित्यजेत् ॥२०॥अतो वक्ष्यामि भैषज्यं येन सम्पद्यते सुखम्तस्यादौ लङ्घनं चैकं पाचनं तदनन्तरम् ॥२१॥शुण्ठ्योपकुल्या तिमिरं शठीनां यवानिकाभीरुहरीतकीनाम्क्वाथोथकल्क पाचनके प्रशस्त आनाहगुल्मार्त्तिविषूचिकानाम् ॥२२॥भद्रोपकुल्याभयशृङ्गवेरं पथ्या त्रिभागा च कणाचतुर्था ॥२३॥क्षतक्षयं यकृत्पूर्वं वोपवासं च पाचनम्न देयं हिंगुसंयुक्तं चूर्णं हितं तद्रातुरे ॥२४॥निम्बनीपधरवेतसं निशा काश्मरी च तुलसी च सिंहिकाक्वाथ एव हृदयामयापहः शूलमाशु यकृदास्यनाशकृत् ॥२५॥सौराष्ट्रिकासीसमहौषधानि दुरालभाजातिप्रवालकं चदार्वी यवानी ककुभं समङ्गा क्वाथः ससर्पिर्यकृदाशु हन्ति ॥२६॥धवार्जुनकदम्बानां शिरीषबदरीषु चनिष्क्वाथ्य पानमामघ्नं विषूच्या शूलवारणम् ॥२७॥कदलीक्षारमादाय शङ्खक्षारमथापि वाप्रस्राव्य जलपानं तु हिंगुसौवर्चलान्वितम् ॥२८॥आमं हरति विसृष्टं शूलं चाशु नियच्छतिविषूचिकानां शमनमजीर्णं जरयत्यपि ॥२९॥मातुलुङ्गरसं ग्राह्यं द्विगुणं तत्र काञ्जिकम्हिंगुसौवर्चलयुतं पानं हन्ति विषूचिकाम् ॥३०॥क्षारं तोयं च पानाय दाहस्योपरि पाचयेत्शूलाध्मानं निहन्त्याशु कुरुते चाग्निदीपनम् ॥३१॥आमेषु वमनं कुर्याद्विपक्वे चैव लङ्घनम्विशिष्टस्वेदनं निद्रा रसशेषे विरेचनम् ॥३२॥उन्मत्ते चातिसारे च वमिक्रोधातुरेषु चअजीर्णे तु विषूच्यां च दिवास्वप्नं हितं भवेत् ॥३३॥न हितं श्लेष्मणि चैव हृद्रोगे तु शिरोरुजिहृल्लासे च प्रतिश्याये दिवास्वप्नं च वर्जयेत् ॥३४॥फलत्रयं त्र्यूषकरञ्जबीजं रसं तथा दाडिममातुलुंग्यःनिशायुतं पेष्यकृता च वर्त्तिस्तदञ्जने हन्ति विषूचिकाञ्च ॥३५॥रास्ना विशाला च सुरब्दकुष्ठं शिग्रु वचा नागरकं शताह्वम्आग्नेय पिष्टाहपुषाविदार्यः खल्लीं विषूचीषु निवारयन्ति ॥३६॥स्वेदो विधेयो घटकस्य बाष्पमेकैर्घटाभिर्वसनेन चोष्णःतथोष्णपाणिं प्रतिसेक एवं जयेद्विषूचीं जठरामयानाम् ॥३७॥गन्धकं सैन्धवं त्र्यूषं निम्बूरसविमर्दितम्आतुरो भक्षयेच्छीघ्रं विषूचीनां निवारणम् ॥३८॥इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गुल्मचिकित्सानाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP