संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| अष्टत्रिंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - अष्टत्रिंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता अष्टत्रिंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचइति व्रणक्रिया प्रोक्ता समासेन भिषग्वरयथायोगं चोपचारं ज्ञात्वा सम्यगुपानरेत् ॥१॥दुष्टाम्बुपानाञ्च कदन्ननिषेवणाच्च सञ्जायते च क्रिमिसम्भवगण्डमालासमारुते च कफपित्तभवे विकारे संसर्पते क्रिमिजदोषगणश्च गण्डात् ॥२॥वातेन वातसदृशानि च लक्षणानि पित्तेन दाहसरुजव्रणशोषतापाःसंश्लेष्मणा च शीतलघना सम्प्रयोगात्स्यात्सन्निपातविहिता च समस्तलिङ्गैः ॥३॥तस्य चेमं प्रतीकारं वक्ष्यामि शृणु पुत्रकरोहिणी विशदा चैव विजया च विभेदिनी ॥४॥कान्तारी वज्रपुष्पा च तथा चेन्द्रायुधापराइति सप्तविधा लूताः शृणु पश्चात्पृथक्पृथक् ॥५॥रक्तमुण्डाभवेद्रक्ता रक्तस्थाने च रोहिणीविशदा मांसलस्थाने श्वेतवर्णा च दीर्घिका ॥६॥विजया च शिरोमध्ये पीतवर्णा यवप्रभा ॥७॥भेदिनी मेदसंस्थाने श्वेता च नीलरेखिका ॥८॥कान्तारी बस्तिमध्ये च श्वेताङ्गा रक्तमुण्डिकावज्रपुष्पा चास्थिमध्ये श्वेता कृष्णा शिरा मता ॥९॥इन्द्रायुधा शिरान्ते च धूम्रा कृष्णा शिरा मता ॥१०॥रोहिण्यंगुलिमात्रेण मूत्रेण विशदा समाविजया च यवाकारा वर्त्तुला विजया तथा ॥११॥अन्या नृणां च विज्ञेया तण्डुलीकण्टकानिभारोहिणी विजया विंशा मांसस्थाने समाश्रिता ॥१२॥गुल्फे वा चास्थिसन्धौ च दृश्यते भेदिनी नरेकुक्षौ कर्णान्तरेऽपाङ्गे कान्तारी विद्धि पुत्रक ॥१३॥वज्रपुष्पा शिरसि च शिरान्ते चेन्द्रायुधा मताअतो वक्ष्यापि भैषज्यं शृणु पुत्र प्रयत्नतः ॥१४॥सान्द्रपूय विस्रावञ्च गम्भीरञ्च व्रणं विदुःअन्यञ्च सरुजं चैव पक्वजम्बूसमप्रभम् ॥१५॥लूताव्रणानां चैतानि अपक्वं यावद्दृश्यतेत्यक्त्वा सन्धिस्थमर्मस्थां लूतां चैवहि तद्व्रणम्तदा तप्तेन तैलेन दाहश्चाशु विधीयते ॥१६॥अङ्कोलश्चैव मद्यानि पारिभद्रदलानि चगृहधूमं कृष्णजीरं गोमूत्रेण तु पेषितम्लेपनं च प्रशस्तं च लूतानां मारणे परम् ॥१७॥पिण्डीतकं विडङ्गानि तथा चेंगुदिमूलकम्बीजपूरकमूलानि पेषितानि विलेपयेत्गण्डमालां तथा घोरां हन्ति शीघ्रं प्रकण्टकान् ॥१८॥स्नुहीक्षीरं चार्कक्षीरं लूतारन्ध्रे नियोजयेत्तेन कीटस्तु तन्मध्ये म्रियते नात्र संशयः ॥१९॥आस्यतो गिरिकर्णीञ्च चन्दनञ्च समांशकम्पिष्ट्वा लेपः प्रयोक्तव्यो लूतां हन्ति सुदारुणाम् ॥२०॥करवीरं चार्कदुग्धं तथा च कटुतुम्बिकाम्निशाद्वयं जाङ्गलिकां तिलतैले विपाचयेत् ॥२१॥लूतामभ्यञ्जने हन्ति गण्डमालाश्च दारुणाम्घृतं जात्यादिकं नाम तथा चात्र प्रयोजयेत् ॥२२॥अन्यान्यपि व्रणे यानि प्रोक्तानि च यथाविधि ॥२३॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने लूतागण्डमालाचिकित्सा नामाष्टत्रिंशोऽध्यायः ॥३८॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP