संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| द्वात्रिंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - द्वात्रिंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता द्वात्रिंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचअत ऊर्ध्वमण्डवृद्धिर्दृश्यते भिषजां वरबाल्ये मातुः पितुर्दोषाज्जयते वृषणानुगा ॥१॥दुष्टदाराविहाराच्च वातो बस्तिगतो भृशम्अण्डस्थानं च सम्प्राप्य तस्य वृद्धिं करोति वै ॥२॥एकैकसन्निपातश्च चतुर्थः सन्निपातिकःपित्तदोषात्सन्निपातात्तथाऽसाध्या इमे स्मृताः ॥३॥दोषान् वक्ष्याम्यौषधानि शृणु तानि भिषग्वरस्वेदनान्यभ्यञ्जनानि क्वाथ्य पानं विधीयते ॥४॥शिरःस्रावो भिषक्श्रेष्ठ तेषां वक्ष्यामि लक्षणम्कम्पश्च मृदुवातेन पित्तेन दाहकज्वरः ॥५॥कफाद्घनश्च शोषश्च कठिनोवृषणो भवेत्रसालशल्लकीक्वाथः तर्कारी कटुतुम्बिका ॥६॥क्वाथसंसेवनार्था च मुष्कवृद्धिः सवातिकेशीततोयावगाहो वा शीतसंसेवनं तथाशीतशीतैश्चलेपश्च पित्तमुष्के प्रशस्यते ॥७॥वचालवणतोयेन कदम्बार्जुनसर्षपैःकषायसेवनैः प्रोक्तं कफमुष्केऽहितापहम् ॥८॥अरुणवरुणकोलं च शालिपर्णी शतावरीक्वाथः पित्तसन्निपातमुष्कवृद्धौ विदां वर ॥९॥वरुणवृक्षादनी चैव दशमूली शतावरीक्वाथपानं वातिके च मुष्कवृद्धौ हितावहम् ॥१०॥एतेन भवते सौख्यं तदा कर्मावकारयेत्कर्णकोषस्य मध्ये तु रक्तान्निर्हारयेच्छिराम् ॥११॥वामकोष्ठस्य वृद्ध्या तु दक्षिणां हारयेच्छिराम्उभाभ्यां द्वे शिरे वेध्ये तेन वा तत्सुखं भवेत् ॥१२॥इति चाण्डक्रिया प्रोक्ता सा चैवोन्नीतरोगिणे ॥१३॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वृषणवृद्धिचिकित्सा नाम द्वात्रिंशोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP