संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| एकविंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - एकविंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता एकविंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचलक्षणं शृणु पुत्र त्वं समासेन वदाम्यहम्गुर्वन्नाहारपुष्टेन मन्दाग्निना व्यवायिनः ॥१॥तर्पितैः कन्दशाकैस्तु आमो वायुसमीरितःश्लेष्मस्थाने प्रपच्यैव जायते बहुवेदनः ॥२॥आमातिसारो वर्तेत सन्धौ शोफः प्रजायतेजरत्वञ्चैव गात्राणां बलासपतनं मुखे ॥३॥पृष्ठमन्यात्रिके जाते वेदनार्त्तेऽपि सीदतिअङ्गं वैकल्यमायाति आमवाते भिषग्वर ॥४॥तस्य नो स्नेहनं कार्यं पाचनञ्च विधीयतेआमं संक्षयते प्राज्ञश्चतुर्धा भेदलक्षणैः ॥५॥विष्टम्भी गुल्मकृन्मेही आमः पक्वाम एव चसर्वाङ्गगो भवेच्चान्यो वक्ष्ये तस्यापि लक्षणम् ॥६॥विष्टम्भी गुरुचाध्मानं बस्तिशूलं च जायतेतस्यापि पाचनं कार्यं स्नेहनं चैव कारयेत् ॥७॥जठरं गर्जते यस्य गुल्मवत्परिपीड्यतेकटिदेशे जडत्वञ्च आमगुल्माभिशङ्कितः ॥८॥तस्यादौ लङ्घनानि स्युर्ज्ञात्वा देहबलाबलम्पाचनं नैव कर्त्तव्यं गुल्मपाके विमूर्च्छति ॥९॥पाचिते चापि गुल्मामे तदाशु मरणं ध्रुवम् ॥१०॥यस्य च स्निग्धता गात्रे जाड्यं मन्दाग्निको बलीस्नेहामो विजलो यस्य स्नेहो वामः प्रकीर्त्तितः ॥११॥तस्य नो स्नेहनं कार्यं चोपवासञ्च कारयेत्पाचनं चैव कर्त्तव्यमामं चैवातिसारयेत् ॥१२॥यस्य शोफाननं जाड्यं तथा चैव घनोदरम्अरुच्यामातिसारश्च सचासाध्यो विजानता ॥१३॥प्रत्याख्येया क्रिया कार्या जीवितस्यापि संशयेपाचनं पाचितं ज्ञात्वा तस्माच्चूर्णानि दापयेत् ॥१४॥सपीतो विजलः श्यामाः पक्वामः पतते त्वधःन बस्तिशूलो भवति आमवाते श्रमः क्लमः ॥१५॥आमपाकीति विज्ञेयो न कुर्यात्तस्य पाचनम्विरेचनं न कर्त्तव्यं स्तम्भनं तस्य कारयेत् ॥१६॥कटिपृष्ठे वक्षोदेशे तोदनं बस्तिशूलवान्गुल्मतो जठरं गर्जेत्तथातः शोफ एव च ॥१७॥शिरोगुरुत्वं भवति आमश्च पतते भृशम्सर्वाङ्गगो भवेत्सोऽपि विज्ञेयोऽसौ विजानता ॥१८॥तस्य च पाचनं कुर्याद्विरेचनमनन्तरम्विष्टम्भी गुल्मपाकी च अन्यः सर्वाङ्गगो मतः ॥१९॥विज्ञेयाश्चात्र ये साध्याश्चान्यौ द्वौ कष्टसाध्यकौस्नेही आमश्च कथितः कृच्छ्रसाध्यं द्वयं मतम् ॥२०॥पक्वामः सुखसाध्यस्तु ज्ञात्वा कर्म समाचरेत् ॥२१॥रास्ना त्रिकण्टमेरण्डं शतपुष्पा पुनर्नवापानं पाचनके शस्तं वामे वाते भिषग्वर ॥२२॥रास्ना श्योनाककाश्मीरं चिक्कणीकं च पुष्करम्क्वाथं शृतं सुखोष्णं च पाचनं पाययेन्नरःएतत्पाचनकं विद्धि प्रोक्तं चामे सवातिके ॥२३॥आमवाते कणायुक्तं दशमूलीजलं पिबेत्गुडूची नागरं पथ्या चूर्णमेतद्गुडान्वितम् ॥२४॥धान्यनागरराजाम्लदेवदारुवचाभयाःपाचनं चामवाते च श्रेष्ठमेतत्सुखावहम् ॥२५॥तथा कोलकचूर्णं वा पिबेदुष्णेन वारिणाआमवातञ्च मन्दाग्निं शूलं गुल्मञ्च नाशयेत् ॥२६॥बलाक्वाथाढकं क्षिप्त्वा दधितक्राढकं क्षिपेत्कुलत्थाढकयूषं तु सौवीरस्याढकं तथा ॥२७॥एकत्र कृत्वा विपचेद्योजयेदौषधञ्च तत्शतपुष्पा देवदारु पिप्पली गजपिप्पली ॥२८॥त्रिसुगन्धि मुरामांसी कुष्ठं द्विपञ्चमूलकम्चूर्णं विनिक्षिपेत्तत्र सिद्धं तदवतारयेत् ॥२९॥पाने चाभ्यन्तरे योज्यं निरूहे बस्तिकर्मणिहन्ति वातामयं सर्वं श्रेष्ठं गुणगणप्रदम् ॥३०॥पिबेदेरण्डजं तैलं गुडक्षीरेण संयुतम्सर्वाङ्गे चामवाते हि श्रेष्ठमेतद्विरेचनम् ॥३१॥नागरस्य भागमेकं द्वौ भागौ क्रिमिजस्य तुत्रिवृद्भागत्रयं क्षिप्त्वा चूर्णं गुडसमं वटम् ॥३२॥भक्षेत्तथोष्णतोयेन पुनश्चोष्णं पयः पिबेत्एतेन जायते वामे विरेकः सुखकारकः ॥३३॥विडङ्गशुण्ठी रास्ना च पथ्या त्रिकटुकान्विताक्वाथमष्टावशेषं च कारयेद्भिषजांवरः ॥३४॥दुग्धं क्वाथार्द्धकं तैलं तथैवैरण्डजं क्षिपेत्कर्षमात्रं सुपातव्यो विरेकश्चानुपानतः ॥३५॥गुडूची त्रिफला पथ्या गुडेन सह भक्षयेत्विरेको ह्यामवातेषु श्रेष्ठमेतत्सुखावहम् ॥३६॥अभया मस्तुना पिष्टा मधुशर्करयान्विताआमातिसारं स्तम्भेत्तु गुडामलकमेव च ॥३७॥वत्सकं जीरके द्वे च दध्ना पिष्टं तु दापयेत्आमातिसारशमनं बस्तिशूलं नियच्छति ॥३८॥गुग्गुलं च रसोनं च हिंगु नागरसंयुतम्क्वाथं वामविनाशाय शमनं मारुतस्य च ॥३९॥अजमोदोग्रगन्धा च कुष्ठं त्रिकटुकं शठीफलत्रिकं च भार्ङ्गी च पुष्करं लवणाष्टकम् ॥४०॥जीरके द्वे विडङ्गानि तुम्बुरू द्वे च दारु चतथा बिल्वा शिला भेदो रोध्रं वत्सकवासकम् ॥४१॥धातकीकृसुमं चैव शाल्मली त्वक् च दाडिमम्एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥४२॥घृतेन संयुतं वातं नाशयत्याशु निश्चितम्सहिंगु चारनालेन पीतं शूलार्त्तिनाशनम् ॥४३॥तथा चोष्णजलेनापि वामवातं नियच्छतिगृध्रसीकटिशूले च दशमूल जलेन तु ॥४४॥विबन्धैरण्डतैलेन शोफे वापि सुदारुणेगुल्मगोमूत्रसंयुक्तं गुडेन पाण्डुरोगजित् ॥४५॥प्रमेहे मधुसंयुक्तं यक्ष्मणि शर्करायुतम्हन्ति सर्वामयान् घोरान् यथायोगेन योजितम् ॥४६॥वर्जयेद्द्विदलं गौल्यं तैलं पिच्छलमेव चशीतोदकेन न स्नानमामवाते भिषग्वर ॥४७॥पाचिते चामदोषे च आमवातं न सेवयेत्न सेवनीयं चोष्णं च द्रवं द्रावं विशेषतः ॥४८॥ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रयोजयेत् ॥४९॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने आमवातचिकित्सा नामैकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP