संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
चतुश्चत्वारिंशोऽध्यायः

तृतीयस्थानम् - चतुश्चत्वारिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच शेषेण वा तोयभृतेन वापि मलेन वा चाति भवेद्रुजा च उच्छासरोधाद्भवते तथापि वातादिकैर्वा कुपितैरथापि ॥१॥
संसर्गदोषैरपि सर्वदोषैः क्रिमिव्रणेनापि तथैव चान्या सञ्जायते कर्ण रुजा नरस्य शृणोति तेनापि बहुस्वनांश्च ॥२॥
निःस्वानमेघध्वनिदन्तशब्दान् शूलं सदाहं च शिरो व्यथा च वेणुस्वनं वत्स शृणोति सर्वं पित्तेन तं विद्धि भिषग्वरिष्ठ ॥३॥
तथा च मूर्च्छां प्रतनोति शब्दं मेघस्वनं वा कफजे शृणोति ॥४॥
क्रिमिदोषे स्रवेत्पूयं सरक्तं वाति सत्तम तथाचैवाभिघातेन जायते तीव्रवेदना ॥५॥
क्षतेन पूयं स्रवते बाल्याद्भवति चापरः तञ्चापि लूतिदोषेण जायते कर्णजा रुजा ॥६॥
न कर्णरोगे जलपूरणञ्च न चूर्णमेतत्कथितं विधिज्ञः तैलं हितं स्वेदनमेव कर्णे सवाष्पबिन्दुश्च हितो मतश्च ॥७॥
सैन्धवं समुद्रफेनश्च सूक्ष्मचूर्णं च कारयेत् सौवीरकरसेनापि वातिके कर्णपूरणम् ॥८॥
अर्द्रसौवीरस्य रसं शुण्ठीसैन्धवगुग्गुलम् माषकुल्माषरसेन तैलं पक्वातिचोष्णकम् ॥९॥
कटुतुम्बेन धार्येत कर्णरोगे प्रशस्यते ॥१०॥
यष्टीमधुकुष्ठमरिष्टपत्रं निशा विशालासुमनःप्रवालाः विपाचितं कर्णभवे च शूले सपैत्तिके वा घृतमेव शस्तम् ॥११॥
ब्राह्मीरसं सैन्धवकं विडङ्गं सभृङ्गराजस्य घृतेन युक्तम् तथैव सौवीररसञ्च पथ्या स्रुतञ्च वस्त्रं परिपूर्णमेतत् ॥१२॥
हितं भवेत्तच्छ्रुतिपूरणाय पूयं सरक्तं क्रिमिजं निहन्ति ॥१३॥
सर्वे प्रोक्ताः शिरोरोगास्तैलानि च घृतानि च जात्यादिकान्वा युञ्जीत शिरोरोगविदांवरः ॥१४॥
वातहारीणि पथ्यानि विदाहीनि गुरूणि च ॥१५॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने कर्णरोगचिकित्सा नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP