संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| पञ्चत्रिंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - पञ्चत्रिंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता पञ्चत्रिंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचअथातः सम्प्रवक्ष्यामि व्रणानां तु चिकित्सितम्व्रणाश्चानेकधा प्रोक्ता नानाधातुविकारिणः ॥१॥दुष्टाम्बुपानाशनसेवनाञ्च क्रोधातिभाराद्व्यसनेन वापिसञ्जायते दुष्टव्रणोऽपि घोरश्चान्येन रक्तस्य हि दूषणेन ॥२॥वातेन पित्तेन कफेन वापि द्वन्द्वेन वा दोषसमुच्चयेनमांसं प्रहृष्य रुधिरं विकीर्य सञ्जायते दुष्टव्रणोऽपि घोरः ॥३॥त्वग्रक्तानि समेदांसि प्रदूष्यास्थिसमाश्रिताःदोषाः शोफं शनैर्घोरं जनयन्त्युद्धता भृशम् ॥४॥सरक्तञ्च सशूलञ्च रुजावच्च सवेपथुरूक्षं वा वातसम्भूतं विज्ञेयं सरुजं व्रणम् ॥५॥सप्तदाहस्वरः सृष्टः स्पर्शनं सहते तु यःशीतः सौख्यं लघुपाकी पित्तात् सञ्जायते व्रणः ॥६॥कठिनो वर्तुलाकारो घोरः पीतोल्पवेदनःउष्णसहः स्निग्धतरश्चिरपाकी कफव्रणः ॥७॥सर्वैर्लिङ्गैर्विजानीयात्सन्निपातसमुद्भवम्द्वन्द्वजे द्वयदोषस्तु दोषे चापि प्रदृश्यते ॥८॥अभिघातसमुद्भूता विज्ञेयास्ते चतुर्विधाःअन्ये नाडीव्रणा ये स्युः सवाताश्च सवेदनाः ॥९॥अन्ये तु स्रोतसां मध्ये तेषां शृणु चिकित्सितम्प्रथमं मण्डविस्रावो द्वितीयं स्वेदनं स्मृतम् ॥१०॥तृतीयं पाचनं प्रोक्तं पाचिते पाटनं तथाशोधनञ्च प्रयोक्तव्यं तथा रोहणमेव च ॥११॥पश्चात्क्रमस्तथैव स्याद्व्रणानां हितकारकःरास्ना वचा तथा शुण्ठीमातुलुङ्गरसस्तथा ॥१२॥काञ्जिकेन सममेकधावनं वातिके व्रणेयष्टीमधुकमञ्जिष्ठापटोलनिम्बपत्रकैः ॥१३॥दुग्धे न क्वथितं शीतं धावनं पैत्तिके व्रणे ॥१४॥त्रिफला च कदम्बञ्च तथा जम्बु कपित्थकम्क्वाथः सोष्णकफोद्भूते व्रणे धावनमुत्तमम् ॥१५॥मातुलुङ्गाग्निमन्यौ च मूलं वा काञ्जिकेन चसुरदारु तथा शुण्ठी लेपो वातव्रणे हितः ॥१६॥नलमूर्वा च मधुकं चन्दनं रक्तचन्दनम्पिष्टं तण्डुलतोयेन पित्तव्रणविनाशनम् ॥१७॥अङ्कोलकञ्च रोध्रञ्च कदम्बार्जुनवेतसाःपारिभद्रदलानां तु पिष्ट्वा व्रणविलेपनम् ॥१८॥पाकं गते व्रणे वापि गम्भीरे सरुजेऽथवासरन्ध्रे शोधनं कार्यं धावनं तु भिषग्वरैः ॥१९॥करञ्जधवनिम्बानां कदम्बार्जुनवेतसैःपादावशेषे क्वाथेन गम्भीरव्रणधावनम् ॥२०॥मञ्जिष्ठा च तथा लाक्षारसश्चैव मनःशिलानिशायुगे समायुक्तं पिष्ट्वा वस्त्रपरिस्रुतम् ॥२१॥मधुयुक्तं शोधनञ्च व्रणानां हितकारकम्निम्बपत्राणि संक्षिप्य मधुना व्रणशोधनम् ॥२२॥निम्बपत्रतिलक्षौद्रं दार्वीमधुकसंयुतम्तथा तिलानां कल्कञ्च शोधनञ्च व्रणेषु च ॥२३॥तिलका निम्बसीतस्य पत्राणि सुमनासु चकषायश्च हितश्चैव व्रणानां शोधनेषु च ॥२४॥विशुद्धञ्च व्रणं ज्ञात्वा म्रक्षयेच्च व्रणं च तत्नवनीतेन वा श्रेष्ठं तेन नदहते व्रणः ॥२५॥जातीकरञ्जपिचुमन्दपटोलमत्र यष्टीमधुश्च रजनी कटुरोहिणी चमञ्जिष्ठकोत्पलमुशीरकरञ्जबीजं स्यात्सारिवा त्रिवृन्मागधिका समांशा ॥२६॥पक्वं घृतं वै हितमेव व्रणे प्रशस्तं नाडी गते च सरुजे च सशोणिते चलूताविसर्पमपि हन्ति गभीरयेच्च व्रणाः सदाहकठिना अपिरोहयन्ति ॥२७॥इति जात्यादि घृतम्इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने व्रणचिकित्सा नाम पञ्चत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP