संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|वायवीय संहिता|उत्तर भागः|

वायवीयसंहिता उत्तर भागः - विषयानुक्रमणिका

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ सप्तम्या वायवीयर्संहिताया उत्तरभागः ॥२॥

अध्याय १ एकदा पुत्रकामनया शिवसंनिधिं गतस्य श्रीकृप्णस्योपमन्योर्लब्धात्पाशुपताख्यवार्षिक व्रताच्छिवतुष्टया सांबनामक पुत्रप्राप्तिवर्णनम्

अध्याय २ ऋषिप्रश्नानुरोधात्पाशुपतज्ञानस्यवायुकृतवितरणं तत्संबंधादेव पशुपतिं विना कस्यापि पशो(जीवस्य) तृणच्छेदनेपि शक्त्यभावात्पशुपतिरूपाच्छिवादिदं संसारचक्रं भ्रमत इत्यादिनिरूपणम्

अध्याय ३ सर्वस्यास्य जगत: शिवमयत्वासर्वेषामभयदानात्सपर्वोपकारकरणाच्च पुत्रपौत्रादिप्रीत्या पितृसंतोषस्तथा शिवस्तुष्यतीत्याद्युपमन्यो कृष्णं प्रत्युपदेशः

अध्याय ४ श्रीकृष्णकृतप्रश्नयोत्तरत्वेन चंद्रचंद्रिकादिदं विश्वो गौरीशंकराधिष्ठितमित्युपमन्युकृतविवर्णनम्

अध्याय ५ विश्वस्यास्य वस्तुतः शिवस्वरूपत्वे पाशसामर्थ्यात्पशवो जीवा 'एकं तं बहुधा वदंति' इत्यस्योपमन्युकृतविस्तारकथनम्

अध्याय ६ यथा जीवानां मायाहंकारादिबंधतस्तथा शिवस्यः नेत्यादिसविस्तरप्रतिपादनम्

अध्याय ७ यथा वह्नेः सकाशादनेके स्फुलिंगा उत्पद्यन्ते लीयंते च तथा शिवादनंताः शक्तय उत्पद्यन्ते विलयं प्राप्नुवंतीत्येवंप्रकारेण शक्तिस्वरूपकथनं तासां च सम्यग्ज्ञानाच्छिवभक्त्या च शिवतत्त्वज्ञानाप्राप्तिरित्यादि प्रपंचनम्

अध्याय ८ वेदान्तज्ञानाधीनं शिवतत्त्वज्ञानं बुद्धिहीनानां नेति च यदुक्तं तत्प्रसंगादादौ व्यासावतारकथनम्

अध्याय ९ युगेयुगे शिवस्य योगावतारवर्णनम्

अध्याय १० गौरीं प्रति ससाधनायाः शिवभक्ते: स्वरूपफलादिप्रकारकथनम्

अध्याय ११ ब्राह्मणानां तदितरभक्तानामधिकारिणां च धर्मप्रपञ्चनम्

अध्याय १२ ‘नमः शिवाय' इति पञ्चाक्षरमन्त्रमाहात्म्यकथनम्

अध्याय १३ कलिकलुषितकालेति श्रद्धायुक्तपंचाक्षरमन्त्रानुष्ठानाच्छिवसालोक्यप्राप्तिरित्यादिकथनम्

अध्याय १४ पञ्चाक्षरमन्त्रजपविधानकथनम्

अध्याय १५ शिवदीक्षाविधानकथनं तत्प्रसंगाद्गुरुमाहात्म्यवर्णनं च

अध्याय १६ शिवदीक्षायां शिष्यसंस्कारविधानकथनम्

अध्याय १७ गुरोः शिष्ययोग्यताविचारणायां षड्ध्वविज्ञानविचारणावश्यं कार्येत्यभिधाय तत्प्रसंगेन षडध्वलक्षणप्रपंचनं दीक्षादानप्रकारकथनञ्च

अध्याय १८ षडध्वशुद्धि तद्विधाननिरूपणम्

अध्याय १९ साधकसंस्कारमन्त्रमाहात्म्यनिरूपणम् तत्र मंत्रग्रहण जयप्रकारतत्फलादीन्यभिहितानि

अध्याय २० शिष्यस्य आचर्यत्वायाऽभिषेचनस्य प्रकारोभिहितः ॥

अध्याय २१ नित्यनैमित्तिककर्मकथनं, तत्र सूर्यपूजापंचयज्ञानां प्रकारश्चाभिहितः ॥

अध्याय २२ न्यासप्रकारनिरुक्तिः तत्र मातृकान्यासषडङ्ग न्यासादिकप्रपंचनम्

अध्याय २३ शैवागमोक्तपूजापद्धतिव्याख्याकथनम्

अध्याय २४ शैवानां लिंग पूजाविधिकथनम्

अध्याय २५ पूजास्थोपचाराणां प्रत्येकस्य स्वरूपकथनम

अध्याय २६ महोग्रपातकिकृतशिवलिङ्गपूजनात्पापनाशी भवत्यतः सर्वेषां सांगोपांगलिंगपूजायामधिकारोऽभिहितः

अध्याय २७ अग्निकार्ये कुंडादिकथनम्  होमद्रव्यसंख्यादिकथनम्

अध्याय २८ शिवश्रमवतां नैमितिकविधिकथनम्

अध्याय २९ शिवशास्त्रोक्तैहिकामुष्मिकाकाम्यकर्मोक्तिः

अध्याय ३० शैवावरणपूजाक्रमस्तत्फलदर्शनञ्च इद्च ` ?+++++++++++++8//88+++++++++++++++++++++++++++++++++++++++++++

अध्याय ३१ पंचावरणपूजाविषयक शिवमहास्तोत्रकथनम्

अध्याय ३२ शिवशास्त्रोक्तैहिकफलपूजाहोमजपतपो

अध्याय ३३ आमुष्मिककर्मणः सिद्धिप्रकथनम्

अध्याय ३४ नित्यादिकर्मणां लिंगबेरप्रतिष्ठया सिद्धिस्तत्प्रतिष्ठाविधिश्च

अध्याय ३५ लिंगरूपधारिणा शिवेन विधिविष्णुमोहोन्यवर्त्तिः तदारभ्य लिंगपूजाप्रवृत्तिः

अध्याय ३६ सपरिकरलिंगप्रतिष्ठापनविधानवर्णनम्

अध्याय ३७-३८ योगमार्गवर्णनम्

अध्याय ३९ शिवस्थानयोगस्य वर्णनम् तद्भेदानां स्वरूपादिवर्णनं च

४० नैमिषेयर्षियात्रावर्णनम् । तत्र काश्यामाकाशस्थतेजःपुञ्जे प्रविशतो नवलोच्य साशंकर्षीणां ब्रह्मणोऽन्तिकं गत्वा प्रश्नः । तच्छैवं तेज भवद्भ्योऽप्युपलप्स्यत इत्यसूचीति विधिनाभ्यधायीति ।

४१ स्कन्दसरस्सविधमागत्य ऋषिभ्यश्शैवं ज्ञानं दत्त्वा शिवसन्निधौ जगाम नन्दीत्युक्त्यनन्तरं शिवपुराणमाहात्म्यनिरूपणम् ।

इति सप्तमी वायवीयसंहिता

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP