वायवीयसंहिता उत्तर भागः - अध्यायः ३५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥१॥
ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥१॥
तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥२॥
रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥२॥
तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥३॥
अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥३॥
तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥४॥
उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥४॥
अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥५॥
विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥५॥
विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥६॥
वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥६॥
तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥७॥
मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥७॥
ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥८॥
रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥८॥
सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥९॥
कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥९॥
लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥१०॥
चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥१०॥
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥११॥
अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥११॥
सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥१२॥
स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥१२॥
कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥१३॥
मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥१३॥
प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥१४॥
ततोपस्थापयामास सामार्थं दशधात्मनः ॥१४॥
तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥१५॥
संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥१५॥
विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥१६॥
लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥१६॥
पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥१७॥
अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥१७॥
ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥१८॥
क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥१८॥
भूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥१९॥
लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥१९॥
तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥२०॥
सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥२०॥
तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥२१॥
शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि ॥२१॥
तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ॥२२॥
मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम् ॥२२॥
यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥२३॥
तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात् ॥२३॥
तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥२४॥
कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥२४॥
अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥२५॥
सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥२५॥
सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥२६॥
पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥२६॥
तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ॥२७॥
ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥२७॥
ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ॥२८॥
ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥२८॥
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥२९॥
कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥२९॥
परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥३०॥
सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम् ॥३०॥
ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥३१॥
अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥३१॥
तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ॥३२
परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥३२॥
अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥३३॥
इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥३३॥
यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥३४॥
ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥३४॥
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥३५॥
यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥३५॥
भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥३६॥
साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥३६॥
ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥३७॥
अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥३७॥
मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥३८॥
अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥३८॥
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥३९॥
अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥३९॥
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥४०॥
द्वयोः प्रमापको नादो नदांतश्च मदात्मकः ॥४०॥
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥४१॥
यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥४१॥
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥४२॥
सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥४२॥
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥४३॥
शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥४३॥
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥४४॥
चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥४४॥
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥४५॥
एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥४५॥
एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥४६॥
एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥४६॥
दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ॥४७॥
वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥४७॥
हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ॥४८॥
सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥४८॥
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥४९॥
तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ॥५०॥
कारणत्रयहेतुश्च शिवः परमकारणम् ॥५०॥
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥५१॥
युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् ॥५१॥
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥५२॥
ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥५२॥
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥५३॥
स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥५३॥
तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥५४॥
लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥५४॥
तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ॥५५॥
प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः ॥५५
उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥५६॥
ततः परतरं धाम धामवंतं च पूरुषम् ॥५६॥
निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥५७॥
पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥५७॥
अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ॥५८॥
वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् ॥५८॥
निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥५९॥
अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥५९॥
प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ॥६०॥
सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥६०॥
ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥६१॥
रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥६१॥
ब्रह्मोवाच
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥६२॥
ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति ॥६२॥
आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥६३॥
निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥६३॥
आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥६४॥
पादप्रणामफलदो नाथस्य भवतो यतः ॥६४॥
विष्णुरुवाच
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥६५॥
प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः ॥६५॥
किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ॥६६
अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥६६॥
कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥६७॥
मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः ॥६७॥
विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥६८॥
यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥६८॥
त्वामुशंति महादेवं भीतानामार्तिनाशनम् ॥६९॥
अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर ॥६९॥
इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ॥७०॥
प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥७०॥
ईश्वर उवाच
वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥७१॥
युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥७१॥
विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥७२॥
ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥७२॥
अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥७३॥
तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥७३॥
एवं निवारितावद्यलिंगाविर्भावलीलया ॥७४॥
तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥७४॥
यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥७५॥
पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥७५॥
युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥७६॥
मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥७६॥
मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥७७॥
ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥७७॥
यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥७८॥
एवमुक्त्वा महादेवो नारायणपितामहौ ॥७८॥
मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥७९॥
तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥७९॥
महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ॥८०॥
दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥८०॥
अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ॥८१॥
एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् ॥८१॥
लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥८२॥
ततो विलप्य हाहेति सद्यःप्रणयभंगतः ॥८२॥
किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥८३॥
अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ ॥८३॥
अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ॥८४॥
जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ ॥८४॥
ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥८५॥
ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥८५॥
लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च ॥८५॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP