वायवीयसंहिता उत्तर भागः - अध्यायः १३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


देव्युवाच
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥१॥
अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥१॥
क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ॥२॥
सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये ॥२
तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥३॥
केनोपायेन मुच्यंते भक्तास्तव महेश्वर ॥३॥
ईश्वर उवाच
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥४॥
भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः ॥४॥
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥५॥
दूषितानां कृतघ्नानां निंदकानां छलात्मनाम् ॥५॥
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥६॥
मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥६॥
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥७॥
पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥७॥
देव्युवाच
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥८॥
कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥८
ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥८॥
ईश्वर उवाच
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥९
रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥९॥
समंत्रकं मां पतितः पूजयेद्यदि मोहितः ॥१०॥
नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥१०॥
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥११॥
तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥११॥
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ॥१२॥
सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥१२॥
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥१३॥
पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥१३॥
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ॥१४॥
पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥१४॥
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ॥१५
पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥१५
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ॥१६॥
स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते ॥१६
पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥१७
मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥१७॥
अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥१८
तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥१८
लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥१९॥
ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥१९॥
किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥२०
मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः ॥२०॥
पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ॥२१॥
तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥२१॥
प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ॥२२॥
सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥२२॥
एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥२३॥
तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥२३
ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥२४
ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥२४॥
गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ॥२५॥
तदा नारायणश्शेते देवो मायामयीं तनुम् ॥२५॥
आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥२६॥
तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥२६॥
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥२७॥
मुनीन्दश ससर्जादौ मानसानमितौजसः ॥२७॥
तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥२८॥
मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥२८॥
इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥२९॥
पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥२९॥
स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥३०॥
वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥३०॥
ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥३१॥
पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥३१॥
ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥३२॥
तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥३२॥
मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥३३॥
मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥३३॥
तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥३४॥
दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥३४॥
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥३५॥
ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥३५॥
न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥३६॥
प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥३६॥
ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥३७॥
सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥३७॥
अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥३८॥
आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥३८॥
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥३९॥
सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥३९॥
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥४०॥
तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥४०॥
चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ॥४१॥
पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥४१॥
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥४२॥
सितपद्मासनासीना नीलकुंचितमूर्धजा ॥४२
अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ॥४३॥
पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥४३॥
पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ॥४४॥
अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः ॥४४॥
बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ॥४५॥
दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥४५॥
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥४६॥
देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥४६॥
गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥४७॥
भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥४७॥
गायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥४८॥
इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥४८॥
मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥४९॥
पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥४९॥
अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥५०॥
पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥५०॥
मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ॥५१॥
नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥५१॥
नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥५२॥
शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥५२॥
यकारो ऽस्त्रं नमस्स्वाहा वषठुंवौषडित्यपि ॥५३॥
फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥५३॥
तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ॥५४॥
तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥५४॥
तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ॥५५॥
आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥५५॥
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥५६॥
यथाशक्ति यथासंपद्यथायोगं यथारति ॥५६॥
यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥५७॥
येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥५७॥
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥५८॥
मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥५८॥
तथापि मम भक्ता ये नात्यंतविवशाः पुनः ॥५९॥
तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥५९॥
तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ॥६०॥
यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥६०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP