वायवीयसंहिता उत्तर भागः - अध्यायः ३९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ॥१॥
प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः ॥१॥
स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ॥२॥
स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥२
शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ॥३
मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत् ॥३॥
लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ॥४॥
ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥४॥
तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ॥५॥
बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥५॥
तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥६॥
तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥६॥
सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥७॥
यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥७॥
निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥८॥
निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥८॥
निराकारश्रयत्वेन साकाराश्रयतस्तथा ॥९॥
तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥९॥
अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥१०॥
प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात् ॥१०॥
शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ॥११॥
शमः सर्वापदां चैव शांतिरित्यभिधीयते ॥११॥
तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥१२॥
बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥१२॥
स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥१३॥
कारणानि च सर्वाणि सबाह्याभ्यंतराणि च ॥१३॥
बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥१४॥
ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥१४॥
एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥१४॥
ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ॥१५॥
श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥१५॥
ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥१६
योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ॥१७॥
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥१७॥
अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥१८॥
बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम् ॥१९॥
ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः ॥१९॥
विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ॥२०॥
शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥२०॥
यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् ॥२१॥
तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥२१॥
नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ॥२२॥
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥२२॥
ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ॥२३॥
योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति ॥२३॥
प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ॥२४॥
पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥२४॥
यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ॥२५॥
तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥२५॥
अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः ॥२६॥
योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत् ॥२६
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥२७॥
यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते ॥२७॥
नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ॥२८॥
नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥२८॥
तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ॥२९॥
योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात् ॥२९॥
योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥३०॥
यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥३०॥
यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥३१॥
तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः ॥३१॥
बहिस्करा यथा लोके नातीव फलभोगिनः ॥३२॥
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥३२॥
यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ॥३३॥
योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥३३॥
अनुभूय सुखं तत्र स जातो योगिनां कुले ॥३४॥
ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥३४॥
जिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥३५॥
न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥३५॥
द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ॥३६॥
भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥३६॥
यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥३७॥
योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥३७॥
ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ॥३८॥
श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥३८॥
सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥३९॥
तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥३९॥
ये पुनः सततं भक्त्या भजंति शवयोगिनः ॥३९॥
ते विदंति महाभोगानंते योगं च शांकरम् ॥४०॥
भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः ॥४०॥
प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ॥४१॥
योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥४१॥
वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः ॥४२॥
न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा ॥४२॥
यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ॥४३॥
सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः ॥४३॥
तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ॥४४
सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥४४॥
सिद्धयोगफलो योगी लोकानां हितकाम्यया ॥४५॥
भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥४५॥
अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ॥४६॥
त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥४६॥
यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा ॥४७॥
स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥४७॥
स तत्र निवसन्नेव यदि धीरमना नरः ॥४८॥
प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥४८॥
कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले ॥४९॥
क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥४९॥
शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् ॥५०॥
सद्य एव विमुच्येत नात्र कार्या विचारणा ॥५०॥
रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ॥५१॥
म्रियते यदि सोप्येवं मुच्यते नात्र संशयः ॥५१॥
यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः ॥५२॥
शास्त्रविश्रंभधीरेण मनसा क्रियते यतः ॥५२॥
शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ॥५३॥
यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥५३॥
शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः ॥५४॥
सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः ॥५४॥
शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा ॥५५॥
न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥५५॥
तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् ॥५६॥
एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥५६॥
षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ॥५७॥
पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥५७
नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः ॥५८॥
शिवचारार्थमथवा शिवविद्यार्थमेव वा ॥५८॥
खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥५८॥
क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ॥५९॥
अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥५९॥
कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ॥६०॥
धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः ॥६०॥
नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥६०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP