संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|वायवीय संहिता|उत्तर भागः| अध्यायः २२ उत्तर भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ विषयानुक्रमणिका वायवीयसंहिता उत्तर भागः - अध्यायः २२ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः २२ Translation - भाषांतर उपमन्युरुवाचन्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥१॥यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥२॥कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥३॥दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥४॥सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥५॥अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ॥निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥६॥पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ॥हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥७॥तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ॥तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥८॥निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ॥भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥९॥नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥१०॥विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥११॥देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥१२॥अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥१३॥ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत् ॥१४॥देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ॥पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः ॥१५॥ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥१६॥अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु ॥१७॥षडंगानि ततो न्यस्य जातिषट्कयुतानि च ॥दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥१८॥यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् ॥तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना ॥१९॥एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥२०॥अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥२१॥तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥२२॥पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥२३॥अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥२४॥ऋं ःं कपोलयोश्चैव ळं ॡं नासापुटद्वये ॥एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥२५॥अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु ॥२६॥चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ॥टवर्गं च तवर्गं च पादयोरुभयोरपि ॥२७॥पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥२८॥यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ॥हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे ॥२९॥एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ॥३०॥करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥३१॥ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥३२॥ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥३३॥हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥३४॥पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥३५॥घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥३६॥पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥३७॥पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ॥इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥३८॥हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥३९॥विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥४०॥कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥४१॥यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥४२॥नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥४३॥शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥४४॥ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥४४॥कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥४५॥ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥४६॥कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥४७॥तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥४८॥जपध्यानरतो भूत्वा जायते भुवि मानवः ॥जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥४९॥ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥५०॥अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥५१॥ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥५२॥ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥५३॥दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥५४॥यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥५५॥नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ॥आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥५६॥हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥५७॥तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥५८॥नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥५९॥बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा ॥६०॥वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ॥अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥६१॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः N/A References : N/A Last Updated : October 14, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP