संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|वायवीय संहिता|उत्तर भागः| अध्यायः १० उत्तर भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ विषयानुक्रमणिका वायवीयसंहिता उत्तर भागः - अध्यायः १० शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १० Translation - भाषांतर कृष्ण उवाचभगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर ॥षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥१॥प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ॥महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर ॥२॥अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा ॥त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम् ॥३॥तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ॥शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥४॥साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता ॥भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥५॥उपमन्युरुवाचस्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ॥भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥६॥महीधरवरे दिव्ये मंदरे चारुकंदरे ॥देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत् ॥७॥तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ॥फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥८॥ततः स्वमंकमारोप्य देवीं देववरोरहः ॥अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥९॥अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः ॥अंतरंगा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥१०॥भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ॥चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥११॥ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ॥त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥१२॥तदावसरमालोक्य सर्वलोकमहेश्वरी ॥भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥१३॥देव्युवाचकेन वश्यो महादेवो मर्त्यानां मंदचेतसाम् ॥आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥१४॥ईश्वर उवाचन कर्मणा न तपसा न जपैर्नासनादिभिः ॥न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना ॥१५॥श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च ॥१६॥साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥१७॥स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥१८॥आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥१९॥स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥२०॥तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥२०॥वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ॥तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥२१वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥२२अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम ॥२३॥तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥२४॥परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥२४॥तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥२५॥अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ॥तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥२६॥ममावतारा हि शुभे योगाचार्यच्छलेन तु ॥सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः ॥२७॥अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ॥दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत् ॥२८॥सा हानिस्तन्महच्छिद्रं स मोहस्सांधमूकता ॥यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः ॥२९॥ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ॥चतुष्पादः समाख्यातो मम धर्मस्सनातनः ॥३०॥पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥३१॥वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥३२॥मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते ॥३३॥अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥३४॥विजितेंद्रियवर्गस्य यमेन नियमेन च ॥पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥३५॥वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥३६॥योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥दया कार्याथ सततमहिंसा ज्ञानसंग्रहः ॥३७॥सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रियनिग्रहः ॥३८॥अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ॥य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये ॥३९॥अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति ॥दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये ॥४०॥प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति ॥पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम् ॥४१॥तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥४१॥फलकामनया कर्मकरणात्प्रतिबध्यते ॥न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥४२॥प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ॥ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥४३॥विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ॥न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः ॥४४॥नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ॥ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥४५॥अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः ॥४६॥द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ॥वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥४७॥तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥४८॥अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम् ॥४९॥मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥५०॥लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ॥ममोपचारनिरतः कायः कायो न चेतरः ॥५१॥मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥५२॥जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ॥रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥५३॥ध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ॥ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥५४॥बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ॥प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥५५॥बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥५६॥शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ॥अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥५७॥बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥न भावरहितं देवि विप्रलंभैककारणम् ॥५८॥कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते ॥५९॥भावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥६०॥फलोद्देशेन देवेशि लघुर्मम समाश्रयः ॥फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥६१॥फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ॥भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥६२॥फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ॥प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः ॥६३॥प्राक्संस्कारवशादेव ये विचिंत्य फलाफले ॥विवशा मां प्रपद्यंते मम प्रियतमा मताः ॥६४॥मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ॥ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥६५॥मदनुग्रहतस्तेषां भावो मयि समर्पितः ॥फलं परमनिर्वाणं प्रयच्छति बलादिव ॥६६॥महात्मनामनन्यानां मयि संन्यस्तचेतसाम् ॥अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥६७॥मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम् ॥६८॥मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ॥ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥६९॥एवमष्टविधं चिह्नं यस्मिन्म्लेच्छे ऽपि वर्तते ॥स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः ॥७०॥न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः ॥तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥७१॥पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥७२॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमोऽध्यायः N/A References : N/A Last Updated : October 14, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP