वायवीयसंहिता उत्तर भागः - अध्यायः २

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः ॥१॥
कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥१॥
एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह ॥२॥
तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥२॥
सूत उवाच
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः ॥३॥
संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥३॥
वायुरुवाच
पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे ॥४॥
देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥४॥
तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ॥५॥
पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥५॥
यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ॥६॥
तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः ॥६॥
पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ॥७॥
प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥७॥
श्रीकृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ॥८॥
दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥८॥
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥९॥
कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम् ॥९॥
इति संचोदितः श्रीमानुपमन्युर्महात्मना ॥१०॥
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः ॥११॥
पशवः परिकीर्त्यंते संसारवशवर्तिनः ॥११॥
तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ॥१२॥
मलमायादिभिः पाशैः स बध्नाति पशून्पतिः ॥१२॥
स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ॥१३॥
चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥१३॥
विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ॥१४॥
ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः ॥१४॥
पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ॥१५॥
तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥१५॥
बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः ॥१६॥
इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥१६॥
शासनाद्देवदेवस्य शिवस्य शिवदायिनः ॥१७॥
तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥१७॥
महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ॥१८॥
ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम् ॥१८॥
महाभूतान्यशेषाणि जनयंति शिवाज्ञया ॥१९॥
अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते ॥१९॥
चित्तं चेतयते चापि मनः संकल्पयत्यपि ॥२०॥
श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥२०॥
स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै ॥२१॥
वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥२१॥
यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया ॥२२॥
शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः ॥२२॥
अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी ॥२३॥
अवकाशमशेषाणां भूतानां संप्रयच्छति ॥२३॥
आकाशः परमेशस्य शासनादेव सर्वगः ॥२४॥
प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत् ॥२४॥
बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ॥२५॥
हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥२५॥
पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ॥२६॥
संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥२६॥
विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ॥२७॥
देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति ॥२७॥
आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलंघ्यया ॥२८॥
आधिपत्यमपां नित्यं कुरुते वरुणस्सदा ॥२८॥
पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात् ॥२९॥
ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥२९॥
पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ॥३०॥
करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम् ॥३०॥
निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥३१॥
धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥३१॥
यामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ॥३२॥
सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥३२॥
अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ॥३३॥
विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥३३॥
सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥३४॥
हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात् ॥३४॥
सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥३५॥
कालः करोति सकलं कालस्संहरति प्रजाः ॥३५॥
कालः पालयते विश्वं कालकालस्य शासनात् ॥३६॥
त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥३६॥
दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ॥३७॥
पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥३७
देवैश्च पीयते चंद्रश्चन्द्रभूषणशासनात् ॥३८॥
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥३८॥
खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ॥३९॥
पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥३९॥
नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥४०॥
वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः ॥४०॥
कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ॥४१॥
ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च ॥४१॥
वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥४२॥
दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥४२॥
यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥४३॥
तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम् ॥४३॥
आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥४४॥
ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥४४॥
उपमन्युरुवाच
अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ॥४५॥
आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥४५॥
पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ॥४६॥
असुरान्समरे जित्वा जेताहमहमित्युत ॥४६॥
तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥४७॥
स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत् ॥४७॥
स तानाह सुरानेकं तृणमादाय भूतले ॥४८॥
य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥४८॥
यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥४९॥
किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥४९॥
न तत्तृणमुपदातुं मनसापि च शक्यते ॥५०॥
यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥५०॥
तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ॥५१॥
तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥५१॥
ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ॥५२॥
ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥५२॥
प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ ॥५३॥
प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते ॥५३॥
एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः ॥५४॥
व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥५४॥
तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ॥५५॥
ततस्स पश्यतामेव तेषामंतरधादथ ॥५५॥
तदंतरे हैमवती देवी दिव्यविभूषणा ॥५६॥
आविरासीन्नभोरंगे शोभमाना शुचिस्मिता ॥५६॥
तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥५७॥
प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥५७॥
सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥५८॥
तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥५८॥
तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥५९॥
न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥५९॥
इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ॥६०॥
देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥६०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे द्वितीयो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP