वायवीयसंहिता उत्तर भागः - अध्यायः १५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


श्रीकृष्ण उवाच
भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो ॥१॥
तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥१॥
इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ॥२॥
मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम् ॥२॥
उपमन्युरुवाच
हन्त ते कथयिष्यामि सर्वपापविशोधनम् ॥३॥
संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥३॥
सम्यक्कृताधिकारः स्यात्पूजादिषु नरो यतः ॥४॥
संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥४॥
दीयते येन विज्ञानं क्षीयते पाशबंधनम् ॥५॥
तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥५॥
शांभवी चैव शाक्ती च मांत्री चैव शिवागमे ॥६॥
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥६॥
गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि ॥७॥
सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी ॥७॥
सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा ॥८॥
तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः ॥८॥
यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता ॥९॥
तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका ॥९॥
शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ॥१०॥
गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥१०॥
मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ॥११॥
मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः ॥११॥
शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥१२॥
शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥१२॥
यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥१३॥
न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥१३॥
तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥१४॥
ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥१४॥
यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥१५॥
तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥१५॥
लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ॥१६॥
सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी ॥१६॥
आनंदबोधयोर्लिंगमंतःकरणविक्रियाः ॥१७
यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः ॥१७॥
शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ॥१८॥
तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः ॥१८॥
शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥१९॥
तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥१९॥
यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥२०॥
गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥२०॥
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥२१॥
शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥२१॥
सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः ॥२२॥
तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥२२॥
श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् ॥२३॥
गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते ॥२३॥
गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत् ॥२४॥
समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥२४॥
गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ॥२५॥
गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥२५॥
पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ॥२६॥
यथेह वह्निसंपर्कान्मलं त्यजति कांचनम् ॥२६॥
तथैव गुरुसंपर्कात्पापं त्यजति मानवः ॥२७॥
यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥२७॥
तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥२८॥
यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥२८
तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ॥२९॥
मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥२९॥
तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ॥३०॥
तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥३०॥
यमश्च नियमाश्चैव नात्र कार्या विचारणा ॥३१॥
गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥३१॥
वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ॥३२॥
मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥३२॥
श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ॥३३॥
गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥३३॥
असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ॥३४॥
इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥३४॥
गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति ॥३५॥
गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः ॥३५॥
तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ॥३६॥
संवित्संजननं तत्त्वं परमानंदसंभवम् ॥३६॥
तत्तत्त्वं विदितं येन स एवानंददर्शकः ॥३७॥
न पुनर्नाममात्रेण संविदारहितस्तु यः ॥३७॥
अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ॥३८॥
एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका ॥३८
यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ॥३९॥
तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥३९॥
परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ॥४०॥
पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥४०॥
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥४१॥
सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥४१॥
सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥४२॥
यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते ॥४२॥
तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥४३
तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः ॥४३॥
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥४४॥
स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥४४॥
यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥४५॥
ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥४५॥
न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन ॥४६॥
यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते ॥४६॥
वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् ॥४७॥
गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् ॥४७॥
गुरोर्भ्रात्ःंस्तथा पुत्रान्बोधकान्प्रेरकानपि ॥४७॥
तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् ॥४८॥
गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥४८॥
सर्वाभयप्रदातारं करुणाक्रांतमानसम् ॥४९॥
तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥४९॥
तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा ॥५०॥
तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥५०॥
तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ॥५१॥
भूषणानि च वासांसि यानशय्यासनानि च ॥५१॥
एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ॥५२॥
वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥५२॥
स एव जनको माता भर्ता बन्धुर्धनं सुखम् ॥५३॥
सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥५३॥
निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ॥५४॥
समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥५४॥
यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ॥५५॥
तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः ॥५५॥
गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ॥५६॥
ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥५६॥
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ॥५७॥
उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥५७॥
आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ॥५८॥
ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥५८॥
अहिंसका दयावंतो नित्यमुद्युक्तचेतसः ॥५९॥
अमानिनो बुद्धिमंतस्त्यक्तस्पर्धाः प्रियंवदाः ॥५९॥
ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ॥६०॥
शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥६०॥
एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ॥६१॥
शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥६१॥
नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि ॥६२॥
नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥६२॥
तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ॥६३॥
अधिकारो भवत्येव कन्यायाः पितुराज्ञया ॥६३॥
शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥६३॥
तथा संकरजातीनां नाध्वशुद्धिर्विधीयते ॥६४॥
तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे ॥६४॥
पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ॥६५॥
अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥६५॥
तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ॥६६॥
या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता ॥६६॥
सा भक्ताय प्रदातव्या नापराय विरोधिने ॥६७॥
दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥६७॥
अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ॥६८॥
यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥६८॥
कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् ॥६९॥
यथा नारायणं देवं तपसाराध्य पांडवान् ॥६९॥
पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता ॥७०॥
अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥७०॥
शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् ॥७१॥
बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः ॥७१॥
संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ॥७२॥
गुरोरालोकनादेव स्पर्शात्संभाषणादपि ॥७२॥
यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः ॥७३
मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥७३॥
स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ॥७४॥
क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः ॥७४॥
स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥७४॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP