वायवीयसंहिता उत्तर भागः - अध्यायः ३२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥१॥
क्रियातपोजपध्यानसमुच्चयमयं परम् ॥१॥
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥२॥
पूजाहोमजपध्यानतपोदानमयं महत् ॥२॥
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥३॥
दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥३॥
सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥४॥
प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥४
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥५॥
परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥५॥
यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥६॥
न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥६॥
अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥७॥
स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥७॥
नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥८॥
यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥८॥
साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ॥९॥
विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥९॥
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥१०॥
रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥१०॥
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥११॥
सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥११॥
इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥१२॥
पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते ॥१२॥
आलिप्य शकृता १ भूमिं हस्तमानावरां यथा ॥१३॥
विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥१३॥
तप्तजांबूनदमयमष्टपत्रं सकेसरम् ॥१४॥
मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम् ॥१४॥
स्वाकारसदृशेनैव नालेन च समन्वितम् ॥१५॥
तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः ॥१५॥
तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ॥१६॥
रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥१६॥
लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः ॥१६॥
तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ॥१७॥
तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥१७॥
चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥१८॥
शार्दूलचर्मवसना किंचिद्विहसितानना ॥१८॥
वरदाभयहस्ता च मृगटंकधरा तथा ॥१९॥
अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि ॥१९॥
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥२०॥
वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती ॥२०॥
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥२१॥
तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥२१॥
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥२२॥
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥२२॥
पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ॥२३॥
तदंकमंडलारूढा शक्तिर्माहेश्वरी परा ॥२३॥
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥२४॥
मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥२४॥
मूर्तिमंतमथावाह्य यजेत्परमकारणम् ॥२५॥
स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥२५॥
पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ॥२६॥
पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम् ॥२६॥
कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥२७॥
सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥२७॥
ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥२८॥
तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥२८॥
पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥२९॥
दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः ॥२९॥
सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ॥३०॥
स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः ॥३०॥
पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥३१॥
ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥३१॥
गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥३२॥
उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥३२॥
गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥३३॥
पलावरः स्यादालेप एकादशपलोत्तरः ॥३३
सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥३४॥
नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥३४॥
कमलानि च रक्तानि श्वेतान्यपि च शंभवे ॥३५॥
कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥३५॥
कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥३६॥
पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च ॥३६॥
नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥३७॥
पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥३७
पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ॥३८॥
सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥३८॥
वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥३९॥
दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥३९॥
जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ॥४०॥
एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥४०॥
दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥४१॥
घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु ॥४१॥
शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥४२॥
चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके ॥४२॥
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥४३॥
तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः ॥४३॥
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥४४॥
चरुणा सघृतेनैव केवलं पयसापि वा ॥४४॥
जुहुयान्मृत्युविजये तिलै रोगोपशांतये ॥४५॥
घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥४५॥
समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ॥४६॥
जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥४६॥
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥४७॥
तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः ॥४७॥
स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ॥४८॥
ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥४८॥
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥४९॥
विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु ॥४९॥
बंधनं रोहिबीजेन सेनास्तंभनमेव च ॥५०॥
रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः ॥५०॥
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥५१॥
कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥५१॥
सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥५२॥
ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥५२॥
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥५३॥
क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥५३॥
शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥५४॥
द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥५४॥
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥५५॥
बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥५५॥
समिधः शांतिकार्येषु पालाशखदिरादिकाः ॥५६॥
करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥५६॥
प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ॥५७॥
निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥५७॥
अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ॥५८॥
आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥५८॥
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥५९॥
यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥५९॥
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥६०॥
मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥६०॥
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥६१॥
कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥६१॥
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥६२॥
न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥६२॥
अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥६३॥
पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥६३॥
बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥६४॥
स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥६४॥
अभावे हेमरत्नानामशक्तौ च तदर्जने ॥६५॥
मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥६५॥
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥६६॥
सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥६६
कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥६७॥
द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥६७॥
पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥६८॥
तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥६८॥
स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥६९॥
अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥६९॥
यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥७०॥
सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥७०॥
स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ॥७१॥
कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥७१॥
अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ॥७२॥
गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥७२॥
यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥७३॥
फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥७३॥
तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥७४॥
अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः ॥७४॥
मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥७५॥
पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥७५॥
कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥७६॥
शत्रुर्मित्रायते सद्यो विरोधी किंकरायते ॥७६॥
विषायते यदमृतं विषमप्यमृतायते ॥७७॥
स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥७७॥
महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥७८॥
पद्माकरायते वह्निः सरो वैश्वानरायते ॥७८॥
वनायते यदुद्यानं तदुद्यानायते वनम् ॥७९॥
सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥७९॥
स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥८०॥
स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥८०॥
स्वैराचारायते मेधा वज्रसूचीयते मनः ॥८१॥
महावातायते शक्तिर्बलं मत्तगजायते ॥८१॥
स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥८२॥
शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥८२॥
शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ॥८३॥
आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥८३॥
रसाय नायते नित्यमपथ्यमपि सेवितम् ॥८४॥
अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥८४॥
अनागतादिकं सर्वं करस्थामलकायते ॥८५॥
यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥८५॥
बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥८६॥
अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥८६॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP