संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १०६

बृहत्संहिताः - अध्याय १०६

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


शास्त्रौपनयः पूर्वं सांवत्सरसूत्रमर्कचारश्च । शशिराहुभौमबुधगुरुसितमन्दशिखिग्रहाणां च ॥१॥

चारश्चागस्त्यमुनेः सप्तर्षीणां च कूर्मयोगश्च । नक्षत्राणां व्यूहो ग्रहभक्तिः ग्रहविमर्दश्च ॥२॥

ग्रहशशियोगः सम्यग्ग्रहवर्षफलं ग्रहाणां च । शृंगाटसंस्थितानां मेघानां गर्भलक्षणं चैव ॥३॥

धारणवर्षणरोहिणिवायव्याषाढभद्रपद ( भाद्रपद) योगाः । क्षणवृष्टिः कुसुमलताः सन्ध्याचिह्नं दिशां दाहः ॥४॥

भूकंपौल्कापरिवेषलक्षणं शक्रचापखपुरं च । प्रतिसूर्यो निर्घातः सस्यद्रव्यार्घकाण्डं च ॥५॥

इन्द्रध्वजनीराजनखञ्जनकौत्पातवर्हि ( बर्हि) चित्रं च । पुष्याभिषेकपट्टप्रमाणमसिलक्षणं वास्तु ॥६॥

उदक् ( उदग्) आर्गलमारामिकममरालयलक्षणं कुलिशलेपः । प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च ॥७॥

चिह्नं गवामथ शुनाम् कुक्कुटकूर्माजपुरुषचिह्नं च । पंचमनुष्यविभागः स्त्रीचिह्नं वस्त्रविच्छेदः ॥८॥

चामरदण्डपरीक्षा स्त्रीस्तोत्रं चापि सुभगकरणं च । कान्दर्पिकानुलेपनपुंस्त्रिकाध्यायशयनविधिः ॥९॥

वज्रपरीक्षा मौक्तिकलक्षणमथ पद्मरागमरकतयोः । दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम् ॥१०॥

अन्तरचक्रं विरुतं श्वचेष्टितं विरुतमथ शिवायाश्च । चरितं मृगाश्वकरिणां वायसविद्योत्तरं च ततः ॥११॥

पाको नक्षत्रगुणाः तिथिकरणगुणाः सधिष्ण्यजन्मगुणाः । गोचरमथ ( गोचरः तथा) ग्रहाणां कथितो नक्षत्रपुरुषश्च ॥१२॥

शतमिदमध्यायानामनुपरिपाटिक्रमादनुक्रान्तम् । अत्र श्लोकसहस्राणि आबद्धानि ऊनचत्वारि ॥१३॥

अत्रैवान्तर्भूतं परिशेषं निगदितं च यात्रायाम् । बह्वाश्चर्यं जातकमुक्तं करणं च बहुचोद्यम् ॥१४॥

इति बृहत्संहिता ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP