संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय २

बृहत्संहिताः - अध्याय २

बृहत्संहिता ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


( १) तत्र सांवत्सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवाग् - अनसूयकः समः सुसंहिता उपचितगात्रसन्धिः - अविकलश्चारुकरचरणनखनयनचिबुकदशनश्रवणललाटभ्रू - उत्तमांगो वपुष्मान् गंभीरौदात्तघोषः प्रायः शरीर आकारानुवर्त्तिनो ( वर्तिनो) हि गुणा दोषाश्च भवन्ति

( २) तत्र गुणाः- शुचिः दक्षः प्रगल्भो वाग्ग्मी ( वाग्मी) प्रतिभानवान् - देशकालवित् सात्त्विको न पर्षद्भीरुः सहाध्यायिभिः अनभिभवनीयः - कुशलोऽव्यसनी शान्तिकपौष्टिकाभिचारस्नानविद्याभिज्ञो - विबुधार्चनव्रतौअपवासनिरतः स्वतन्त्राश्चर्या उत्पादितप्रभावः - पृष्टाभिधाय्यन्यत्र दैवात्ययाद् ग्रहगणितसंहिताहोरा- ग्रन्थार्थवेत्ता इति

( ३) तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु - पंचस्वेतेषु सिद्धान्तेषु - युगवर्षायनऋतुमासपक्षाहोरात्रयाममुहूर्तनाडीविणाडीप्राण- त्रुटित्रुट्याद्यवयव आदिकस्य ( आद्यस्य) कालस्य क्षेत्रस्य च वेता

( ४) चतुर्णां च मानानां सौरसावननाक्षत्रचान्द्राणामधिमा- सकावमसंभवस्य च कारणाभिज्ञः

( ५) षष्ट्यब्दयुगवर्षमास- दिनहोरा अधिपतीनां प्रतिपत्ति ( वि) च्छेदवित्

( ६) सौरादीनां च मानानामसदृशसदृश ( सदृशासदृश) - योग्यायोग्यत्वप्रतिपादनपटुः

( ७) सिद्धान्तभेदेऽपि अयननिवृत्तौ प्रत्यक्षं - सममण्डललेखासंप्रयोगाभ्युदितांशकानां ( च) - छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलः

( ८) सूर्यादीनां च ग्रहाणाम् - शीघ्रमन्दयाम्यौत्तरनीचौच्चगतिकारणाभिज्ञः

( ९) सूर्यचन्द्रमसोश्च ग्रहणे ग्रहण - आदिमोक्षकालदिक्प्रमाणस्थितिविमर्दवर्णादेशानां ( वर्णदेशानां) - अनागतग्रहसमागमयुद्धानामादेष्टा

( १०) प्रत्येकग्रहभ्रमणयोजनकक्ष्याप्रमाणप्रतिविषययोजन- परिच्छेदकुशलः ( कुशलो)

( ११) भूभगणभ्रमणसंस्थानाद्यक्षावलंबकाहर्व्यासचरदलकालरा- श्युदयच्छायानाडीकरणप्रभृतिषु क्षेत्रकालकरणेष्वभिज्ञः

( १२) नानाचोद्यप्रश्नभेदौपलब्धिजनितवाक्सारो- निकषसन्तापाभिनिवेशैः ( विशुद्धस्य) कनकस्यैवाधिकतरममलीकृतस्य - ( शास्त्रस्य) वक्ता तन्त्रज्ञो भवति ( उक्तज् च)

न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः \1yd\ निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ञेयः ॥१॥

ग्रन्थोऽन्यथा अन्यथार्थं ( अन्यथार्थः) करणं यश्चान्यथा करोत्यबुधः \yd\ स पितामहमुपगम्य स्तौति नरो वैशिकेनार्याम् ॥२॥

तन्त्रे सुपरिज्ञाते लग्ने छाया अंबुयन्त्रसंविदिते \3yd\ होरार्थे च सुरूढे नादेष्टुः भारती वन्ध्या ॥३॥

उक्तन् चार्यविष्णुगुप्तेन

अपि अर्णवस्य पुरुषः प्रतरन् कदाचिद् ॥ आसादयेदनिलवेगवशेन पारम् ॥ न त्वस्य कालपुरुष आख्यमहार्णवस्य ॥ गच्छेत् कदाचिदनृषिः मनसापि पारम् ॥४॥

२( १३) होराशास्त्रेऽपि ( च) राशिहोराद्रेष्काणनवांशकद्वादशभा- गत्रिंशद्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभिः - अनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टादिपरिग्रहो - निषेकजन्मकालविस्मापनप्रत्यय आदेशसद्योमरण आयुर्दायदशा अन्तर्दशा - अष्टकवर्गराजयोगचन्द्रयोगद्विग्रहादियोगानां नाभसादीनाम् च - योगानाम् फलानि आश्रयभावावलोकननिर्याणगत्यनूकानि - तत्काल ( कालिक) प्रश्नशुभाशुभनिमित्तानि विवाहादीनाम् च कर्मनां करणम्

२( १४) यात्रायां तु ( च) तिथिदिवसकरणनक्षत्रमुहूर्तविलग्नयोग- देहस्पन्दनस्वप्नविजयस्नानग्रहयज्ञगणयागाग्नि- लिंगहस्त्यश्वैंगितसेना- प्रवादचेष्टादिग्रहषाड्गुण्यौपायमंगलामंग- लशकुनसैन्यनिवेशभू- मयोऽग्निवर्णा मन्त्रिचरदूताटविकानां यथाकालं प्रयोगाः परदुर्ग ( उप) - लंभोपायश्चेत्युक्तं च आचार्यैः

जगति प्रसारितमिव आलिखितमिव मतौ निषिक्तमिव हृदये \5yd\ शास्त्रं यस्य सभगणं नादेशा निष्फलाः ( निःफलाः) तस्य ॥५॥

२(१५) संहितापारगश्च दैवचिन्तको भवति

२(१६) यत्र एते संहितापदार्थाः

२(१७) दिनकरादीनाम् ग्रहाणां चाराः तेषु च तेषां - प्रकृतिविकृतिप्रमाणवर्णकिरणद्युतिसंस्थानास्तमन- उदयमार्गमार्गान्तरवक्रा- नुवक्रऋक्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेन - देशेष्वगस्त्यचारः ( अगस्तिचारः) सप्तर्षिचारः ग्रहभक्तयो - नक्षत्रव्यूहग्रहशृंगाटकग्रहयुद्धग्रहसमागम- ग्रहवर्षफलगर्भलक्षणरोहिणीस्वात्याषाढीयोगाः - सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनौल्कादिग्दाह- क्षितिचलनसन्ध्यारागगन्धर्वनगररजोनिर्घातार्घकाण्डसस्य- जन्मेन्द्रध्वजेन्द्र- चापवास्तुविद्या अंगविद्यावायसविद्या अन्तरचक्रमृगचक्राश्व- चक्रवातचक्रप्रासा- दलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायुर्वेदौदगार्गलनीरा- जनखञ्जन् ( अक्) औत्पातशान्तिमयूरचित्रकघृत- कंबलखड्गपट्टकृकवाकुकूर्मगोऽजाश्वैभपुरूष - ( पुरुष) स्त्रीलक्षणानि -

२(१८) अन्तःपुरचिन्तापिटकलक्षणौपानच्छेदवस्त्रच्छेदचामरदण्ड- शयना ( शय्या) आसनलक्षणरत्नपरीक्षा दीपलक्षणं - दन्तकाष्ठाद्याश्रितानि ( शुद्धाशुद्धानि) ( शुभाशुभानि) - निमित्तानि सामान्यानि च जगतः प्रतिपुरुषं - पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तयितव्यानि न चैकाकिना शक्यन्तेऽहर्निशमवधारयितुं निमित्तानि तस्मात् सुभृतेनैव दैवज्ञेनान्येऽपि तद्विदश्चत्वारः कर्तव्याः ( भर्तव्याः) तत्रएकेनेन्द्री च आग्नेयी च दिग् अवलोकयितव्या याम्या नैरृती चान्येनैवं वारुणी वायव्या चौत्तरा च एशानि चेति यस्मादुल्कापातादीनि ( निमित्तानि) शीघ्रमप ( उप) ( अभि) गच्छन्तीति तस्याः ( तेषां) च आकारवर्णस्नेहप्रमान आदिग्रहऋक्षौपघातादिभिः फलानि भवन्ति उक्तं च गर्गेण महर्षिणा

कृत्स्नांगोपांगकुशलं होरागणितनैष्ठिकम् ॥ यो न पूजयते राजा स नाशमुपागच्छति ॥६॥

वनं समाश्रिता येऽपि निर्ममा निष्परिग्रहाः ॥ अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ॥७॥

अप्रदीपा यथा रात्रिः अनादित्यं यथा नभः ॥ तथा असांवत्सरो राजा भ्रम्यत्यन्ध इवाध्वनि ॥८॥

मुहूर्त ( मुहूर्तं) तिथिनक्षत्रम् ऋतवश्चायने तथा ॥ सर्वाणि एवाकुलानि स्युः न स्यात् सांवत्सरो यदि ॥९॥

तस्माद् राज्ञाधिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः ॥ जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता ॥१०॥

नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता ॥ चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥११॥

न सांवत्सरपाठी च नरकेषु उपपद्यते ॥ ब्रह्मलोकप्रतिष्ठां च लभते दैवचिन्तकः ॥१२॥

ग्रन्थतश्चार्थतश्चैतत् कृत्स्नं जानति यो द्विजः ॥ अग्रभुक् स भवेत्श्राद्धे पूजितः पंक्तिपावनः ॥१३॥

म्लेच्छा हि यवनाः तेषु सम्यक् शास्त्रमिदं स्थितम् ॥ ऋषिवत् तेऽपि पूज्यन्ते किं पुनः दैवविद् द्विजः ॥१४॥

कुहकावेशपिहित ( इः) कर्णोपश्रुतिहेतुभिः ॥ कृतादेशो न सर्वत्र प्रष्टव्यो न स दैववित् ॥१५॥

अविदित्वैव यत् ( यः) शास्त्रं दैवज्ञत्वं प्रपद्यते ॥ स पंक्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥१६॥

नक्षत्रसूचकोद्दिष्टमुपहासं करोति यः ॥ स व्रजत्यन्धतामिस्रं सार्धम् ऋक्षविडंबिना ॥

नगरद्वारलोष्टस्य यद्वत् स्यादुपयाचितम् ॥ आदेशः तद्वदज्ञानां यः सत्यः स विभाव्यते ॥१७॥

संपत्त्या योजितादेशः तद्विच्छिन्नकथाप्रियः ॥ मत्तः शास्त्रएकदेशेन त्याज्यः तादृग्महीक्षिता ॥१८॥

यः तु सम्यग्विजानाति होरागणितसंहिताः ॥ अभ्यर्च्यः स नरेन्द्रेण स्वीकर्तव्यो जयैषणा ॥१९॥

न तत् सहस्रं करिणां वाजिनां च चतुर्गुणम् ॥ करोति देशकालज्ञो यथा एको ( यदेको) दैवचिन्तकः ॥२०॥

दुःस्वप्नदुर्विचिन्तितदुष्प्रेक्षितदुष्कृतानि कर्माणि ॥ क्षिप्रं प्रयान्ति नाशम् शशिनः श्रुत्वा भसंवादम् ॥२१॥

न तथा इच्छति भूपतेः पिता जननी वा स्वजनोऽथवा सुहृत् ॥ स्वयशोऽभिविवृद्दये यथा हितमाप्तः सबलस्य दैववित् ॥२२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP