संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९१

बृहत्संहिताः - अध्याय ९१

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


गावो दीनाः पार्थिवस्याशिवाय पादैः भूमिं कुट्टयन्त्यश्च रोगान् । मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः पत्युः भीताः तस्करान् आरुवन्त्यः ॥१॥

अकारणे क्रोशति चेदनर्थो भयाय रात्रौ वृषभः शिवाय । भृशं निरुद्धा यदि मक्षिकाभिः तदाशु वृष्टिं सरमात्मजैः वा ॥२॥

आगच्छन्त्यो वेश्म बंभारवेण संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः । आर्द्रांग्यो वा हृष्टरोम्ण्यः प्रहृष्टा धन्या गावः स्युः महिष्योऽपि चैवम् ॥३॥seprte

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP