संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ६६

बृहत्संहिताः - अध्याय ६६

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


मध्वाभदन्ताः सुविभक्तदेहा । न चौपदिग्धा न ( दिग्धाश्च) कृशाः क्षमाश्च । गात्रैः समैश्चापसमानवंशा । वराहतुल्यैः जघनैश्च भद्राः ॥१॥

वक्षोऽथ कक्षावलयः श्लथाश्च । लंबौदरः त्वग् बृहती गलश्च ॥स्थूला च कुक्षिः सह पेचकेन । सैंही च दृग् मन्दमतंगजस्य ॥२॥

मृगाः तु ह्रस्वाधरवालमेढ्राः तन्वंघ्रि ( तन्वंह्रि) कण्ठद्विजहस्तकर्णाः । स्थूलेक्षणाश्चेति यथोक्तचिह्नैः संकीर्णनागा व्यतिमिश्रचिह्नाः ॥३॥

पंचौन्नतिः सप्त मृगस्य दैर्घ्यम् अष्टौ च हस्ताः परिणाहमानम् । एकद्विवृद्धावथ मन्दभद्रौ संकीर्ननागोऽनियतप्रमाणः ॥४॥

भद्रस्य वर्णो हरितो मदश्च ( मद्स्य) मन्दस्य हारिद्रकसन्निकाशः । कृष्णो मदश्चाभिहितो मृगस्य संकीर्णनागस्य मदो विमिश्रः ॥५॥

ताम्रोष्ठतालुवदनाः कलविंकनेत्राः स्निग्ध ऊनताग्रदशनाः पृथुलायतास्याः । चापौन्नतायतनिगूढनिमग्नवंशाः तन्वेकरोमचितकूर्मसमानकुंभाः ॥६॥

विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मौन्नतद्विनवविंशतिभिः नखैश्च । रेखात्रयौपचितवृत्तकराः सुवाला धन्याः सुगन्धिमदपुष्करमारुताश्च ॥७॥

दीर्घांगुलिरक्तपुष्कराः सजलांभोदनिनादबृंहिणः । बृहदायतवृत्तकन्धरा धन्या भूमिपतेः मतंगजाः ॥८॥

निमर्द ( निर्मदा) अभ्यधिकहीननखांगान् कुब्जवामनकमेषविषाणान् । दृश्यकोशफलपुष्करहीनान् श्यावनीलशबलासिततालून् ॥९॥

स्वल्पवक्त्ररुहमत्कुणषण्ढान् । हस्तिनीं च गजलक्षणयुक्ताम् । गर्भिणी च नृपतिः परदेशं । प्रापयेदतिविरूपफलाः ते ॥१०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP