संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १५

बृहत्संहिताः - अध्याय १५

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः ॥ आकरिकनापितद्विजघटकारपुरोहिताब्दज्ञाः ॥१॥

रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकटिकाः ॥ गोवृषजलचरकर्षकशिलोच्चयैश्वर्यसंपन्नाः ॥२॥

मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहंगाः ॥ मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥३॥

रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः ॥ तुषधान्यतीक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः ॥४॥

आदित्ये सत्यौदार्यशौचकुलरूपधीयशोऽर्थयुताः ॥ उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥५॥

पुष्ये यवगोधूमाः शालीक्षुवनानि मन्त्रिणो भूपाः ॥ सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥६॥

अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि ॥ परधनहरणाभिरताः तुषधान्यं सर्वभिषजश्च ॥७॥

पित्र्ये धनधान्याढ्याः कोष्ठागाराणि पर्वताश्रयिणः ॥ पितृभक्तवणिक्षूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ॥८॥

प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि ॥ कर्पासलवणमक्षिक ( माक्षिक) तैलानि कुमारकाश्चापि ॥९॥

आर्यम्णे मार्दवशौचविनयपाखण्डि ( पाषण्डि) दानशास्त्ररताः ॥ शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ॥१०॥

हस्ते तस्करकुञ्जररथिकमहामात्रशिल्पिपण्यानि ॥ तुषधान्यं श्रुतयुक्ता वणिजः तेजोयुताश्चात्र ॥११॥

त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः ॥ गणितपटुतन्तुवायाः शालाक्या राजधान्यानि ॥१२॥

स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ॥ अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ॥१३॥

इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ॥ कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥१४॥

मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ॥ ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥१५॥

पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ॥ विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ॥१६॥

मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः ( वार्त्ताः) ॥ बीजानि अतिधनयुक्ताः फलमूलैः ये च वर्तन्ते ॥१७॥

आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः ॥ सेतुकरवारिजीवकफलकुसुमानि अंबुजातानि ॥१८॥

विश्वेश्वरे महामात्रमल्लकरितुरगदेवतासक्ताः ( भक्ताः) ॥ स्थावरयोधा भोगान्विताश्च ये तेजसा ( चौजसा) युक्ताः ॥१९॥

श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः ॥ उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥२०॥

वसुभे मानोन्मुक्ताः क्लीबा ( क्लीबाः) चलसौहृदाः स्त्रियां द्वेष्याः ( द्वष्याः, द्वेष्याः) ॥ दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥२१॥

वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः ॥ सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥२२॥

आजे तस्करपशुपालहिंस्रकीनाशनीचशठचेष्टाः ॥ धर्मव्रतैः विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥२३॥

आहिर्बुध्न्ये ( आहिर्बुध्न्यु) विप्राः क्रतुदानतपोयुता महाविभवाः ॥ आश्रमिणः पाखण्डा ( पाषण्डा) नरेश्वराः सारधान्यं च ॥२४॥

पौष्णे सलिलजफलकुसुमलवणमणिशंखमौक्तिकाब्जानि ॥ सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥२५॥

अश्विन्यामश्वहराः सेनापतिवैद्यसेवकाः तुरगाः ॥ तुरगारोहा वणिजो ( तुरगारोहाश्च वनिग्) रूपोपेताः तुरगरक्षाः ॥२६॥

याम्येऽसृक्पिशितभुजः क्रूरा वधबन्धताडनासक्ताः ॥ तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ॥२७॥

पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ॥ सपौष्णमैत्रं पितृदैवतं च प्रजापतेः भं च कृषीवलानाम् ॥२८॥

आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदन्ति तानि ( भानि) ॥ मूलत्रिनेत्रानिलवारुणानि भानि उग्रजातेः प्रभविष्णुतायाः ( तायां) ॥२९॥

सौम्येन्द्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि ॥ सार्पं विशाखा श्रवणो भरण्यश्चण्डालजातेः अभिनिर्दिशन्ति ( इति निर्दशन्ति) ॥३०॥

रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम् ॥ ग्रहणगतमथौल्कया हतं नियतमुषाकरपीडितं च यत् ॥३१॥

तदुपहतमिति प्रचक्षते प्रकृतिविपर्यययातमेव वा ॥ निगदितपरिवर्गदूषणं कथितविपर्ययगं समुऋद्धये ॥३२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP