संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ६८

बृहत्संहिताः - अध्याय ६८

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


ताराग्रहैः बलयुतैः स्वक्षेत्रस्वौच्चगैश्चतुष्टयगैः । पंच पुरुषाः प्रशस्ता जायन्ते तान् अहं वक्ष्ये ॥१॥

जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च । भद्रो बुधेन बलिना मालव्यो दैत्यपूज्येन ॥२॥

सत्त्वमहीनं सूर्यात्शारीरं मानसं च चन्द्रबलात् । यद् राशिभेदयुक्तावेतौ तल्लक्षणः स पुमान् ॥३॥

तद्धातुमहाभूतप्रकृतिद्युतिवर्णसत्त्वरूपाद्यैः । अबलरवीन्दुयुतैः तैः संकीर्णा लक्षणैः पुरुषाः ॥४॥

भौमात् सत्त्वं गुरुता बुधात् सुरेज्यात् स्वरः सितात् स्नेहः । वर्णः सौरादेषां गुणदोषैः साध्वसाधुत्वम् ॥५॥

संकीर्णाः स्युः न नृपा दशासु तेषां भवन्ति सुखभाजः । रिपुगृहनीचौच्चच्युतसत्पापनिरीक्षणैः भेदाः ( भेदः) ॥६॥

षण्णवतिः अंगुलानां व्यायामो दीर्घता च हंसस्य । शशरुचकभद्रमालव्यसंज्ञिताः त्र्यंगुलविवृद्ध्या ॥७॥

यः सात्त्विकः तस्य दया स्थिरत्वं सत्त्वार्जवं ब्राह्मणदेवभक्तिः । रजो अधिकः काव्यकलाक्रतुस्त्री- संसक्तचित्तः पुरुषोऽतिशूरः ॥८॥

तमोऽधिको वंचयिता परेषां मूर्खोऽलसः क्रोधपरोऽतिनिद्रः । मिश्रैः गुणैः सत्त्वरजस्तमोभिः मिश्राः तु ते सप्त सह प्रभेदैः ॥९॥

मालव्यो नागनासः समभुज ( नागनाससमभुज) युगलो जानुसंप्राप्तहस्तो । मांसैः पूर्णांगसन्धिः समरुचिरतनुः मध्यभागे कृशश्च । पंचाष्टौ च ऊर्ध्वमास्यं श्रुतिविवरमपि त्र्यंगुलोनं च तिर्यग् । दीप्ताक्षं सत्कपोलं समसितदशनं नातिमांसाधरोष्ठम् ॥१०॥

मालवान् स भरुकच्छसुराष्ट्रान् । लाटसिन्धुविषयप्रभृतींश्च । विक्रमार्जितधनोऽवति राजा । पारियात्रनिलयान् ( निलयः) कृतबुद्धिः ॥११॥

सप्ततिवर्षो मालव्योऽयं त्यक्ष्यति सम्यक् प्राणां तीर्थे । लक्षणमेतत् सम्यक् प्रोक्तं शेषनराणां चातो वक्ष्ये ॥१२॥

उपचितसमवृत्तलंबबाहुः । भुजयुगलप्रमितः समुच्छ्रयोऽस्य । मृदुतनुघनरोमनद्धगण्डो । भवति नरः खलु लक्षणेन भद्रः ॥१३॥

त्वक्षुक्रसारः पृथुपीनवक्षाः । सत्त्वाधिको व्याघ्रमुखः स्थिरश्च । क्षमान्वितो धर्मपरः कृतज्ञो । गजेन्द्रगामी बहुशास्त्रवेत्ता ॥१४॥

प्राज्ञो वपुष्मान् सुललाटशंखः । कलास्वभिज्ञो धृतिमान् सुकुक्षिः ॥सरोजगर्भद्युतिपाणिपादो । योगी सुनासः समसंहतभ्रूः ॥१५॥

नवांबुसिक्तावनिपत्रकुंकुम- । द्विपेन्द्रदानागुरुतुल्यगन्धता । शिरोरुहाश्चएकजकृष्णकुंचिताः । तुरंगनागोपमगुह्यगूढता ( गूढगुह्यता) ॥१६॥

हलमुशलगदासिशंखचक्र- । द्विपमकराब्जरथांकितांघ्रि ( अन्ह्रि) हस्तः ॥विभवमपि जनोऽस्य बोभुजीति । क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः ॥१७॥

अंगुलानि नवतिश्च षडूनान्य्- । उच्छ्रयेण तुलयापि हि भारः । मध्यदेशनृपतिः यदि पुष्टाश् । त्र्यादयोऽस्य सकलावनिनाथः ॥१८॥

भुक्त्वा सम्यग्वसुधां शौर्येणौपार्जितामशीत्यब्दः । तीर्थे प्राणां त्यक्त्वा भद्रो देवालयं याति ॥१९॥

ईषद्दन्तुरकः तनुद्विजनखः कोशेक्षणः शीघ्रगो विद्याधातुवणिक्क्रियासु निरतः संपूर्णगण्डः शठः । सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः शूरो मातृहितो वनाचलनदीदुर्गेषु सक्तः शशः ॥२०॥

दीर्घो अंगुलानां शतमष्टहीनं । साशंकचेष्टः पररन्ध्रविग । सारोऽस्य मज्जा निभृतप्रचारः । शशो ह्यतो ( अयं) नातिगुरुः प्रदिष्टः ॥२१॥

मध्ये कृशः खेटकखंगवीणा पर्यंकमालामुरजानुरूपाः । शूलोपमाश्च ऊर्ध्वगताश्च रेखाः शशस्य पादोपगताः करे वा ॥२२॥

प्रात्यन्तिको माण्डलिकोऽथवा अयं स्फिक्स्रावशूलाभिभवार्तमूर्तिः । एवं शशः सप्ततिहायनोऽयं वैवस्वतस्यालयमभ्युपैति ॥२३॥

रक्तं पीनकपोलमुन्नतनसं वक्त्रं सुवर्णोपमं वृत्तं चास्य शिरोऽक्षिणी मधुनिभे सर्वे च रक्ता नखाः । स्रग्दामांकुशशंखमत्स्ययुगलक्रत्वंगकुंभांबुजैश् चिह्नैः हंसकलस्वनः सुचरणो हंसः प्रसन्नेन्द्रियः ॥२४॥

रतिः अंभसि शुक्रसारता द्विगुणा चाष्टशतैः पलैः मितिः । परिमाणमथास्य षड्युता नवतिः संपरिकीर्तिता बुधैः ॥२५॥

भुनक्ति हंसः खसशूरसेनान् गान्धारगंगायामुनान्तरालम् । शतं दशोनं शरदां नृपत्वं कृत्वा वनान्ते समुपैति मृत्युम् ॥२६॥

सुभ्रूकेशो रक्तश्यामः कंबुग्रीवो व्यादीर्घास्यः । शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च ॥२७॥

यन्मात्रमास्यं रुचकस्य दीर्घं मध्यप्रदेशे चतुरस्रता ( चतुरश्रता) सा । तनुच्छविः शोणितमांससारो हन्ता द्विषां साहससिद्धकार्यः ॥२८॥

खट्वांगवीणावृषचापवज्र- शक्तीन्द्रशूलांकितपाणिपादः । भक्तो गुरुब्राह्मणदेवतानां शतांगुलः स्यात् तु सहस्रमानः ( तुलया सहस्रं) ॥२९॥

मन्त्राभिचारकुशलः कृशजानुजंघो विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा । संप्राप्य सप्ततिसमा रुचको नरेन्द्रः शस्त्रेण मृत्युमुपयात्यथवाऽनलेन ॥३०॥

पंचापरे वामनको जघन्यः । कुब्जोऽथवा मण्डलकोऽथ साची ( समी) । पूर्वोक्तभूपानुचरा भवन्ति । संकीर्णसंज्ञः ( संज्ञाः) शृणु लक्षणैः तान् ॥३१॥

संपूर्णांगो वामनो भग्नपृष्ठः किंचिग ऊरूमध्यकक्ष्य ( कक्ष) अन्तरेषु । ख्यातो राज्ञां ह्येष भद्रानुजीवी स्फीटो राजा ( दाता) वासुदेवस्य भक्तः ॥३२॥

मालव्यसेवी तु जघन्यनामा खण्डेन्दुतुल्यश्रवणः सुसन्धिः । शुक्रेण सारह् पिशुनः कविश्च रूक्षच्छविः स्थूलकरांगुलीकः ॥३३॥

क्रूरो धनी स्थूलमतिः प्रतीतः ताम्रच्छविः स्यात् परिहासशीलः उरो । अंघ्रि ( अन्ह्रि) हस्तेष्वसिशक्तिपाश- परश्वधांकः स ( अग़्कश्च) जघन्यनामा ॥३४॥

कुब्जो नाम्ना यः स शुद्धो ह्यधस्तात् क्षीणः किंचित् पूर्वकाये नतश्च । हंसासेवी नास्तिकोऽर्थैरुपेतो विद्वान् शूरः सूचकः स्यात् कृतज्ञः ॥३५॥

कलास्वभिज्ञः कलहप्रियश्च प्रभूतभृत्यः प्रमदाजितश्च । संपूज्य लोकं प्रजहात्यकस्मात् कुब्जोऽयमुक्तः सततोद्यतश्च ॥३६॥

मण्डलकक्षणमतो ( कनामधेयो लक्षणमतो) रुचकानुचरोऽभिचारवित् कुशलः । कृत्यावेताल ( वैताल) आदिषु कर्मसु विद्यासु चानुरतः ॥३७॥

वृद्धाकारः खरपरुषमूर्धजश्रूक्षमूर्धजः) च शत्रुनाशने कुशलः । द्विजदेवयज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान् ॥३८॥

साचीइति ( सामीति) यः सोऽतिविरूपदेहः शशानुगामी खलु दुर्भगश्च । दाता महारंभसमाप्तकार्यो गुणैः शशस्यैव भवेत् समानः ॥३९॥

पुरुषलक्षणमुक्तमिदम् मया मुनिमतानि निरीक्ष्य समासतः । इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः ॥४०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP