संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ६५

बृहत्संहिताः - अध्याय ६५

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


दीर्घग्रीवाक्षिकूटः त्रिकहृदयपृथुः ताम्रतालु ओष्ठजिह्वः । सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णओष्ठपुच्छः । जंघाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो । वाजी सर्वांगशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् ॥१॥

अश्रुपातहनुगण्डहृद् ( हृड्) गलप्रोथशंखकटिबस्तिजानूनि । मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणे तथा ( चरणेषु च) शुभाः ॥२॥

ये प्रपाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरि स्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगाः ते ललाटसहिताः सुशोभनाः ॥३॥

तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्ताः । रन्ध्रुपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ ॥४॥

षष्भिः दन्तैः सिताभैः भवति हयशिशुः तैः कशायैः द्विवर्षैः सन्दंशैः मध्यमन्त्यैः पति ( पतित) समुदितैः त्र्यब्धि ( त्र्यब्द) पंचाब्दिकाश्वः । सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिका पीतशुक्लाः काचा मक्षीक ( माक्षीक) शंखावटचलनमतो दन्तपातं च विद्धि ॥५॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP