संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५०

श्रीवामनपुराण - अध्याय ५०

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


देवदेव उवाच

एवं पृथूदको देवाः पुण्यः पापभयापहः ।

तं गच्छध्वं महातीर्थं यावत् संनिधिबोधितम् ॥१॥

यदा मृगशिरोऋक्षे शशिसूर्यौ बृहस्पतिः ।

तिष्ठन्ति सा तिथिः पुण्या त्वक्षया परिगीयते ॥२॥

तं गच्छध्वं सुरश्रेष्ठा यत्र प्राची सरस्वती ।

पितृनाराधयध्वं हि तत्र श्राद्धेन भक्तितः ॥३॥

ततो मुरारिवचनं श्रुत्वा देवाः सवासवाः ।

समाजग्मुः कुरुक्षेत्रे पुण्यतीर्थं पृथूदकम् ॥४॥

तत्र स्त्रात्वा सुराः सर्वे बृहस्पतिमचोदयन् ।

विशस्व भगवन् ऋक्षमिमं मृगशिरं कुरु ।

पुण्यां तिथिं पापहरां तव कालोऽयमागतः ॥५॥

प्रवर्तते रविस्तत्र चन्द्रमाऽपि विशत्यसौ ।

त्वदायत्तं गुरो कार्यं सुराणां तत् कुरुष्व च ॥६॥

इत्येवमुक्तो देवैस्तु देवाचार्योऽब्रवीदिदम् ।

यदि वर्षाधिपोऽहं स्यां ततो यास्यामि देवताः ।

बाढमूचुः सुराः सर्वे ततोऽसौ प्राक्रमन्मृगम् ॥७॥

आषाढे मासि मार्गर्क्षे चन्द्रक्षयतिथिर्हि या ।

तस्यां पुरन्दरः प्रीतः पिण्डं पितृषु भक्तितः ॥८॥

प्रादात् तिलमधून्मिश्रं हविष्यान्नं कुरुष्वथ ।

ततः प्रीतास्तु पितरस्तां प्राहुस्तनयां निजाम् ॥९॥

मेनां देवाश्च शैलाय हिमयुक्ताय वै ददुः ।

तां मेनां हिमवाँल्लब्ध्वा प्रसादाद दैवतेष्वथ ।

प्रीतिमानभवच्चासौ रराम च यथेच्छया ॥१०॥

ततो हिमाद्रिः पितृकन्यया समं समर्पयन् वै विषयान् यथेष्टम् ।

अजीजनत् सा तनयाश्च तिस्त्रो रुपातियुक्ताः सुरयोषितोपमाः ॥११॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP