संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १८

श्रीवामनपुराण - अध्याय १८

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततस्तु देवा महिषेण निर्जिताः स्थानानि संत्यज्य सवाहनायुधाः ।

जग्मुः पुरस्कृत्य पितामहं ते द्रष्टुं तदा चक्रधरं श्रियः पतिम् ॥१॥

गत्वा त्वपश्यंश्च मिथः सुरोत्तमौ स्थितौ खगेन्द्रासनशङ्करौ हि ।

दृष्ट्वा प्रणम्यैव च सिद्धिसाधकौ न्यवेदयंस्तन्महिषादिचेष्टितम् ॥२॥

प्रभोऽश्विसूर्येन्द्वनिलाग्निवेधसां जलेशशक्रादिषु चाधिकारान् ।

आक्रम्य नाकात्तु निराकृता वयं कृतावनिस्था महिषासुरेण ॥३॥

एतद् भवन्तौ शरणागतानां श्रुत्वा वचो ब्रूत हितं सुराणाम् ।

न चेद व्रजामोऽद्य रसातलं हि संकाल्यमाना युधि दानवेन ॥४॥

इत्थं मुरारिः सह शङ्करेण श्रुत्वा वचो विप्लुतचेतसस्तान् ।

दृष्ट्वाऽथ चक्रे सहसैव कोपं कालाग्निकल्पो हरिरव्ययात्मा ॥५॥

ततोऽनुकोपान्मधुसूदनस्य सशङ्करस्यापि पितामहस्य ।

तथैव शक्रादिषु दैवतेषु महर्द्धि तेजो वदनाद् विनिः सृतम् ॥६॥

तच्चैकतां पर्वतकूटसन्निभं जगाम तेजः प्रवराश्रमे मुने ।

कात्यायनस्याप्रतिमस्य तेन महर्षिणा तेज उपाकृतं च ॥७॥

तेनर्षिसृष्टेन च तेजसा वृतं ज्वलत्प्रकाशार्कसहस्त्रतुल्यम् ।

तस्माच्च जाता तरलायताक्षी कात्यायनी योगविशुद्धदेहा ॥८॥

माहेश्वराद् वक्त्रमथो बभूव नेत्रत्रयं पावकतेजसा च ।

याम्येन केशा हरितेजसा च भुजास्तथाष्टादश संप्रजज्ञिरे ॥९॥

सौम्येन युग्मं स्तनयोः सुसंहतं मध्यं तथैन्द्रेण च तेजसाऽभवत् ।

ऊरु च जङ्घे च नितम्बसंयुते जाते जलेशस्य तु तेजसा हि ॥१०॥

पादौ च लोकप्रतितामहस्य पद्माभिकोशप्रतिमौ बभूवतुः ।

दिवाकराणामपि तेजसाऽङ्गुलीः कराङ्गुलीश्च वसुतेजसैव ॥११॥

प्रजापतीनां दशनाश्च तेजसा याक्षेण नासा श्रवणौ च मारुतात् ।

साध्येन च भ्रूयुगलं सुकान्तिमत् कंदर्पबाणासनसन्निभं बभौ ॥१२॥

तथर्षितेजोत्तममुत्तमं महन्नाम्ना पृथिव्यामभवत् प्रसिद्धम् ।

कात्यायनीत्येव तदा बभौ सा नाम्ना च तेनैव जगत्प्रसिद्धा ॥१३॥

ददौ त्रिशूलं वरदस्त्रिशूली चक्रं मुरारिर्वरुणश्च शङ्खम् ।

शक्तिं हुताशः श्वसनश्च चापं तूणौ तथाक्षय्यशरौ विवस्वान् ॥१४॥

वज्रं तथेन्द्रः सह घटण्या च यमोऽथ दण्डं धनदो गदां च ।

ब्रह्माऽक्षमालां सकमण्डलुं च कालोऽसिमुग्रं सह चर्मणा च ॥१५॥

हारं च सोमः सह चामरेण मालां समुद्रो हिमवान् मृगेन्द्रम् ।

चूडामणिं कुण्डलमर्द्धचन्द्रं प्रादात् कुठारं वसु शिल्पकर्त्ता ॥१६॥

गन्धर्वराजो रजतानुलिप्तं पानस्य पूर्णं सदृशं च भाजनम् ।

भुजंगहारं भुजगेश्वरोऽपि अम्लानपुष्पामृतवः स्त्रजं च ॥१७॥

तदाऽतितुष्टा सुरसत्तमानां अट्टाट्टहासं मुमुचे त्रिनेत्रा ।

तां तुष्टवुर्देववराः सहेन्द्राः सविष्णुरुद्रेन्द्वनिलाग्निभास्कराः ॥१८॥

नमोऽस्तु देव्यै सुरपूजितायै या संस्थिता योगविशुद्धदेहा ।

निद्रास्वरुपेण महीं वितत्य तृष्णा त्रपा क्षुद भयदाऽथ कान्तिः ॥१९॥

श्रद्धा स्मृतिः पुष्टिरथो क्षमा च छाया च शक्तिः कमलालया च ।

वृत्तिर्दया भ्रान्तिरथेह माया नमोऽस्तु देव्यै भवरुपिकायै ॥२०॥

ततः स्तुता देववर्यैर्मृगेन्द्रमारुह्य देवी प्रगताऽवनीध्रम् ।

विन्ध्यं महापर्वतमुच्चश्रृङ्गं चकार यं निम्नतरं त्वगस्त्यः ॥२१॥

किमर्थमद्रिं भगवानगस्त्यस्तं निम्नश्रृङ्गं कृतवान् महर्षिः ।

कस्मै कृते केन च कारणेन एतद वदस्वामलसत्त्ववृते ॥२२॥

पुलस्त्य उवाच

 

पुरा हि विन्ध्येय दिवाकरस्य गतिर्निरुद्धा गगनेचरस्य ।

रविस्ततः कुम्भभवं समेत्य होमावसाने वचनं बभाषे ॥२३॥

समागतोऽहं द्विज दूरतस्त्वां कुरुष्व मामुद्धरणं मुनीद्र ।

ददस्व दानं मम यन्मनीषितं चरामि येन त्रिदिवेषु निर्वृत्तः ॥२४॥

इत्थं दिवाकरवचो गुणसंप्रयोगि श्रुत्वा तदा कलशजो वचनं बभाषे ।

दानं ददामि तव यन्मनसस्त्वभीष्टं नार्थी प्रयाति विमुखो मम कश्चिदेव ॥२५॥

श्रुत्वा वचोऽमृतमयं कलशोद्भवस्य प्राह प्रभुः करतले विनिधाय मूर्ध्नि ।

एषोऽद्य मे गिरिवरः प्ररुणद्धि मार्गं विन्ध्यस्य निम्नकरणे भगवन् यतस्व ॥२६॥

इति रविवचनादथाह कुम्भजन्मा कृतमिति विद्धि मया हि नीचश्रृङ्गम् ।

तव किरणजितो भविष्यते महीध्रो मम चरणसमाश्रितस्य का व्यथा ते ॥२७॥

इत्येवमुक्त्वा कलशोद्भवस्तु सूर्यं हि संस्तूय विनम्य भक्त्या ।

जगाम संत्यज्य हि दण्डकं हि विन्ध्याचलं वृद्धपवपुर्महर्षिः ॥२८॥

गत्वा वचः प्राह मुनिर्महीध्रं यास्ये महातीर्थ वरं सुपुण्यम् ।

वृद्धोऽस्म्यशक्तश्च तवाधिरोढुं तस्माद् भवान् नीचतरोऽस्तु सद्यः ॥२९॥

इत्येवमुक्तो मुनिसत्तमेन स नीचश्रृङ्गस्त्वभवन्महीध्रः ।

समाक्रमच्चापि महर्षिमुख्यः प्रोल्लङ्ह्य विन्ध्यं त्विदमाह शैलम् ॥३०॥

यावन्त भूयो निजमाव्रजामि महाश्रयं धौतवपुः सुतीर्थात् ।

त्वया न तावत्त्विह वर्धितव्यं नो चेद विशप्स्येऽहमवज्ञया ते ॥३१॥

इत्येवमुक्त्वा भगवाञ्जगाम दिशं स याम्यां सहसान्तरिक्षम् ।

आक्रम्य तस्थौ स हि तां तदाशां काले व्रजाम्यत्र यदा मुनीन्द्रः ॥३२॥

तत्राश्रमं रम्यतरं हि कृत्वा संशुद्धजाम्बूनदतोरणान्तम् ।

तत्राथ निक्षिप्य विदर्भपुत्रीं स्वमाश्रमं सौम्यमुपाजगाम ॥३३॥

ऋतावृतौ पर्वकालेषु नित्यं तमम्बरे ह्याश्रममावसत् सः ।

शेषं च कालं स हि दण्डकस्थस्तपश्चचारामितकान्तिमान् मुनिः ॥३४॥

विन्ध्योऽपि दृष्ट्वा गगने महाश्रमं वृद्धिं न यात्येव भयान्महर्षेः ।

नासौ निवृत्तेति मतिं विधाय स संस्थितो नीचतराग्रश्रृङ्गः ॥३५॥

एवं त्वगस्त्येन महाचलेन्द्रः स नीचश्रृङ्गो हि कृतो महर्षे ।

तस्योर्ध्वश्रृङ्गे मुनिसंस्तुता सा दुर्गा स्थिता दानवनाशनार्थम् ॥३६॥

देवाश्च सिद्धाश्च महोरगाश्च विद्याधरा महोरगाश्च विद्याधरा भूतगणाश्च सर्वे ।

सर्वाप्सरोभिः प्रतिरामयन्तः कात्यायनीं तस्थुरपेतशोकाः ॥३७॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP